Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 127
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १०१ च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेनैव, तेन ‘एको द्वयम्' इति रीत्या 'दण्डो रक्कोऽयं मेयश्च' इति झाने न व्यभिचारः, तत्र दण्डत्वविशिष्टविशेष्यताया रक्तवानवच्छिन्नत्वेन रकत्वं धर्मितावच्छेदकीकृत्य प्रमेयस्वादिबाधकालेऽपि तथाविधज्ञानापत्तिरिति तादृशविशेष्यताया रक्तवावच्छिन्नत्वमावश्यकमिति वाच्यम् , एकस्या अपि प्रमेयत्वादिप्रकारतानिरूपित्तदण्डत्वावच्छिन्नविशेष्यताभिन्नाया एव रक्तत्वावच्छिन्नविशेष्यताया अभ्युपगमात् , एकस्या विशेष्यताया रक्तदण्डत्वोभयानवच्छिन्नत्वेनाव्यभिचारात् तत्रापि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये 'दण्डो रक्तः प्रमेयः' इत्येतादृशबोधे विशेष्यकप्रमेयत्वादिप्रकारकज्ञानमात्रमेव 'रक्तो दण्डः' इति निर्णयात्मक ज्ञाने सत्येव भवतीति तस्मिज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताशालिनिर्णयत्वं समस्तीति तद्रपेण तस्य कारणत्वं निर्वहति, यदि तादृशकारणतानिरूपितकार्यता रक्तत्व विशिष्टदण्डवावच्छिन्नविशेष्यतानिरूपितप्रमेयत्वनिष्ट प्रकारताशालिज्ञानत्वेन, तदा 'रक्तदण्डो वाच्यः' इत्यादिज्ञानानां निरुक्तकार्यतावच्छेदकधर्मानाकान्तत्वान्न तानि प्रति 'रक्तो दण्डः' इति निर्णयस्य कारणत्वं स्यात् , यदि च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यतानिरूपितवाच्यत्वनिष्टप्रकारताशालिज्ञानत्वादिनाऽपि कार्यत्वं तदा कार्यतावच्छेदकभेदेनानन्तकार्यकारणभावप्रसङ्ग इति प्रकारताविशेषानन्तर वेणैव कार्यतावच्छेदकधर्ममुपदर्शयति- कार्यता चेति । एवकारेण रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेन कार्यत्वस्य व्यवच्छेदः । तद्वयवच्छेदप्रयोजनमुपदर्शयति-तेनेति- अस्य 'न व्यभिचारः' इत्यनेनान्वयः । 'एको द्वयम्' इति रीत्येति- 'दण्डो रक्तोऽयं मेयश्च' इति दण्डे रक्तत्वं मेयत्वं च प्रकार इति एको दण्डो रक्तप्रमेयोभयरूप इति ‘दण्डो रक्तोऽयं मेयश्च' इति ज्ञानं भवति 'एको दूयम्' इति रीत्येति, यद्येवकारेणोक्तव्यवच्छेदो न क्रियते तदा 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञानमपि रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वलक्षणकार्यतावच्छेदकाकान्तमिति तद् दण्डो रकः' इति निर्णयं विनाऽपि भवतीति व्यतिरेकव्यभिचारः स्यात्, रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताया एव कार्यतावच्छेदककोटौ प्रवेशे चोक्तज्ञानस्य निरुक्तका र्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचारः इत्यर्थः । निरुक्तज्ञानस्योक्तकार्यतावच्छेदकधर्मानाकान्तत्वावयोधनायाह-तत्रेति- 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञाने इत्यर्थः । 'रक्तस्वानवच्छिन्नत्वेन रक्तत्वम्' इति स्थाने 'रक्तत्वानवच्छिन्नत्वात् , न च रक्तत्वम्' इति पाठो युक्त: 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञाने दण्डवविशिष्टविशेष्यताया रक्तत्वावच्छिन्नत्वाभाव तज्ज्ञानं प्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्वावछिन्नविशेष्यताकत्वाभावाद् 'रक्तो न प्रमेयः' इत्याकारकस्य रक्तत्वावच्छिन्नविशेष्यतानिरूपित प्रमेयत्वाभावनिष्टप्रकारताकबाधनिर्णयस्य प्रतिवध्यत्वाभावात् तत्कालेऽप्यापद्ये तेत्यतस्तज्ज्ञाने दण्डत्वविशिष्टविशेष्यतायां रक्तत्वावच्छिन्नत्वं स्वीकरणीयमित्याशङ्कय प्रतिक्षिपति-ने चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः, । तथाविधज्ञानापत्तिः 'दण्डो रत्तोऽयं प्रमेयश्च' इति ज्ञानापत्तिः । तादृशविशेष्यतायाः प्रमेयत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतायाः । निषेधे हेतुमाह- एकस्या अपीति- एतत्स्थाने 'एतस्या अपि इति पाठो युक्तः, प्रमेयत्वनिष्ठप्रकारतानिरूपिताया अपीत्यर्थः । 'दण्डो रक्तोऽयं प्रमेयश्च' इति ज्ञाने एका मेयत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यता, द्वितीया मेयत्वनिष्ठप्रकारतानिरूपितर तत्वावच्छिन्नविशेष्यता, तथा चोक्तज्ञानस्य 'रकोऽयं न प्रमेयः' इति बाधनिश्चयनिष्टप्रमेयत्वाभावनिष्टप्रकारतानिरूपितरकत्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रति. बन्धकतानिरूपित प्रमेयत्वनिष्टप्रकारतानिरूपितरक्तत्वावच्छिन्न विशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यताशालित्वान्नोतबाघदशायामापत्तिरित्यर्थः, एवं च 'दण्डो रक्तोऽयं प्रमेयः' इति ज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताकनिर्णयत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकस्य रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताकबुद्धित्वस्याभावेन तस्य 'दण्डो रक्तः' इति निर्णयं विनाऽभावेऽपि न व्यभिचार इत्याह- एकस्या इति । ननु दण्डत्वविशिष्टरक्तत्वावच्छिन्नविशेष्यका प्रमेयत्वप्रकारकं यद् 'दण्डो रक्तो प्रमेयः' इति ज्ञानं तदपि रक्तत्व-दण्डत्वोभयावच्छिन्न विशेष्यताशालिज्ञामत्वरूपकार्यतावच्छेदकधर्माकान्तं भवति, जायते च तत् दण्डत्वनिष्टप्रकारतानिरूपितरक्तस्वावच्छिन्नविशेष्यताशालिनिर्णयाद् 'दण्डरकः' इत्याकारकात्, न तु दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताकनिर्णयाद् 'रक्तो दण्डः' इत्याकारकादिति तत्र व्यभिचार इत्यत आह-तत्रापीति- निरुक्तकार्यकारणभावेऽपीत्यर्थः । तादृशविशेष्यतायामितिरक्तत्व-दण्हत्वोभयावच्छिन्नविशेष्यतायामित्यर्थः । 'विशेष्यताभिन्नत्वम' इत्यत्र विशेष्यताऽभिन्नत्वमित्याकारप्रश्लेषः, रकप्रकारतेत्यस्य 'रक्तत्वनिष्ठप्रकारतेत्यर्थः, तथा च रक्तत्वनिष्टप्रकारतानिरूपित दण्डत्वावच्छिन्न विशेष्यत्वाभिन्ना या

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210