Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 139
________________ HEAAAAHAMARPRAVANATAKorea Porave e nmmmmm H anummong मयानततरहिणी-तरहिणीतरणिभ्यां समाहतो मयोपरयः । तदेवमेकानेकरूपा नयप्रमाणप्रतिपत्तयः प्रामाणिक्य इति स्थितम् ॥ ७ ॥ अथेदं नयज्ञानं प्रमा-ऽप्रमयोः कुत्रान्तर्भवतीत्याशङ्कय तदुभयविलक्षणमेवेति निश्चिनोति अयं न संशयः कोटेरैक्यान्न च समुच्चयः । न विभ्रमो यथार्थत्वादपूर्णत्वाच न प्रमा ॥ ८॥ नयामृत०-अयमिति—अयं नयात्मको बोधः, संशयो न, कुतः ? कोटे:-प्रकारस्य ऐक्यात्, संशयस्य चैकत्र विरुद्धोभयप्रकारकज्ञानस्वरूपत्वात् , अत एव समुच्चयोऽपि न, चोऽप्यर्थः, तस्य एकत्राश्रयणेन पूर्व परिभावितो विचार उपपद्यतेतराम् । एकान्तवादिनां तु विचारो न कोऽपि युक्त्योपपद्यत इत्याह- अन्येषां स्विति- एकान्तवादिनां नैयायिकादीनां पुनरित्यर्थः । विकल्पशिल्पघटितः विशिष्टबुद्धिश्चतुर्धा- विशेष्ये विशेषणमिति बुद्धिः, विशिष्टस्य वैशिष्ट्यमिति बुद्धिः, विशिष्टे वैशिष्ट्यमिति बुद्धिः, एकत्र द्वयमिति बुद्धिरित्यवं विकल्परचनानिर्मितः। 'बोधस्तृतीयं क्षणध्वंसी' इत्यस्य स्थाने 'बोधस्तृतीयक्षणध्वंसी' इति पाठो युक्तः, तस्य 'बोधस्तृतीयक्षणवृत्ति ध्वंसप्रतियोगी' इत्यर्थः, प्रथमक्षण बुद्धिरुत्पद्यते, द्वितीयक्ष ज्ञानान्तरमुत्पद्यते इच्छादिकं वा, तेन तृतीयक्षणे प्रथमक्षणोत्पन्ना बुद्धिविनश्यतीति क्षणद्वयमात्रस्थायी बोध इति यावत् । यस्मात् कारणकदम्बादयं बोध उदितस्तेन कारणनिचयेन सह नैकस्मिन् काले सामानाधिकरण्यमनुभवतीति तत्तद्विषयैतदीयविषयसमध्यपादानतो योऽयं विचारपरिपूर्तिभावो यो युक्तायुक्तविवेकाय प्रामाणिकैZग्यते स एव न स्याद् , दीर्घोपयोगे सत्येव हेतुहेतुमद्भावापन्नज्ञानस्तोमात्मकैकज्ञानत एवं विचार्यस्वरूपविशेषनिष्टङ्कनपटिष्ठविचारपरिसमाप्तेरित्याह- ध्वस्तसमस्तहत्वमिलित इति-स्वोत्पत्तिसमयक्षणवृत्तिध्वंसप्रतियोगितत्तद्विषयपरिभावुकबुद्धिकदम्बात्मकस्वहेत्वधिकरणसमयावृत्तिरित्यर्थः । कस्मिन् विचार न कस्मिन् विचारे, क्षमः समर्थः, ततश्च स्वाभीष्टसमर्थनप्रवणविचारनिष्पादनासमर्थानामेकान्तवादिनां न किमपि विचार्य सिद्धिपद्धतिमुपगच्छतीति तेषां सर्वोऽपि तदर्थ प्रयासो निष्फल एवेति भावः ॥ २॥ उपसंहरति-तदेवमिति ॥ ७ ॥ एतावता नयात्मकं ज्ञानं व्यवस्थाप्य तस्य प्रमा-ऽप्रमोभयविलक्षणस्वरूपत्वप्रतिपादनप्रत्यलमष्टमपद्यमवतारयतिअथेति । इदम् अनन्तरमेव प्रामाणिकतया निष्टङ्कितस्वरूपम् । तदुभयविलक्षणमेव प्रमाऽप्रमोभयविलक्षणमेव । अष्टमपद्यं विवृणोति-अयमितीति । अयम् इति मूलम् , तद्विवरणम्- 'नयात्मको बोधः' इति, इदमः प्रत्यक्षवाचि. स्वेनेदानी नयनिरूपणप्रवणस्य नयोपदेशकर्तुद्धौ विपरिवर्तमानत्वात् सन्निहितो नयात्मकयोध एव मानसप्रत्यक्षविषयत्वात् प्रत्यक्ष इति स इदम्पदव्यपदेश्यो भवतीति, यद्यप्येककोटिकज्ञानलक्षणस्थ नयस्य संशयत्व-समुच्चयत्वे न प्राप्ते, अत एव तत्र तदन्तर्भावस्य सम्भावनाऽपि नास्तीत्याकलय्य प्रमा-Sप्रमयोरेकत्रैव तदन्तर्भावः सम्भाव्यतेति 'प्रमा-ऽप्रमयोः कुत्रान्तर्भवति' इत्येवमाशङ्कयैव तदाशङ्कोन्मूलनप्रवणतदुभयविलक्षणत्वनिष्टङ्कनपरतयैव पद्यमवतारितम्, तथापि यन्न वस्तु निश्चयरूप तत्संशयरूपमिति नियमावलम्बिनः कस्यचिद् वस्त्वंशावगाहिनि नये वस्तुनिश्चयत्वाभावेन संशयरूपत्वं सम्भावनापथमधिरोहेत् , एवं वस्तुगत्या प्रत्येकमेककोटिकलेऽपि विभिन्नधर्मद्वयग्राहिणो नयद्वयस्यैकनयस्वरूपत्वभ्रान्तिमतः कस्यचित् तस्य समुच्चयत्वमपि प्रतीतिकोटिमापतेदित्यतो भ्रान्तिप्राप्तयोस्तयोर्व्यपोहनं नायुक्तम् , अवतरणे तु विचारकाणां प्रतिपत्तणां न नये उत्सर्गतः संशयत्व-समुच्चयत्वयोः शङ्का समुल्लसतीत्यभिसन्धानेन प्रमा-प्रमान्यतरस्वरूपत्वस्यैव तत्र प्रेक्षावद्भिः सम्भावयितुं तदन्यतरान्तर्भावशङ्काप्रतिविधानपरत्वमेव दर्शितमिति बोध्यम् । प्रकारस्यैक्यात् नये प्रकारतया भासमानस्यैकत्वात् , अत्र 'नयात्मको बोधः संशयो न भवति प्रकारस्यैक्या' इत्येवमनुमानप्रयोगो न सम्भवति, संश. यत्वाभावलक्षणसाध्यस्य नयरूपपक्षे सद्भावेऽपि 'प्रकारस्यैक्याद् इति हेतोस्तत्राभावात् , तस्य संशयविषयीभूतप्रकार एव भावात् , किन्तु 'नयात्मको बोधः संशयो न भवति, एकप्रकारतामाननिरूपकत्वादुमयसम्प्रतिपन्ननिश्चयवद् इति प्रकारतायनिरूपके संशयेऽप्येकप्रकारतानिरूपकत्वं समस्तीत्यत एकप्रकारतानिरूपकत्वादित्य नुक्त्वा 'एकप्रकारतामात्र निरूपकत्वाद' इत्युक्तम् , एकमात्रनिष्ठप्रकारतानिरूपकत्वमपि संशयं समस्त्येव, विधिकोटिनिष्ठप्रकारताया विधावेव निषेधकोटिनिष्ठप्रका

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210