________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
११५
aanti
द्रव्यार्थिकादिरस्तित्वादिमति कथञ्चिदस्तित्वादिकम् , अपूर्णत्वात् सप्तभङ्गपरिकरितवरत्ववाहितात्पर्याभाववत्वाश्च प्रमा न,-अनेनालौकिकप्रामाण्याभाव आवेदितः, लौकिकं तु प्रामाण्यं तद्वति तत्प्रकारक. त्वरूपं न बाधितमिति न व्यवहारविरोधः, विचारोपयिकं चा(च)प्रामाण्यं प्रस्तुतम् , न प्रवृत्तिमात्रोपयिकमिति नयज्ञानस्य न पूर्णप्रमात्वमत उक्तचतुष्टयविलक्षणमेवेदं नयज्ञानमनुभवसिद्धमभ्युपगन्तव्यम् , न चेदं स्वमनीषिकाविज़म्भितम्, यत उक्तं तत्त्वार्थभाष्ये "तथाप्येते तन्त्रान्तरीयाः स्वतन्त्रा बा चोदकपक्षमाहिणो मतिभेदेन विप्रधाविता" [अत्राह-किमेते तन्त्रान्तरीया वादिनः ? आहोस्वित् स्वतन्त्रा एव चोदकपक्षमाहिणो मतिभेदेन प्रधाविता इति ?, अत्रोच्येते-ते तन्त्रान्तरीयाः, नापि स्वतन्त्रा मतिभेदेन प्रधाविताः, शेयस्य स्वर्थस्याध्यवसायान्तराण्येतानि | तत्त्वार्थ ० अध्याय १, सूत्रविभ्रम इत्याह-अवगाहते हीति । 'द्रव्यार्थिकादिः' इत्यत्रादिपदात् पर्यायार्थिकस्योपग्रहः, सामान्यतो द्रव्यार्थिकपर्यायार्थिकयोहणे तदवान्तरभेदानामपि सङ्ग्रहादीनामपि तत्त्वेन प्रहणमायातमेवेति बोध्यम् । 'अस्तित्वादि' इत्यादिपदान्नास्तिस्वादेरुपग्रहः । एकान्तास्तित्वादिकमवगाहमानस्य दुर्नयत्वेन विभ्रमत्वमिष्टमेव तस्य यथार्थत्वाभावात् , नोकान्तास्तित्वादिमत् किमपि समस्तीति तस्य न तद्वति तत्प्रकारकत्वाभावात् , किन्तु कथञ्चिदस्तित्वादिमति कथञ्चिदस्तित्वादिकमवगाहमानस्य सुनयस्य यथार्थत्वाद् विभ्रमत्वाभाव इत्यावेदनायोक्तम्-कश्चिदस्तित्वादिकमिति । 'अपूर्णत्वाद इत्यस्य स्थाने 'अपूर्णत्वाच' इति पाठो युज्यते तत एव तत्तद्विवरणं चकारान्तमिति । 'सप्तमपरिकरितवस्ववगाहितात्पर्याभाववत्त्वाच' इत्यस्य स्थाने 'सप्तभङ्गपरिकरितवस्त्ववगाहितापर्यायभाववत्त्वाच्छ' इति पाठो युक्तः, सप्तभनयात्मकमहावाक्यजन्यबोधस्य निराकासस्य सप्तभङ्गप्रतिपाद्यकश्चिदस्तित्वादिसप्तविधधर्मात्मकवस्त्ववगाहितापर्याप्तिमत्त्वेन प्रमाणत्वं तदभाववत्वाच्चैकधर्मात्मकवस्त्ववाहिनो नयस्य न प्रमाणत्वमित्यर्थः । नन्वनन्तधर्मात्मकवस्तुनो. न सप्तविधधर्मात्मकतयैव पूर्णतेति तत्त्वेनावगाहमानस्य बोधस्यापि न पूर्णत्वमिति कथं प्रमाणत्वनिमित्तं निरुक्तपर्याप्तिमत्त्वम्, तथाऽपि एकैकधर्माश्रयणेन प्रत्येक सप्तधर्मात्मकत्वमेव भवति वस्तुन इति तथावबोधे सति न तद्धर्माश्रयणेन भवत्याकालेति निराकासत्वनिमित्तकपूर्णत्वनिमित्तकं निरुक्तपर्याप्तिमतः प्रमाणत्वम् , यच्च 'स्याद्वाद-केवलज्ञाने सकलार्थावभासने' इति वचनात् सप्तभङ्गात्मकस्याद्वादप्रभवज्ञानस्य सकलार्थावभासकत्वेन प्रामाण्यमभिमतं तत् सकलादेशमहिम्नेव सम्भवति नान्यथा, सकलादेशमहिना चैकभलेनापि स्यात्पदलाञ्छितेन स्याद्वादस्वरूपतामाभेजाननानन्तधर्मात्मकवस्तुग्रहणलक्षणप्रमाणोत्पत्तिः सम्भवत्येव, परं सकलादेशाश्रयणं नात्राभिमतं तथा सति 'सप्तभापरिकरित' इत्यक्तिरसमजसा स्यादिति बोध्यम्। अनेन न प्रमेति वचनेन । न बाधितं नये न बाधितं किन्ववाधितमेव । इति एतस्मात् कारणात् । न व्यवहारविरोध इति- एकैकधर्मावगाहिज्ञानादिष्टसाधनताज्ञान लक्षणाद् यः प्रवृत्तिलक्षणो व्यवहारो यश्च तादृशज्ञानाद् द्विष्टसाधनताज्ञानलक्षणानिवृत्तिलक्षणो व्यवहारस्तस्यानुपपत्तिलक्षणविरोधो नेत्यर्थः। ननु नयस्य लौकिकप्रामाण्यस्याप्यभावेऽलौकिकप्रामाण्यपरिकलितादेव ज्ञानात् प्रवृत्ति-निवृत्तिलक्षणव्यवहारो भविष्यतीत्येतावताऽपि न व्यवहारविरोध इत्यत आह-विचारोपयिक चेति । प्रस्तुतं नयज्ञाने निषेध्यत्वेन प्रक्रान्तमलौकिकम् । न प्रवृत्तिमात्रोपयिकम न लौकिक प्रवृत्ति-निवृत्त्यादिलक्षणव्यवहारोपयोगि, तथा च प्रवृत्तिमात्रोपयिकं प्रामार्य न प्रस्तुतं येन तस्य नये सत्त्वेन तनिषेधो नोपपद्येत किन्तु विचारोपयिकमेव प्रामाण्यं प्रस्तुतम्, तच्च सप्तभङ्गपरिकलितवस्त्ववगाहिपर्याप्तिमत्त्वलक्षणपूर्णप्रमात्वमेव, तन्न नयज्ञानस्येति निगमयति- इति नयज्ञानस्य न पूर्णप्रमात्वमिति । अतः उक्तदिशा नये संशयत्वादिनिषेधात् । उक्तचतुष्टयविलक्षणम् संशय-समुच्चय-भ्रम-प्रमाविलक्षणम् । ननु स्वकपोलकल्पितं नयस्य संशयादिवलक्षण्यं न परीक्षकमान्यमित्यत आह-नचेदमिति । तत्त्वार्थभाष्यग्रन्थमुल्लिखति-तथापीति । एते अनन्तरोपदर्शितस्वरूपा नयाः। तन्त्रान्तरीयाः एकान्ताभिनिवेशग्रहपहिलनैयायिकाद्यभिमतबोधस्वरूपाः । स्वतन्त्रा वेति-जैनराधान्तगता एव, किन्तु चोदकस्य प्रश्नकर्तुर्योऽभिमतः पक्षः तद्राहिणः सन्तो मति मेदेन 'सामान्यमेव सत्त्वं विशेषाणां सत्तामहासामान्यव्यतिरिक्तानामभावात् , विशेषा एवार्थक्रियाकारिणस्तत्त्वं दोहनवाहनाद्यर्थक्रियाऽसमर्थस्य सामान्यस्य तत्त्व. रूपत्वासम्भवाद् ' इत्येवं मतिभेदेनाभिप्रायभेदेन विप्रधाविताः विरुद्धवस्तुनिरूपणमार्ग समाश्रिताः, तया चैते विप्रति