Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 132
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। पर्याप्त्याधी(धा)रताकावच्छेदकताप्रकारताश्रयणेऽतिगौरवात् , 'गुणवान् दण्डवान्' इत्यतो वैलक्षण्यसम्पादनाय रक्तविशिष्टदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारतानुधाक्ने रक्तत्वेन दण्डे पीतावगाहिनि तादृशबोधेऽगतेश्व, तस्माद् रक्तत्वत्वावच्छिन्नावच्छेदकतानिरूपकदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव 'रक्तदण्डवान्' इति विशिष्टवैशिष्ट्य बुद्धित्वमाश्रयणीयम् , अनुमितिहेतुपरामर्शेऽपि हेतुतावच्छेदकावच्छिन्नस्थाने 'रक्तदण्डवान्' इत्यस्यावलक्षण्याद्' इति पाठः सम्यग, रक्तत्व-दण्डत्योभयावच्छिन्नप्रकारता यथा रक्तदण्ड निष्ठप्रकारता तथा रक्तदण्डव्यनिष्टप्रकारताऽपि तस्यां द्रव्यत्वस्याधिकस्यावच्छेदकत्वेऽपि रतत्व-दण्डत्वोभयस्यावच्छदकत्वानपायात् , एवं च रस्तत्व-दण्डत्वोभयावच्छिन्न प्रकारताकबुद्धिवलक्षणं रक्तदण्डवैशिष्टयावसाहिबुद्धित्व 'रक्तदण्डवान्' इति बुद्धाविव 'रक्तदण्डद्रव्यवान्' इति बुद्धावपीति तयो लक्षण्यं न स्यादिति तादृशप्रकारतयैव विशिष्टवैशिष्टयधीविषयत्वस्योररीकारेऽपि रक्तदण्डस्यैवेत्यवधारणं न घटते रक्तदण्डद्रव्यस्याप्युक्तप्रकारत्वसद्भावादित्यर्थः । ननु रत्तत्व दण्डत्वनिष्टद्वित्वावच्छिन्न पर्याप्ताधारताका. वच्छेदकतानिरूपितप्रकारतयैव रक्तदण्डस्यैव निरूकविशिष्ट वैशिष्टयधीविषयतेत्येवमवधारणं सम्भवति, यतो 'रक्तदण्डद्व्यवान्' इति ज्ञानीयप्रकारतानिरूपितावच्छेदकतापर्याप्तिसम्बन्धेन रक्तत्व-दण्डत्व-द्रव्यत्वेषु त्रिषु वर्तत इति पर्याप्तिसम्बन्धावच्छिन्नतादृशावच्छेदकतानिष्ठनिरूपकतानिरूपिताधारता रक्तत्व-दण्डत्व-द्रव्यत्वैतद्गतत्रित्वावच्छिन्ना न तु रक्तत्व-दण्डत्वनिष्ठद्वित्वावच्छिन्ना, तादृशद्वित्वावच्छिन्नाधारता तु रक्तदण्डवानिति ज्ञानीयप्रकारतानिरूपितावच्छेदकत्वनिष्टपर्याप्तिसम्बन्धनिरूपकतानिरूपितै. वेति भवति 'रक्तदण्डद्रव्यवान्' इत्यतो 'रक्तदण्डवान्' इत्यस्य वैलक्षण्यम् , ताशप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्टयधी. विषयतेत्यवधारणं च सुसङ्गमित्यत आह- रक्तत्व-दण्डत्वनिष्ठेति- रक्तत्व दण्डत्वगतं यद् द्वित्वं तदवच्छिन्नानुयोगितानिरूपिका या पर्याप्तिस्तत्सम्बन्धावन्छिम्ननिरूपकतानिरूपिताधारताका साऽवच्छेदकता तनिरूपित्तप्रकारताकबुद्धित्वं रक्तदण्डवैशिष्टयबुद्धित्वमित्येवमभ्युपगमेऽतिगौरवादित्यर्थः, किञ्च गुणवदण्डवानितिधुद्धितो रक्तदण्डवानितिबुद्धेवलक्षण्यं न रक्तत्वदण्डत्वोभयावच्छिन्नप्रकारताकबुद्धित्वेन सम्भवति गुणवद्दण्डवानिति बुद्धरपि गुणत्वेन गुणमानस्य दण्डविशेषणत्वे रक्तरूपस्यापि गुणत्वेन दण्डविशेषणतया रक्तत्वदण्डत्वोमयावच्छिन्न प्रकारताकबुद्धित्वादतस्ततो लक्षण्याय रूपत्वावान्तरसामान्यरूपं यद्रसत्वं तद्विशिष्ट या तरूपं यच्च दण्डवं तदुभयपर्याप्तावच्छेदकताकप्रकारताकबुद्धित्वमेव रक्तदण्डवैशिष्टयबुद्धित्वं वाच्यम् , 'गुणवहव्यवान्' इति चुद्धिप्रकारतायां च गुणत्वेनैव रक्तरूपस्यावच्छेदकत्वं न तु रक्तत्वविशिष्टस्य तत्त्वमिति भवति तद्वारणम्, किन्तु तत्वेन पोतस्य दण्डेऽवगाहकं यद् रक्तदण्डवान्' इति ज्ञानं तदपि रक्तदण्डवैशिष्टयानगाहित्वेन सम्मतम् , तस्य सङ्ग्रहो न भवेत् , तज्ज्ञानीय प्रकारताया रक्तत्वविशिष्टं यद् रक्तरूपं तद्-दण्डत्वोभयपर्याप्तावच्छेदकताकत्वाभाव दित्याह- 'गुणवान् दण्डवान्' इत्यत इति-एतस्य स्थाने 'गुणवद्दण्डवानित्यतः' इति पाठो युक्तः । रक्तत्वविशिष्ट इत्यत्र रक्तत्वपदेन रूपत्वावान्तरसामान्यरूपं रक्तस्त्र प्रह्यम् । स्वसम्मतं विशिष्टवैशिष्टयबुद्धित्वस्वरूपमुपसंहरति-- तस्मादिति- 'रक्तदण्डद्रव्यवान्' इत्यत्र रक्तं यद् दण्डात्मकं द्रव्यं तद्वानित्येवं स्वरूपपर्यवसाने रकत्वत्वावच्छिन्नावच्छेदकता. निरूपकं द्रव्यत्वावच्छिन्नप्रकारत्वमेव न दण्डत्वावच्छिन्न प्रकारत्वमिति तद्वयवच्छेदः, 'गुणत्ववद्व्यवान्' इत्यत्र दण्डत्वावच्छिन्नप्रकारतानिरूपितावच्छेदकता गुणत्वावच्छिन्ना न रक्तत्वत्वावच्छिन्नेति तद्वयवच्छेदः, रक्तत्वत्वपदेनान रूपत्वावान्तरसामान्य रक्त. त्वमेव विवक्षितम् , रक्तत्वेन दण्डे पीतावगाहिबोधीयप्रकारतानिरूपिता पीतनिष्ठावच्छेदकताऽपि रक्तत्वत्वावच्छिन्ना भवत्येवेति तत्सङ्ग्रहश्चेति । अनुमिति प्रति परामर्शस्य यद् विशिष्टवैशिष्ट्यावगाहित्येन कारणत्वं तत्रापि कारणतावच्छेदक विशिष्टवैशिष्ट्यबुद्धित्वमित्यमेव निर्वक्तव्यमित्याह- अनुमितिहेतपरामर्शऽपीति । हेततावच्छेदकावच्छिन्नेति- 'हेतुसमानाधिकरणात्यन्यताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसमानाधिकरणहेतुमान् पक्षः' इत्याकारक: परामर्शोऽनुमितिकारणम् , निरुक्तपरसमशीयपक्षनिष्टविशेष्यतानिरूपितहेतुनिष्टप्रकारतायाः साक्षादवच्छेदको हेतुतावच्छेदकता. घटकसम्बन्धेन हेतुतावच्छेदक: स्वरूपसम्बन्धेन वृत्तित्वं च, यद् यत्र विशेषण तत् तनिष्ठावच्छेदकताया अवच्छेदकम् , असाधा. रणधर्मस्यावच्छेदकत्वेऽपि तत्तद्धर्मावच्छिन्नत्वेनैव तत्तद्धर्मिनिष्ठावच्छेदकता निविशते विशेषणान्तरनिष्ठावच्छेदकतानिरूपित. त्वेनावगतिसौलभ्याय, एवं च वृत्तित्वेऽधिकरणं तत्र साध्य तत्र साध्यतावच्छेदकं तत्राभावस्तत्र प्रतियोगितयाऽवच्छेदकत्वं तत्र प्रतियोगिता तनाभावस्तत्र वृत्तित्वं तत्राधिकरणं तत्र हेतुस्तत्र हेतुतावच्छेदकमसाधारणधर्मतया विशेषणम् , तदवलम्बनेन 'हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपित' इत्यादि निवेशः, हेत्वधिकरणस्य साध्याधिकरणस्य चाधिकरणत्वने प्रवेशो नाभिलषित इत्यधिकरणत्वावच्छिन्नत्वन नाधिकरणनिष्ठावच्छदकतानिवेश आहतः, अधिकरणत्वेन तत्प्रवेशस्या.

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210