Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१०२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
-
व्यभिचारवारणाय तादृशविशेष्यतायां रक्तप्रकारतादिनिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नत्वं निवेशनीयम् ।
_ 'एकत्र द्वयम्' इति विषयिता च प्रकारिताद्वयावच्छिन्नविशेष्यतारूपा, यथा-चैत्रो दण्डी कुण्डलीत्यत्र, न चैवमेकत्र त्रयादिकमप्यतिरिच्येत 'एकत्र द्वयम्' इति सज्ञयैव सङ्ग्रहात्, एवं च 'दण्डी चैत्रो न कुण्डली' इति ज्ञानप्रतिबध्यतावच्छेदिका दण्डप्रकारित्वकुण्डलप्रकारित्वनिरूपितचैत्रत्वावच्छिन्नविशेष्यताकनिश्चयत्वस्या 'चैत्रो दण्डी कुण्डली, दण्डी चैत्रः कुण्डली' इत्युभयत्र सत्त्वात्, उद्देश्यतावच्छेदकत्व-विधेयत्वयोः प्रकारताविशेषत्वात् , ताशबाघधीप्रतिबध्यतावच्छेदकत्वादेव चास्याश्चैत्रत्वेन रक्तत्व-दण्डत्वोभयावच्छिन्नविशेष्यता तन्निरूपकबुद्धिस्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताशालिनिर्णयत्वेन कारणत्वम्, 'दण्डो रक्तः प्रमेयः' इति ज्ञाने च प्रमेयत्वनिष्टप्रकारतानिरूपितरक्तत्व-दण्डत्योभयावच्छिन्नविशेष्यता दण्डत्वनिष्ठप्रकारतानिरूपितरतत्वावच्छिन्नविशेष्यत्वाभिन्ना, न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वाभिन्नति 'दण्डो रक्तः प्रमेयः' इति ज्ञानस्य दण्डविशेष्यकरक्तत्वप्रकारकनिर्णयजन्यतावच्छेदकनिरुक्तधर्मानाकान्तत्वान्न तत्र व्यभिचार इत्याशयः।
विशिष्टवैशिष्ट्यबुद्धेस्तुरीयं प्रकारम् 'एकत्र द्वयम्' इति रीत्या ज्ञान प्ररूपयति- 'एकत्र द्वयम्' इतीति । 'विशेप्यतारूपा' इति स्थाने 'विशेष्यितारूपा' इति पाठो युक्तः, यथा च अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वानां मतभेदेनाभेदोऽवच्छेद्यावच्छेदकभावश्च, तथैकज्ञाननिविषयित्वानामपि, तत्र विशिष्टबुद्धौ विशेष्यतया भासमानस्य प्राधान्य तदाश्रयणेन विशेषणानां प्रवृत्तरिति तद्दतत्वाद् विशेष्यतायाः प्राधान्यम्, तत एव च तन्निरूपितविशेष्यिताया अपि प्राधान्यम् , विशेषणस्याप्राधान्य तद्गतत्वात् प्रकारताया अप्राधान्ये तन्निरूपितप्रकारिताया अप्यप्राधान्यम्, प्रधानाप्रधानयोश्चाप्रधानमवच्छेदकं भवतीति 'एकत्र द्वयम्' इति ज्ञाने प्रकारताद्वयनिरूपितका विशेष्यतेति प्रकारिताद्वयावच्छिन्नविशेष्यितात्मकविषयितावग्ज्ञानत्वम् ‘एकत्र द्वयम्' इति ज्ञानत्वमित्यर्थः । उदाहरति- यथेति- 'चैत्रो दण्डो कुण्डली' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड-कुण्डलयोश्च प्रकारत्वमिति दण्ड निरूपितप्रकारित्वकुण्डलनिरूपितप्रकारित्वद्वयावच्छिन्नचैत्रनिरूपितविशेष्यितावज्ज्ञानत्वं तत्र समस्तीति लक्षणसमन्वयः । ननु यथा 'एकत्र द्वयम्' इति रीत्या ज्ञानं तथा 'एकत्र त्रयम्' इति ‘एकत्र चतुष्टयम्' इत्यादिरीत्याऽपि ज्ञानमित्येवं बहवः प्रकारा 'विशिष्टवैशिष्ट्यबुद्धः स्युरिति तेषामनुपवर्णनानन्यूनत्वमित्याशङ्कय प्रतिक्षिपतिन चेति । 'त्रयादिकम्' इत्यत्रादिपराचतुष्टयादेरुपग्रहः । प्रकारिकाद्वयेति प्रकारितात्रयादीनामप्युपलक्षणमिति नानाप्रकारित्वावच्छिन्नविशेष्यितावज्ज्ञानत्वमेवैषामनुगमकलक्षणमिति “एकत्र त्रयम्' इत्यादिप्रकाराणामनेनैव सङ्ग्रहान्न न्यूनत्वमिति प्रतिक्षेपहेतुमुपदर्शयति- 'एकत्र द्वयम्' इति सम्झयव सहादिति- एकत्र द्वयमेकत्र त्रयमित्याद्यशेषज्ञानानामेकत्र द्वयमिति संज्ञा, तया निरुक्कसर्वज्ञानानां सङ्ग्रहादित्यर्थः । 'एवं च' इति स्थाने 'इय च' इति पाठो युक्तः,प्रकारिताद्वयावच्छिन्नविशेष्यितारूपविषयिता चेति तदर्थः, 'दण्डी चैत्रो न कुण्डली' इति निश्चयनिष्ठदण्डचैत्रत्वोभयावच्छिन्नविशेष्यतानिरूपितकुण्ड लाभावत्वावच्छिन्नप्रकारताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतानिरूपित प्रतिबध्यतावच्छेदिका दण्डनिष्ठप्रकारतानिरूपितप्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्न चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वात्मकविषयितेत्यर्थः । अस्या निरुतबाधप्रतिबध्यतावच्छेदकतयोररीकारे सति निरुक्तवाधप्रतिबध्यत्वं 'चैत्रो दण्डी कुण्डली' इति ज्ञाने 'दण्डी चैत्रः कुण्डली' इति ज्ञाने च सम्भवति, निरुतज्ञानद्वयेऽपि निरुक्तप्रकारिताद्यावच्छिन्नचैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वस्य सत्त्वादिल्याह-दण्डप्रकारित्वेति । 'कुण्डलप्रकारित्वनिरूपित' इत्यन्न निरूपितत्वमवच्छिन्नत्वरूपम् । 'चैत्रत्वा. वच्छिन्नविशेष्यताकनिश्चयत्वस्या' इत्यस्य स्थाने 'चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेध्यितावन्निश्चयत्वस्य' इति पाठो युक्तः । ननु 'चैत्रो दण्डी कुण्डली च' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड-कुण्डलयोश्च प्रकारत्वमिति निरुक्कप्रकारितादूयावच्छिन्नविशेध्यिता तत्र सम्भवति, 'दण्डी चैत्रः कुण्डली' इति ज्ञाने तु दण्ड-चैत्रत्वोभयावच्छिन्नस्य विशेष्यत्वं केवल कुण्डलस्यैव प्रकारत्वमिति कथं तत्र निरुक्तप्रकारिताद्वयावच्छिन्नविशेष्यितेत्यत आह- उद्देश्यतावच्छेदकत्वति-'दण्डी चैत्रः कुण्डली' इत्यत्र दण्डविशिष्टचैत्रस्योद्देश्यत्वे उद्देश्यतावच्छेदकता या दण्डनिष्टा सा प्रकारताविशेषरूपा, कुण्डलस्य तत्र विधेयत्वमिति कुण्डलनिष्ठविधेयताऽपि प्रकारताविशेषरूयेति तादृशप्रकारताद्वयनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावनिश्चयत्वं वत्र समस्तीति 'दण्डी चैनो न कुण्डली' इति बाधनिश्चयप्रतिवध्यत्वम्, 'चैत्रो दण्डी कुण्डली' इत्यत्र तु दण्ड-कुण्डलयो

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210