Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
...... ..५००० ०० ३४५४४
संशयाभावत्वेन हेतुत्वे गौरवात् , प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य प्रतियोगितावच्छेदकविशिष्टविषयकेऽभावस्य प्रत्यक्षे हेतुत्वं कल्प्यमानमभावांशाप्रवेशेन लाघवात् तादृशज्ञान एव युक्तमिति तद्बलेन निश्चयजन्यतावच्छेदकविशिष्ट वैशिष्ट्यविषयतासिद्धेश्च ।
"शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहेनाहितो हेतौ साध्यव्यापकत्वव्यभिचारसन्देह उपाधिः" इति दीधित्युक्तस्तु फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणात्, अन्यथा तु द्रव्यत्वादौ तस्य निश्चयात् तत्र तद्विशेषणे तु साध्यव्यापकत्वांशे विशेष्ये विशेषणम्' इति रीत्या प्रतियोगितावच्छेदको विशेषणतावच्छेदकधर्मविशेष एव तत्प्रकारकज्ञानं विशेषणतावच्छेदकप्रकारकज्ञान विशेषः, प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानं च विशिष्टवैशिष्ट्यावगाहिज्ञानविशेष इति, एतेन विशिष्टवैशिष्ट्यावगाहिज्ञानविधयैव प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाह्य भावज्ञानस्य कार्यत्वं विशेषणतावच्छेदकप्रकारकनिर्णयविधयैव च प्रतियोगितावच्छेदकज्ञानस्य कारणत्वं न तु स्वातन्त्र्येण तयोः कार्यकारणभाव इत्यपि लाघवं सुस्पष्टं प्रतीयते । 'हेतुत्वम्' इति पूर्वमुकस्य 'युक्तम्' इत्यनेनान्वयः। तद्वलेनेति-प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यज्ञाने प्रतियोगितावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तद्बलाजन्यतावच्छेदकतया विशिष्टवैशिष्ट्यविषयतासिद्धेरिति तदवच्छिन्ने विशेषणतावच्छेदकप्रकारकनिर्णयस्य सामान्यतः कारणवं युज्यत एवेति ।
ननु यदि विशिष्टवैशिष्ट्यावगाहिबुद्धि प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य सामान्यतः कारणत्वं तदा 'स श्यामो मित्रातनयत्वाद्, इत्यत्र शाकपाकजत्वमुपाधिः, तद्धि शामत्वलक्षणसाध्यस्य व्यापकं मित्रातनयत्वलक्षणसाधनस्याव्यापकमत: साध्यन्यायकत्वे सति साधनाव्यापकत्वलक्षणोपाधिस्तत्र विद्यते, व्यभिचारानुमान चोपाधः प्रयोजनम् , तद्यथा- मित्रातनयत्वं श्यामत्वव्यभिचारि श्यामत्वव्यापकशाकपाजत्वव्यभिचारित्वादिति, अत्र शाकपाजत्वे श्यामत्वव्यापकत्वनिश्चये तव्यभिचारलक्षणहेतुरपि मित्रातनयत्वलक्षणप्रकृतहतौ निश्चीयते, यदा तु शाकपाकजवे श्यामत्वव्यापकत्वसंदेहस्तदा तेन मित्रातनयत्वे श्यामत्वव्यापकव्यभिचारित्वसंदेहः, सोऽयं हेतुसंदेहः साध्यव्यभिचारित्वलक्षणसाध्यसंदेहस्य प्रयोजक इति, स च साध्यव्यभिचारसंदेहो ग्राह्यसंशयविधया व्याप्तिज्ञान प्रतिबन्धक इत्यभिप्रायेण शाकपाकजत्वादौ साध्यव्यापकत्व संदेहाहितो हेतौ साध्यव्यापकव्यभिचारसंदेह इत्येवमुपाधिग्रन्थे शिरोमणिभट्टाचार्येण यदुक्तं तत् कथं सङ्गच्छते? साध्यव्यापकब्यभिचारसंदेहस्य साध्यव्यापकत्वविशिष्टवैशिष्ट्यावगाहिबोधरूपत्वेन तं प्रति विशेषणतावच्छेदकीभूतसाध्यध्यापकत्वप्रकारकनिश्चयस्य कारणत्वेन साध्यव्यापकत्वसंदेहेनातथाभूतेन तदाधानासम्भवादित्यत आह-शाकपाकजत्वादाविति। "साध्यव्यापकत्वव्यभिचारसंदेह उपाधिः इति दीधित्युक्तस्त" इत्यस्य स्थाने “साध्यव्यापकव्यभिचारित्वसन्देहः" इत्युपाधिदीधित्युक्तस्तु" इति पाठो युक्तः, 'इत्युपाधिदीधित्युक्तस्तु' इत्यस्य 'एवंस्वरूप उपाधिनिरूपणात्मकोपाध्यभिख्यदीधितिग्रन्थैकदेशप्रकरणोक्तस्तु' इत्यर्थः, 'शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणाद्' इत्यस्य स्थाने 'शाकयाकजस्वविशिष्टे साध्यव्यापकत्वस्याविशेषणत्वाद' इति पाठो युक्तः, तथा च 'फलीभूतसन्देहे' इत्यादेरयमर्थः- शाकपाकजत्वादौ साध्यव्यापकत्वसंदेहस्य फलीभूतो यः संदेहो हेतौ साध्यव्यापकत्वसन्देहस्तत्र शाकपाकजत्वत्वेन रूपेण शाकपाकजत्वस्याविषयत्वेन तत्र साध्यव्यापकत्वस्याविशेषणत्वात्, एवं च साध्यव्यापकत्वविशिष्टस्य शाकपाकजत्वत्वावच्छिन्नस्य वैशिघ्यावगाहिज्ञानं हेतौ साध्यव्यापकव्यभिचारित्वसन्देहो न भवत्येवेति न तत्र शाकपाकजत्वविशेष्यकसाध्यव्यापकत्वप्रकारकनिर्णयस्य हेतुत्वमिति शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहतो हतौ साध्यध्यापकव्यभिचारित्वसन्देहेऽपि न व्यभिचार इति भावः । यदि तु यद्धर्मविशिष्टयद्धर्मावच्छिन्नवैशिष्टयावगाहिज्ञान एवं तद्धर्मप्रकारकतद्धर्मावच्छिन्नविशेष्यकनिर्णयः कारणं सामान्यतस्तु तद्धर्मविशिष्टवैशिष्ट्याचगाहिबाने तद्धर्मप्रकारकनिर्णयमात्र कारणमिति विभाव्यते तदा शाकपाकजवादी श्यामत्वव्यापकत्वसन्देहेऽपि द्रव्यत्वादौ श्यामत्वव्यापकत्वनिर्णयः समस्येव, एकस्यापि ज्ञानस्यैकत्र तत्संशयरूपस्यान्यत्र तनिश्चयरूपस्य समूहालम्बनस्य सम्भवादिति तत एवोक्तविशिष्टवैशिष्ट यावगाहिनिरुक्तसंशयसंभवन न तत्र व्यभिचार इत्याह- अन्यथा विति-प्रकारान्तरेण पुनः, सामान्यत इति यावत् । तस्य साध्यव्यापकत्वस्य । यदि तु 'हेतो साध्यव्यापकव्यभिचारित्वसन्दहः' इत्यस्य 'हेतौ साध्यव्यापकशाकपाकजत्वव्यभिचारित्वसन्देहः' इत्यर्थमुपादाय फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकत्वं विशेषणतया भासत इति विभाव्यते तदा व्यभिचारित्वे निरूपितत्वसम्बन्धन शाकपाकजत्वं तत्र साध्यव्यापकत्वमित्येव 'विशेष्ये विशेषण तंत्र च विशेषणान्तरम्' इत्येवंरीत्यैव निरुक्तसंशय इति तस्य विशिष्टवैशिष्टयावगाहित्वाभावादेव न तत्र व्यभिचार इत्याह-तत्र तद्विशेषणे स्विति- शाकपाकजत्वत्वविशिष्टे साध्य

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210