Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 129
________________ मयामृततरङ्गिणी-तरहिणीतरणिभ्या समतो मयोपदेशः । १०३ शारीरद्वयं नेदं कुण्डलमहादेकत्र चैत्रे 'चैत्रोऽयं दण्डी कुण्डली च' इति धियो विशेषो रक्तदण्डाभावधियः समूहालम्बनादिव, इयं चैकविशिष्टेऽपरवैशिष्ट्य विषयताव्यापिका 'दण्डी कुण्डली चैत्रो द्रव्यम्' इत्यत्रेव 'दण्डी कुण्डली चैत्रः' इत्यत्रापि सत्त्वात् , तत्प्रयोजकसामग्री व्यापकसामग्री व्यापकत्वा चेति वदन्ति, तदसत्-सामान्य विशेषापेक्षयैकाने कात्मकवस्त्वनभ्युपगमे एकान्तवादस्य कुत्राप्यघटविधेयत्वेन विधेयतायाः प्रकारताविशेषरूपत्वेन तादृशप्रकारताद्वयनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावन्निश्चयत्वं तत्रापि समस्तीति तस्यापि निरुक्तबाधप्रतिबध्यत्वम् , यत्र चैकं चैत्रमुद्दिश्य दण्डविधेयकं द्वितीयं चैत्रमुद्दिश्य कुण्डलविधेयक 'चैत्रो दण्डी, कुण्डली च चैत्रः' इति समूहालम्वन ज्ञानं तत्रैकस्य चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनः कुण्डलविशेध्यत्वादपरस्य च चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनो दण्डविशेष्यत्वादिति तस्य समूहालम्बनज्ञानस्य न दण्डनिष्ठप्रकारतानिरूपितत्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्नचैत्रनिष्ठकविशेष्यितावज्ज्ञानत्वमिति 'न दण्डी चैत्रो न कुण्डली' इति बाधनिश्चयप्रतिबध्यत्वमित्याह-ताशबाधधीति- 'दण्डी चैत्रो न कुण्डली' इति बाधज्ञानेत्यर्थः । अस्याः दण्ड निरूपित प्रकारित्व- कुण्डलनिरूपितत्रकारिवद्वयावच्छिन्न चैत्रत्वावच्छिन्न विशेष्यतानिरूपितविशेप्यितायाः। 'चैत्रत्वेन शारीरद्वयं नेदं कुण्डलग्रहादकत्र' इत्यस्य स्थाने 'चैत्रत्वेन शारीरद्वये दण्ड कुण्डलग्रहादेकत्र' इति पाठो युक्तः, चैत्रत्वेनैकस्मिन् चैत्रे दण्डस्यापरस्मिश्चैत्रे कुण्डलस्य समूहावलम्बन ग्रहाद एकस्मिन्नेव चैत्रे दण्ड-कुण्डलयोर्या 'एकत्र द्वयम्' इति रीत्या 'चैत्रोऽयं दण्डी कुण्डली च' इति धीस्तस्या विशेषः, यतः सा निरुक्तबाधधीप्रतिबध्यतावच्छेदकनिरुक्ता विशेष्यिताधर्माकान्ता, विभिन्न चैत्रधर्मिकसमूहालम्बनधीश्च तादृशधर्मविकलेत्यर्थः । उक्तविशेषं दृष्टान्तावष्टम्भन द्रढयतिरक्त-दण्डाभावधिय इति- 'रक्ताभावो दण्डाभावश्च' इति समूहालम्बनबुद्धितो 'रक्तदण्डाभावः' इति बुद्धर्यथा विशेषस्तथेत्यर्थः, अत्र 'रक्तदण्ड धियः समूहालम्बनादिव' इत्येतावन्मात्रपाठ उपादानाहः, तत्र 'रको दण्डश्च' इति समूहालम्बनाद् यथा 'रक्तदण्डः' इति बुद्धे दस्तथेत्यर्थः । इयं च प्रकारिताद्वयावच्छिन्नविशेष्यितारूपा 'एकत्र द्वयम्' इति ज्ञाननिष्ठविषयिता च । 'विषयताव्यापिका' इति स्थाने 'वियिताव्यापिका' इति पाठो युक्तः । यत इयम् 'एकत्र द्वयम्' इति ज्ञाने 'एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञाने च वर्ततेऽत एकविशिष्टेऽपरवैशिष्ट्यनिरूपितविषयताया व्यापिकेति स्पष्टयति-दण्डीति'दण्डो कुण्डली चैत्रो द्रव्यम्' इति ज्ञानं दण्ड कुण्डलविशिष्टचैत्रे द्रव्यत्ववैशिष्ट्यावगाहित्वादेकविशिष्टेऽपरवैशिष्टयज्ञानम् । 'दण्डी कुण्डली चैत्रः' इति ज्ञान चैकत्र चत्रे दण्डकुण्डलद्वयवैशिष्टचावगाहित्वादेकत्र द्वयमिति, तदुभयत्र निरुक्तैकत्र द्वयमिति विषयितायाः सत्वादेकविशिष्टेऽपरवैशिष्ट्यविषयिताव्यापकत्वम् । ततः किमित्यपेक्षयामाह-तत्प्रयोजकसामग्रीतिव्यापकत्वात् तत्प्रयोजकसामग्री व्यापक सामग्रीत्यन्वयः, एवं च तत्प्रयोजकसामग्री व्यापकसामग्रीविधया “एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञानीयविषयताप्रयोजिकाऽपीति भावः । ___ इत्थं विशिष्टवैशिष्टयबुद्धविशिष्ये विशेषणमिति १ विशिष्टस्य वैशिष्ट्यमिति २ विशिष्टे वैशिष्टयमिति ३ एकत्र द्वयम ४ इत्येवं चत्वारः प्रकारा इति नैयायिकानां मतं व्युत्पाद्य प्रतिक्षिपति-तदसदिति। उक्तप्रकारेष्वपि सामान्यविशेषापेक्षाया आवश्यकत्वेनापेक्षाख्यबोधत्वलक्षणनयत्वमवश्यमभ्युपगन्तव्यम् , एकान्तवादेऽविशिष्टस्वरूपे वस्तुनि न कस्यचिद् वैशिष्टयम् , सामान्यैकान्तात्मके नापरवैशिष्टचनिबन्धनविशिष्टरूपता विशेषकान्तात्मके चैकधर्मविशिष्टस्य नापरधर्मविशिष्टता धर्मभेदन तयोरत्यम्तभेदादिति नोक्तप्रकारसम्भावनाऽपीत्यभिप्रायेण प्रतिक्षेपहेतुमुपन्यस्यति- सामान्येति- सामान्यापेक्षयकात्मक विशेषापेक्षया चानेकात्मकं यद् वस्तु तस्यानभ्युपगमें इत्यर्थः, एकान्तवादे वस्तुनः सामान्यैकान्तरूपत्वेन विशेषरूपत्वाभावान्न कस्यचिदु वैशिष्टयमिति 'विशेष्ये विशेषणम्' इत्यादिरूपता विषयावगाहनवलक्षण्यनिबन्धना कुतो ज्ञानस्य, विषयावगाहनस्थापि सामान्य कान्तरूपस्य लक्षण्याभावात् , विशेषकान्तरूपत्वेन च धर्मद्वयाधारसामान्यरूपाभावादेकधर्मविशिष्टमेव नापरधर्मविशिष्टमिति विशेष्यतावच्छेदकधर्मालिङ्गितो विशेष्यस्वभावोऽन्य एव तदन्य एव च विशेषणालिद्वितस्वभाव इत्येवमपि विशध्ये विशेषणमित्यादिरूपता ज्ञानस्य तथाविधविषयाभावात् तदरगाहनविशेषस्याप्यभायेन न सम्भवत्येव, अनेकान्तवादे तु धर्मद्वयाधारत्वमेकस्य धर्मिणः सामान्यस्वभावेन, विशेषस्वभावेन च विशेष्यरूपत्वं विशिष्टरूपत्वं प्रत्येकधर्मविशिष्टरूपत्वं धर्मद्वयविशिष्टरूपत्व मित्याद्यनेकस्वभावत्वमिति विवक्षाभेदेन तत्तद्विषयावगाहनस्वभावमुपादाय शानस्य प्रकारभेदः सम्भवति, परं तत्र चतुधैव ज्ञानस्य विशिष्टवैशिष्टयबोधात्मनो विभाग इत्यकान्तो नात्मानं लभते निरूपकवलक्षण्यनिबन्धनानरूपविषयत्वानुभवेन विषयताबाहुल्यप्रयुक्तविशिष्टवैशिष्टयज्ञानप्रकारबाहुल्यसम्भवादित्याशयेनाह-विशिष्टबुद्धिष्वपीति-विशिष्टबुद्धिषु यथा

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210