Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः।
३५ भाष्यम् ] उभयथापि मिथ्यात्वमिति चेत् ? न-प्रमाणापेक्षात्वेनैतेषामुभयवैलझण्यादिति, अत एव संयोगेऽपि नैतेषां विप्रतिपत्तित्वम् , सव-जीवाजीवात्मकत्व-द्रव्यगुणपर्यायात्मकत्व-चतुर्दर्शनविषयत्वपञ्चास्तिकायावरुद्धत्व-षड्द्रव्यक्रोडीकृतत्वधम्मैरेकत्व-द्वित्व-त्रित्व-चतुष्ट्व-पश्चत्व-षड्त्वाध्यवसायानामिव पर्यायविशुद्धिवशात् पृथगर्यप्राहिणां मतिज्ञानादीनामिवैकत्रार्थे प्रतिनियतयिषयविभागशालिनां प्रत्यक्षादी. नामिव वा नैगमाद्यध्यवसायानामविरुद्ध नानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वादिति सम्प्रदायः, अत्र त्रिभिनिदर्शनैर्विरुद्धधर्मग्राहित्वाऽशग्राहित्व-परस्परफलबैलक्षण्यानां विप्रतिपत्तित्वसाधकहेतूनामसिद्धिव्यभिचारप्रदर्शनादिष्टसिद्धिरित्यस्मदीयो विवेकः ॥ ८॥ पत्तय इत्यर्थः । उभयथाऽपि नयानां तन्त्रान्तरीयत्वे स्वतन्त्रत्वे चेत्यर्थः । मिथ्यात्वं भ्रमत्वम् , तथा च मिथ्याज्ञान न वस्तुसियामिति न नयानां तत्त्वाधिगमाङ्गत्वमिति प्रश्नाभिसन्धिः, समाधत्ते-नेति । 'प्रमाणापेक्षात्वेन' इति स्थाने 'प्रमाणापेक्ष्यत्वेन ' इति पाठः शोभनः। पतेर्षा नगमादिनयानाम् । उभयति- तन्त्रान्तरीय-स्वतन्त्रोभयेत्यर्थः, प्रमाणं सरवाऽसत्त्वाद्यनन्तधर्मात्मकतया वस्तुतत्त्वं गृहाति, न च परस्परविरुद्धानां सत्वा-उसत्त्वादीनामेकस्मिन् समावेश इति तेषामपेक्षाभेदेनैकत्र समावेशतोऽविरोध इत्यधिगतिप्रयोजनका निमित्तभेदोपदर्शका नया विवेकेन स्वविषयधर्माणामेकस्मिन् समावेशसौष्ठवाय प्रमानापेश्यन्ते, तन्त्रान्तरोयाश्चैकान्तेनैव सत्त्वा-ऽसत्त्वादिधर्मप्राहका इति नाविरोधो. पपादनप्रत्यलाः, प्रत्युत विरोधोपस्थापका एवेति न प्रमाणापेक्ष्याः, एवं चोदकपक्षप्राहिणः स्वतन्त्रा अपीति नयानां प्रमाणापेक्ष्यत्वं तन्त्रान्तरीयाणां स्वतन्त्राणां च तदभाव इति विरुद्धधर्मयोगान्न नयानां तन्त्रान्तरीयत्वं स्वतन्त्रत्वं वा किन्तु तदुभयविलक्षणत्वमेवेत्यर्थः। अत एव प्रमाणापेक्ष्यत्वेन नयानामुभयवलक्षण्यादेव। संयोगेऽपीति- अपिना केवलस्यैकैकस्यैकैकधर्मग्राहकत्वनैव विरुद्धधर्मद्वय ग्राहकत्वाभावादेव न विप्रतिपत्तित्वमित्यस्योपग्रहः, नययोः संयोगे निष्पन्ननयद्यस्वरूपस्य धर्मद्वयग्राहकत्वेऽपि विषयीभूतयोर्धर्मयोविरोधाभावादेव विरुद्धधर्मद्वयादि। पत्तित्वमेतेषां नयानां नेत्यर्थः । नैगमादिनयानामविरुद्धनानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वं दृष्टान्तत्रयोपढौकनेन द्रढयति-सत्त्वेति- 'सर्वमेकं सदविशेषाद् ' इति सत्त्वधर्मेण सर्वस्यकत्वाध्यवसायः, 'सर्व द्विस्वभावं जीवाजीवात्मकत्वाद्' इति जीवा-ऽजीवात्मकत्वधर्मेण सर्वस्य द्वित्वाध्यवसायः, 'सर्व त्रितयस्वरूपं द्रव्यगुणपर्यायात्मकत्वाद्' इति द्रव्य गुण-पर्यायात्मकत्वधर्मेण सर्वस्य त्रित्वाध्यवसायः, · सर्व चतुष्टयस्वरूपं चतुर्दशेनविषयत्वाद् ' इति चतुर्दर्शनविषयत्वधर्मेण सर्वस्य चतुष्ट्वाध्यवसायः, सर्व पञ्चात्मकं पञ्चास्तिकायावरुद्धत्वाद्' इति पञ्चास्तिकायावरुद्धत्वधर्मेण सर्वस्य पञ्चात्मकत्वाध्यवसायः, ' सर्व षदस्वरूप बद्रव्यकोडीकृतत्वाद्' इति षड्द्रव्यकोडीकृतत्वधर्मेण सर्वस्य पदत्वाध्यवसाय इत्येवमुक्कान पण्णामध्यवसायानामिवेत्यर्थः । पर्यायेति- पर्यायविशुद्धिवशादेकत्रैवार्थे न्यूनाधिकपर्याय ग्राहित्वेन पृथगर्थग्राहिणां मतिज्ञान श्रुतज्ञानादीनामिवेत्यर्थः, एकत्रार्थ इति- एकस्मिन् घटादिरूपेऽर्थे प्रतिनियतरूपरसादिविषयविभागशालिनां चाक्षुषरासनादिप्रत्यक्षादीनामिवेत्यर्थः । एकेनैव निदर्शनेन नैगमादानामविप्रतिपत्तिरूपत्वस्य निर्णीतिसम्भवेन निदर्शनत्रयोपादानं किमर्थमित्यपेक्षायामाह- अति - नैगमादयो नया विप्रतिपत्तयो विरुद्धधर्मग्राहित्वाद्' इत्यनुमानहेतोविरुद्धधर्मग्राहित्वस्यासिद्धयुपदर्शनाय प्रथमनिदर्शनम्, यथैकत्व-द्वित्वाद्यध्यवसायविषया एकत्व-द्वित्वादयोऽपेक्षाभेदनकन वर्तमाना न विरुद्धा इति तद्राहिणामेकत्व-द्वित्वाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्यमेव न विरुद्ध नानाधर्मग्राहित्वं तथा नैगमाद्यध्यवसायविषयाः सामान्यविशेषधर्मा अप्यपेक्षाभेदेनैकत्र वर्तमाना न विरुद्धा इति तद्वाहिणामपि नैगमाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्यमेव न विरुद्धनानाधर्मग्राहित्वमिति तस्यासिद्धिः, नैगमादयो नया विप्रतिपत्तयोऽशनाहित्वाद्' इत्यनुमानहेतोरंशप्राहित्वस्य व्यभिचारोपदर्शनार्थ द्वितीयनिदर्शनम् , विप्रतिपत्तित्वस्य व्याप्यं नांशप्राहित्वं मतिज्ञानादीनामंशमादित्वेऽपि विप्रतिपत्तित्वाभावादित्यंशग्राहित्वहेतुमिचरितः, · नैगमादयो नया विप्रतिपतयः परस्परफलवलक्षण्याद्' इत्यनुमानहेतोरपि व्यभिचारप्रदर्शनार्थ तृतीयनिदर्शनम्, विप्रतिपत्तित्वाभावेऽपि प्रत्यक्षादिषु परस्परफलवलक्षण्यस्य सद्भावादिति व्यभिचायेंच परस्पर फलवैलण्यलक्षणो हेतुरतो नैगमादीनां न विप्रतिपत्तित्वमितीष्टं निर्वहतीति निदर्शनत्रयोपादानं युक्तमेव, अयं च विवेको नान्येन परिभावितः किन्तु मया यशोविजयोपाध्यायेनैवेत्यावेदनायाह-इत्यस्मदीयो विवेक इति ॥८॥

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210