Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 124
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । गौरवात्, विशेषणतावच्छेदकप्रकारकनिश्चयस्य चानाहायस्यैव हेतुत्वस्वीकारादाहार्यतदुत्तरोत्पन्नज्ञाने व्यात्यंशे निर्णयत्वनिवेशानावश्यकत्वात् , ननु तथापि 'विशेष्ये विशेषणम्' इति ज्ञानसाधारण्येवातिरिक्तप्रकारिताऽस्तु तदवच्छिन्नेऽप्रामाण्यनिश्चयाभावकूटविशिष्टसंशयाभावस्य नियामकस्याप्रामाण्यज्ञानाभाव. कूटविशिष्टनिश्चयत्वावच्छिन्नतो लघुत्वात् , इयमेव योग्यताज्ञानादिनिष्ठहेतुतावच्छेदिका बाधादिप्रतिबन्धकतावच्छेदिका च, अत एवानन्वितान्वयबुद्धेबर्बाधादिप्रतिबद्ध्यत्वप्रतिबन्धकत्वे, अत एव (च) व्याप्तिप्रकारनिश्चयोत्तरमपि व्याप्त्यभावांशे आहार्यसंशयात्मकतथाविधज्ञानादनुमित्यनापत्तिः, कार्यसहभावेन तथाविधसंशयस्य प्रतिबन्धकत्वादिति चेत् ? न-अप्रामाण्यनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्त. भ्युपगमेऽपीत्यर्थः । आहार्यतदुत्तरोत्पन्नज्ञान इति- आहार्य यद् विशेषणतावच्छेदकीभूतव्यातिप्रकारकनिर्णयात्मकं तदव्यवहितोत्तरोत्पन्नज्ञाने इत्यर्थः, तच्च ज्ञान मनाहार्यव्याप्तिप्रकारकनिर्णयाभावाद् व्याप्तिविशिष्टवैशिष्टचावगाहिपरामर्शात्मकं न भवत्येवेति तदानीं परामर्शाभावादेव नानुमितिरिति तत्र व्यायंशे निर्णयत्वस्यानावश्यकत्वादित्यर्थः । ननु यदि विशेषणतावच्छे. दकप्रकारकसंशयतो विशिष्टवैशिष्ट्यावगाहिबोधो न भवतीति संशयसाधारणरूपेण न कारणत्वं तर्हि 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानसाधारणी याऽतिरिक्तप्रकारिता तामुपगम्य तदवच्छिन्नं प्रति तत एव विशेषणतावच्छेदकप्रकारकसंशयकाले न तादृश. प्रकारित्वावच्छिन्नोत्पत्त्यापत्तिसम्भव इति तादृशप्रकारित्वावच्छिन्नोत्पत्तिवारणाय ताशप्रकारित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानाभावकूटविशिष्टविशेषणतावच्छेदकप्रकारकनिश्चयत्वावच्छिन्नस्य नियामकत्वं न कल्पनीयं तादृशसंशयाभावापेक्षया तस्य गुरुत्वात् , विशेष्ये विशेषणमिति रीत्या ज्ञानसाधारणी प्रकारितैव च शब्दबोधं प्रति योग्यताज्ञानस्य या कारणता तदवच्छेदिकापि, तथा तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयलक्षणबाधनिश्चयस्य यत् प्रतिबन्धकत्वं यच्च तन्निरूपितप्रतिवध्यत्वं तयोरवच्छेदिकाऽपि, एवं तदभाववत्ताबुद्धिं प्रति तद्वत्ता निश्चयस्य यत् प्रतिबन्धकत्वं यच तन्निरूपित प्रतिबध्यत्वं तयोरवच्छेदिकाऽपि, तत एव च 'विशेष्ये विशेषणम्' इति रीत्या यः शाब्दवोधोऽनन्वितान्वयबोधात्मा तस्यापि बाधवुद्धि प्रति प्रतिबध्यत्वं प्रतिबन्धकत्वं च सम्भवतः, अप्रामाण्यनिश्चयाभावकूट विशिष्टसंशयाभावस्य प्रतिबन्धकाभावविधया कार्यसहभावेन ताशप्रकारित्वावच्छिन्न प्रति नियामकत्वाश्रयणादेव यत्र व्याप्तिप्रकारकनिश्चयानन्तरं व्यायभावांशे आहार्यसंशायात्मको व्याप्तिविशिष्टवैशिष्टयावगाहिपरामर्शस्तत्र ततो नानुमित्यापत्तिः कार्यकाले निरुक्तसंशयस्यैव कार्यसहभावेन प्रतिबन्धकस्य भावादिति शङ्कते-नन्विति । तदवच्छिन्ने विशेष्ये विशेषणमिति ज्ञानसाधारणप्रकारित्वावच्छिन्ने, अस्य 'निया. मकस्य' इत्यनेनान्वयः, तच 'संशयाभावस्य' इत्यस्य विशेषणम्, 'संशयाभावस्य' इत्यस्य 'लघुत्वाद्' इत्यत्रान्वयः । इयमेव विशेध्ये विशेषणमिति ज्ञानसाधारणप्रकारितेच, 'बाधादि' इत्यादिपदात् तद्वत्तानिश्चयादः प्रतिबन्धकान्तरज्ञानस्य चोपग्रहः । अत एव निरुक्तप्रकारिताया बाधादिप्रतिबन्धकतायवच्छेदकत्वोपगमादेव । अत एव च निरुक्तप्रकारित्वावच्छिन्नेऽप्रामाण्यनिश्चयाभावकूट विशिष्टसंशयाभावस्य नियामकत्वादेव पुनः । तथाविधज्ञानात् विशेष्ये विशेषण मिति ज्ञानसाधारणप्रकारित्वावच्छिन्नपरामर्शात्मकज्ञानात् । तथाविधसंशयस्य अप्रामाण्यनिश्चयाभाचकूटविशिष्टस्य व्याप्त्यभावांशे आहार्यसंशयस्य। अप्रामायनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्तसंशयत्वेन प्रतिबन्धकत्वं तदभावत्वेन च कारणस्वमिति कल्पनापेक्षयाऽप्रामाण्य ज्ञानाभावविशिष्टाविशेषणतावच्छेदकप्रकारकनिश्चयत्वेन कारणत्वस्यैव लाघवादौचित्यम् , विशिष्टवैशिष्टयविषयता च 'अभावबोधो हि विशिष्टवैशिष्टयावगाहिमर्यादा नातिशेते' इति नियमबलादभावबोधे सिद्धा, तत्र विशे. षणतावच्छेदकीभूतप्रतियोगितावच्छेदकप्रकारकनिश्चयस्य यत् कारणत्वं क्लुप्तं तस्य कार्यकोटावभावांशमप्रवेशस्यैव विशिष्टवैशिष्टयावगाहिबोधत्वावच्छिन्ने युक्तत्वमिति समाधते-नेति । प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य' इत्यस्य 'हेतुत्वम्' इत्यनेनान्वयः, अभावांशाप्रवेशेनेति- 'प्रतियोगितावच्छेदकविशिष्टस्याभावेन सह वैशिष्ट्यावगाहिप्रत्यक्षे' इत्यत्रा. भावेन सहेत्यनुक्त्वा प्रतियोगितावच्छेदकविशिष्टस्य वैशिष्टयज्ञान इत्युक्तौ लाघवं व्यक्तमेव । तादृशज्ञान एवं प्रतियोगितावच्छेदकविशिष्टवैशिष्टयज्ञान एव तथा च प्रत्यक्षस्थाने ज्ञानस्यैव प्रवेशो विधेय इत्येतावता विशिष्टवैशिष्ट्यज्ञाने विशेषणतावच्छदकप्रकारकज्ञानस्य कारणत्वं 'यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि सः' इति न्यायादायाति, यतः

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210