Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
यत्र धूमत्वस्य व्याप्तिधर्मितावच्छेदकत्वमन्यत्र तु धूमप्रकारकत्वेनैवेति नातिप्रसङ्गः, तथा च प्रागुक्त. रीत्या व्याप्यत्वावच्छिन्न निवेशनमफल मिति वाच्यम् , व्याप्त्यंशे संशयाकारज्ञानादनुमितिवारणाय तत्तदंशे निश्चयनिवेशापेक्षया लाघवादुक्तरीत्या व्याप्यत्वावच्छिन्ननिवेशस्यवोचितत्वात, न चायमेकान्तोऽपि युक्तः, परस्परानिरूपितावान्तराषयवस्थानीयविषयताया अप्यनुभवात् , न च विशिष्टपर्याप्त प्रकारतकान्तपक्षोऽपि युक्तः, विशिष्टपोप्तप्रकारतान्तरस्यापि सिद्ध्यापत्तः, तत्सिद्धाविष्टापत्तिः, दण्डविशिष्ठपुरुष विशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ च दण्डांशे निश्चयात्मकदण्डविशिष्टपुरुषवद्भतलमिति निश्चयो हेतुः, धर्मितावच्छेदकत्वं तस्मिन् ज्ञाने पुनः । 'धूमप्रकारत्वेनैव' इति स्थाने 'धूमप्रकारतात्वेनैव' इति पाठो युक्तः, तस्य धूमप्रकारतारखेनैव धूमप्रकारतायां धूमत्वावच्छिन्नत्वं न तु व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेनेत्यर्थः । नातिप्रसङ्ग इति- 'एकत्र द्वयम्' इति रीत्या धूमे व्याप्ति-घूमत्वोभयावगाहिपरामर्शस्य व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यत्वाभिन्नधूमत्वावच्छिन्नप्रकारताकनिश्चयत्वलक्षणानुमितिकारणतावच्छेदकधर्मानाकान्तस्वान ततोऽनुमित्यापत्तिरित्यर्थः । तथा च अनुमित्यापत्तिवारणाय व्याप्तिनिष्ठप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारतामिवेशस्यावश्यकत्वे च । प्रागुक्तरीत्या हेतुतावच्छेदकावच्छिन्नहेतुनिष्टावच्छेदकतानिरूपितेत्यादिप्रकारेण । व्याप्यत्वावच्छिन्ननिवेशनं व्याप्तिनिष्ठावच्छेदकतानिरूपितेति निवेशनम् । निषेधे हेतुमाह-व्याप्यंशे संशयाकार ज्ञानादिति- व्यायंशे संशयाकारस्यापि परामर्शस्थ व्याप्सिनिष्ठ. प्रकारतानिरूपितहेतुनिष्टविशेष्यताकत्वस्य भावेन निरुक्तकारणतावच्छेदकधर्माकान्तत्वेन ततोऽनुमित्यापत्तिः स्यादेवेति व्याप्तिनिष्ठप्रकारतानिरूपिता या व्यायभावनिष्टप्रकारत्वानिरूपिता विशेष्यता तदभिन्नहेतुतावच्छेदकावच्छिन्न प्रकारताकज्ञानं व्यायंशे निश्चयस्वरूपं कारणं वाच्यमिति गौरवं स्यात्, प्रागुक्तरीत्या व्याप्तिनिष्ठावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताक ज्ञानत्वेन परामर्शस्यानुमितिकारणत्वे तु तथाभूतपरामर्शस्य व्याप्तिविशिष्टवैशिष्ट्यावगाहिबुद्धिरूपस्य विशेषणतावच्छे. दकीभूतव्याप्तिप्रकारकनिश्चयजन्यत्वेन तत्पूर्व व्याप्तिनिश्चयस्यावश्य सद्भावेन तस्य व्याप्तिसंशयविरोधितया ततो जायमानज्ञाने व्यायंशे संशयरूपत्वाभावेन व्यायंशे निश्च यरूपत्वस्यानिवेशनीयत्वेन लाघवमित्यतो व्याप्यत्वावच्छिन्ननिवेशस्यैवोचितत्वादित्यर्थः । विशिष्टवैशिष्ट्यावगाहिज्ञानलक्षणपरामर्श तत्तदवच्छेदकतानिरूपितप्रकारत्वाख्यविशिष्टवैशिष्टचविषयतैव समस्तीत्येकान्तोऽपि न साधीयान् , तत्र परामर्श परस्परानिरूपितव्याप्तिस्वरूपसनिविष्टतत्तत्पदार्थनिष्टविषयताऽपि समस्त्येव यामुपादाय केवलतत्तत्पदार्थविषयक ज्ञानविषयविषयकत्वमपि परामर्शअनुभवपथमायातीत्याह-न चेति-'युक्तः' इत्यनेनान्वयः। अयं प्रागुक्तरीत्योपवर्णितस्वरूपः परामर्श: । एकान्तः तत्तदवच्छेदकतानिरूपितहेतुनिष्टप्रकारताशाल्येव । अयुक्तत्वे हेतुमाह-परस्परानिरूपितेति-निरूप्यनिरूपकमावलक्षणशृङ्खलानालिह्नितेत्यर्थः । अवान्तरेति-त्वधिकरणाद्यखिलघटितव्याप्तिस्वरूपघटकेत्यर्थः । अघयवस्थानीयेति-निरूप्यनिरूपकभावलक्षणशङ्खलाबद्ध विषयतासमष्टिस्वरूपनिष्पन्ना विशिष्ट वैशिष्टयविषयताऽवयविस्थानीया, तदन्तर्गतकैकविषयताऽक्यवस्थानीयेत्यर्थः । न साऽपलपितुं शक्याऽनुभूयमानत्वादित्याह-अनुभवादितियथा पत्र विशिष्टवैशिष्टयविषयतानुभूयते तथा प्रत्येकविषयताऽपोत्यावेदनाय 'अपि' इति । विशिष्टवैशिष्टयबोधे 'रक्तदण्डवान्' इत्यत्र रक्तत्वविशिष्टदण्डपर्याप्तव प्रकारता समस्तीत्येकान्तोऽपि न युक्तः, तत्र रफत्वे दण्डत्वे दण्डे च प्रत्येकमविशिष्टेऽपि प्रकारत्वानामनुभवात् , तत एव च तज्ज्ञानस्य रक्तवादिप्रकारकज्ञानैः समं समानप्रकारकत्वमप्यनुभववीथीमवतरतीत्याह-न चेति- अस्य 'युक्तः' इत्यनेनान्वयः। अयुक्तत्वे हेतुमाह-विशि ऐति- 'विशिष्टपर्याप्तप्रकारतान्तरस्यापि' इति स्थाने 'विशिष्टापर्याप्तप्रकारतान्तरस्यापि' इति पाठो युक्तः । तारशविषयत्वानामनुभूयमानत्वेन तदापादनमुक्तदिशा भवदिष्टापत्तिरूपतयैव परेणापि स्वीकारणानुभवमुखमवलोकयतेल्याहतत्सिद्धाविष्टापत्तिरिति-विशिष्ट वैशिष्ट्यवोधे परस्परा निरूपिताविषयताविशिष्टापर्याप्तप्रकारतान्तरसिद्धाविष्टापत्तिरित्यर्थः । एवं दिशा यद्यपि बस्यो विषयता: सन्त्येव विशिष्टवैशिष्टयबोधे, परं ताः सर्वा क्षयोपशमविशेषजन्यतावच्छेदकतयेवोपगमाहींः, भत्र परेषा कार्यकारणभावान्तराबलम्बनं गौरवप्रतिहत न युक्तमिल्यावेदयितुमाह-दण्डविशिष्टेति- दण्डिपुरुषवद्भूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्तप्रकारताकवुद्धौ ‘दण्डिपुरुषवभूतलम्' इति निश्चयो दण्डविशिष्टपुरुषवैशिष्टयावगाही दण्डांशे निश्चयात्मको हेतुः, तेन दण्डांशे संशयात्मकात् पुरुषांशे निश्चयात्मकाद् दण्डविशिटपुरुषवैशिष्ट्यावगाहि 'दण्डदण्डाभाववरपुरुषवान्' इति ज्ञानान्न दण्डविशिष्टपुरुषविशिष्टभूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलवैशिष्टयावगाहिज्ञानं ततो भवश्व दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या दण्डवत्पुरुषवद्धतलवानिति ज्ञानमिष्टमेवेति तदापादनं नानिष्टावहमित्याह..
तसिद्धाविष्टापत्तिारात
विशिष्टवैशिष्टयबोधे, परं ताः सवा याति - दण्डिपुरुषवद्भूतलवा

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210