Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयपदेशः ।
मानत्वात्, विशिष्टबुद्धिष्वपि हि सामान्यत एकाविशेषितस्यापरस्य निरूपितत्वेन बहुतरापि विषयता अनुभूयन्त इति चतुर्दैवेति को विभागः, अत एवैकत्र द्वयस्थलेऽप्येकत्र भासनयोर्विशेषणयोः परस्परएकविशेषितोऽपरो विषय इति तन्निष्टविषयता तत्सम्बन्धित्वेन तन्निरूपिता समस्ति सा च तत्तद्विशेषणनिष्ठप्रकार तानिरूपितविशेष्यतारूपा, तामुपादाय च प्रकारचतुष्टयोपवर्णनं कृतं तथा स्वतन्त्रतया विशेषणस्वरूपं विशेष्यस्वरूपं च विषयः, कथमन्यथा दण्डविशिष्टपुरुषज्ञानस्य विशेष्यांशमुपादाय पुरुषमात्रविषयक पुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्र विषयक पुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्रविषयकदण्डज्ञानविषय विषयकत्वमनुभूयमानमुपपद्येत, दण्डविशिष्टपुरुषज्ञाने दण्डविशिष्टपुरुषनिष्टविषयताकत्वमेव समस्ति पुरुषमात्रज्ञाने च दण्डाविशेषितपुरुषनिष्ठविषयताकत्वमेव समस्ति, एवं दण्ड विशिष्टपुरुषज्ञाने पुरुषविशेषणीभवद्दण्डनिष्ठ विषयताकत्वमेव समस्ति, दण्डमात्रज्ञाने व पुरुषाविशेषणी भूतदण्ड निष्टविषयताकत्वमेव समस्तीति 'दण्डी पुरुषः' इति ज्ञाने विशेष्यांशमुपादाय या केवलपुरुषज्ञानेन सहैकविषयविषयकत्वं विशेषणांशमुपादाय या केवलदण्डज्ञानेन सहैकविषयविषयकत्वं तदनुरोधेनैकाविशेषितापर निरूपितविषयता विशेषण- विशेष्य-संसर्गादिविभिन्नविषयस्वरूपगतत्वेन बहुतरा स्वीकरणीया, एवं विशिष्टे यदपरवैशिष्टयबुद्धिस्तस्या विशिष्टस्वरूपनिविष्टविशेष्यांशमुपादाय तत्रापरवैशिष्टचबुद्धिरूपताऽपि, तत एव च तस्याः केवले विशेष्यस्वरूपे याऽपरवैशिष्ट्यबुद्धिस्तया सहेकविषयविषयकत्वमिति तत्तद्विषयतानामुपादानेनापि परिगणित प्रकार व्यतिरिक्तप्रकाराणां सम्भवाच्चतुधैव विभाग इति नैयायिकपरिकल्पनं न युक्तमिति । अत एव बहुतराणां विषयत्वानामनुभवानुरोधात् स्वीकरणीयत्वादेव | एकत्रेति- यदि च एकाविशेषितस्यापरस्य' इति स्थाने 'एकविशेषितस्यापरस्य' इति पाठोऽनुभवपथमवतरति तदा विशिष्टस्य वैशिष्टयबुद्धौ यथा विशेषणतावच्छेदकधर्मनिष्ठावच्छेदकतानिरूपितस्वासाधारणधर्मनिष्ठाचच्छेदकता निरूपित विशेष्यो भूत निष्टप्रकारताख्या विषयता, यथा वा विशेषणतावच्छेदकधर्मनिष्टप्रकारतानिरूपित स्वासाधारणधर्मनिष्टावच्छेदकता निरूपित विशेष्यत्वाभिन्नतादृश धर्मद्वयनिष्ठावच्छेदकता निरूपित विशेष्यी भूत निष्ठप्रकारत्वा ख्यविषयता, विशेषण- विशेष्योभयस्वरूपमेव विशेषण - विशेष्यभावमापन्नं विशिष्टं न त्वतिरिक्तमित्यभिप्रायाश्रयणेनाभिमता, तथा विशेषण - विशेष्यभावेन निष्पन्नं विशिष्ट स्वरूपं कथचिद्विशेषणविशेष्य स्वरूपाभ्यां भिन्नमेवेत्यभिप्रायाश्रयणेन कर्याञ्चद्वयतिरिक्तस्वरूपस्य विशिष्टस्य प्रकारत्वाख्यविषयत्वमप्यतिरिक्तं तदवच्छेदकताऽपि विशिष्टासाधारणधर्मस्वरूपातिरिक्तधर्मगताऽतिरिक्ता, तन्निरूपितसंसर्गताऽपि तदवच्छेदकसम्बन्धगता विलक्षणैवेति तत्तद्विषयनिष्टविषयतानिरूपित विषयताक बोधोऽपि विशिष्टवैशिष्टयबोधप्रकारकः सम्भवति, एवं तथाभूतानां विषयत्वानां मध्ये एकस्य निरूपितत्वमपरस्य निरूपकत्वमिति समाश्रयणेन यः प्रकारस्ततो विलक्षणप्रकारो भवत्येवैकस्य निरूपकत्वमपरस्य निरूपितत्वमित्याश्रयणेन प्रकार:, तथा यद्धर्मविशिष्टस्य यत्र प्रकारत्वं तत्र तद्धर्मस्यापि प्रकारत्वमित्यभिप्रायाश्रयणेन तद्धर्मनिष्ठपरम्परासम्बन्धावच्छिन्न प्रकारतानिरूपितविशेष्यताकबोधलक्षणोऽप्यपरः प्रकार इत्येवं सूक्ष्मेक्षिकया बहूनां विशिष्टवैशिष्टय बुद्धिप्रकाराणां सम्भवे चतुधैवेति विभागो न युक्त इत्याशयः । 'एकत्रद्वयस्थलेऽपि' इत्यपिना यथा 'विशिष्टबुद्धिषु' इत्यनेनाभिमतस्य विशिष्टवैशिष्टयबुद्धिषु दर्शितदिशा विषयताऽभेदस्तथैत्यस्यार्थस्याब्रेडनम् 'चैत्रो दण्डी कुण्डली' इत्येवम् 'एकत्र द्वयम्' इति ज्ञाने दण्डत्वावच्छिन्न प्रकारतानिरूपिता सती कुण्डलत्वावच्छिन्न प्रकारतानिरूपिता या चैत्रत्वावच्छिन्न विशेष्यता तन्निरूपक बोधत्वमित्येक विशेष्यतायाः प्रकारताद्वयनिरूपित्वेन तत्र विशेष्यितायाः प्रकारिताद्वयावच्छिन्नत्वमित्येवमन्यप्रकाराद् यथा चैलक्षण्यं तथैकत्र चैत्रे भास मानयोर्दण्ड कुण्डयोरपि परस्परं सामानाधिकरण्यसम्बन्धेनवैशिष्ट्य मानमिति । सामानाधिकरण्यसम्बन्धावच्छिन्नदण्डनिष्ठप्रकारतानिरूपित कुण्डलनिष्टविशेष्यताकत्वं सामानाधिकरण्यसम्बन्धावच्छिन्नकुण्डलनिष्ठ प्रकारतानिरूपितदण्डनिष्टविशेष्यताकत्वमपीति, तथा न्य सामानाधिकरण्यसम्बन्धावच्छिन्ना या दण्डनिष्ठ प्रकारता या च संयोगसम्बन्धावच्छिन्नदण्ड निष्ठप्रकारता तयोरवच्छेद्यावच्छेदकभावः, एवं सामानाधिकरण्यसम्बन्धावच्छिन्ना या कुण्डलनिष्ठप्रकारता या च संयोगसम्बन्धावच्छिन्नकुण्डलनिष्टप्रकारता तयोरवच्छेद्यावच्छेदकभाव:, एवमवच्छेद्यावच्छेदकभावापन्न प्रकारत्वानां स्वसमानाधिकरणविशेष्यतयाबच्छेद्यावच्छेदकभावः, तथा प्रकारत्वाख्य विशेष्यत्वाख्यविषयता वैलक्षण्ये तन्निरूपितप्रकारित्व विशेष्यित्वयोरपि वैलक्षण्यम्, तादृशविशेष्यित्वस्यापि प्रकारितयाऽवच्छेद्यावच्छेदकभाव इति, तथा च विषयता भेदप्रयुक्तमेकन द्वयमिति ज्ञानस्थापि प्रकारान्तरं सम्भवतीत्यतोऽपि चतुर्वैवेति विभागोऽनुपपन्न इत्याशयः । ननु 'एकत्र द्वयम्' इत्यत्रैकविशेष्यता निरूपितयोः प्रकारतयोर्विशेष्यताद्वारा यत् परम्परया निरूपितत्वलक्षणो निरूपितत्व विशेषः समूहालम्बनज्ञानीय प्रकारत्वयोर्नास्तीत्येतावतैव समूहालम्बनादितो बैलक्षण्यस्य सम्भवेनापरधर्म निष्टसामानाधिकरण्यसम्बन्धावच्छिन्नप्रकारता निरूपित विशेष्यत्वाभेदमपरधर्मनिष्ठविशेष्यतानिरूपितप्रकारत्वाभेदं चाभ्युपगम्यान्यज्ञानीयप्रकारतातो भेदो नाभ्युपेय इति न तत्र भासमानयोर्विशेषणयोः
१०४

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210