________________
मयामृततरङ्गिणी-तरहिणीतरणिभ्या समतो मयोपदेशः ।
१०३
शारीरद्वयं नेदं कुण्डलमहादेकत्र चैत्रे 'चैत्रोऽयं दण्डी कुण्डली च' इति धियो विशेषो रक्तदण्डाभावधियः समूहालम्बनादिव, इयं चैकविशिष्टेऽपरवैशिष्ट्य विषयताव्यापिका 'दण्डी कुण्डली चैत्रो द्रव्यम्' इत्यत्रेव 'दण्डी कुण्डली चैत्रः' इत्यत्रापि सत्त्वात् , तत्प्रयोजकसामग्री व्यापकसामग्री व्यापकत्वा
चेति वदन्ति, तदसत्-सामान्य विशेषापेक्षयैकाने कात्मकवस्त्वनभ्युपगमे एकान्तवादस्य कुत्राप्यघटविधेयत्वेन विधेयतायाः प्रकारताविशेषरूपत्वेन तादृशप्रकारताद्वयनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावन्निश्चयत्वं तत्रापि समस्तीति तस्यापि निरुक्तबाधप्रतिबध्यत्वम् , यत्र चैकं चैत्रमुद्दिश्य दण्डविधेयकं द्वितीयं चैत्रमुद्दिश्य कुण्डलविधेयक 'चैत्रो दण्डी, कुण्डली च चैत्रः' इति समूहालम्वन ज्ञानं तत्रैकस्य चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनः कुण्डलविशेध्यत्वादपरस्य च चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनो दण्डविशेष्यत्वादिति तस्य समूहालम्बनज्ञानस्य न दण्डनिष्ठप्रकारतानिरूपितत्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्नचैत्रनिष्ठकविशेष्यितावज्ज्ञानत्वमिति 'न दण्डी चैत्रो न कुण्डली' इति बाधनिश्चयप्रतिबध्यत्वमित्याह-ताशबाधधीति- 'दण्डी चैत्रो न कुण्डली' इति बाधज्ञानेत्यर्थः । अस्याः दण्ड निरूपित प्रकारित्व- कुण्डलनिरूपितत्रकारिवद्वयावच्छिन्न चैत्रत्वावच्छिन्न विशेष्यतानिरूपितविशेप्यितायाः। 'चैत्रत्वेन शारीरद्वयं नेदं कुण्डलग्रहादकत्र' इत्यस्य स्थाने 'चैत्रत्वेन शारीरद्वये दण्ड कुण्डलग्रहादेकत्र' इति पाठो युक्तः, चैत्रत्वेनैकस्मिन् चैत्रे दण्डस्यापरस्मिश्चैत्रे कुण्डलस्य समूहावलम्बन ग्रहाद एकस्मिन्नेव चैत्रे दण्ड-कुण्डलयोर्या 'एकत्र द्वयम्' इति रीत्या 'चैत्रोऽयं दण्डी कुण्डली च' इति धीस्तस्या विशेषः, यतः सा निरुक्तबाधधीप्रतिबध्यतावच्छेदकनिरुक्ता विशेष्यिताधर्माकान्ता, विभिन्न चैत्रधर्मिकसमूहालम्बनधीश्च तादृशधर्मविकलेत्यर्थः । उक्तविशेषं दृष्टान्तावष्टम्भन द्रढयतिरक्त-दण्डाभावधिय इति- 'रक्ताभावो दण्डाभावश्च' इति समूहालम्बनबुद्धितो 'रक्तदण्डाभावः' इति बुद्धर्यथा विशेषस्तथेत्यर्थः, अत्र 'रक्तदण्ड धियः समूहालम्बनादिव' इत्येतावन्मात्रपाठ उपादानाहः, तत्र 'रको दण्डश्च' इति समूहालम्बनाद् यथा 'रक्तदण्डः' इति बुद्धे दस्तथेत्यर्थः । इयं च प्रकारिताद्वयावच्छिन्नविशेष्यितारूपा 'एकत्र द्वयम्' इति ज्ञाननिष्ठविषयिता च । 'विषयताव्यापिका' इति स्थाने 'वियिताव्यापिका' इति पाठो युक्तः । यत इयम् 'एकत्र द्वयम्' इति ज्ञाने 'एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञाने च वर्ततेऽत एकविशिष्टेऽपरवैशिष्ट्यनिरूपितविषयताया व्यापिकेति स्पष्टयति-दण्डीति'दण्डो कुण्डली चैत्रो द्रव्यम्' इति ज्ञानं दण्ड कुण्डलविशिष्टचैत्रे द्रव्यत्ववैशिष्ट्यावगाहित्वादेकविशिष्टेऽपरवैशिष्टयज्ञानम् । 'दण्डी कुण्डली चैत्रः' इति ज्ञान चैकत्र चत्रे दण्डकुण्डलद्वयवैशिष्टचावगाहित्वादेकत्र द्वयमिति, तदुभयत्र निरुक्तैकत्र द्वयमिति विषयितायाः सत्वादेकविशिष्टेऽपरवैशिष्ट्यविषयिताव्यापकत्वम् । ततः किमित्यपेक्षयामाह-तत्प्रयोजकसामग्रीतिव्यापकत्वात् तत्प्रयोजकसामग्री व्यापक सामग्रीत्यन्वयः, एवं च तत्प्रयोजकसामग्री व्यापकसामग्रीविधया “एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञानीयविषयताप्रयोजिकाऽपीति भावः । ___ इत्थं विशिष्टवैशिष्टयबुद्धविशिष्ये विशेषणमिति १ विशिष्टस्य वैशिष्ट्यमिति २ विशिष्टे वैशिष्टयमिति ३ एकत्र द्वयम ४ इत्येवं चत्वारः प्रकारा इति नैयायिकानां मतं व्युत्पाद्य प्रतिक्षिपति-तदसदिति। उक्तप्रकारेष्वपि सामान्यविशेषापेक्षाया आवश्यकत्वेनापेक्षाख्यबोधत्वलक्षणनयत्वमवश्यमभ्युपगन्तव्यम् , एकान्तवादेऽविशिष्टस्वरूपे वस्तुनि न कस्यचिद् वैशिष्टयम् , सामान्यैकान्तात्मके नापरवैशिष्टचनिबन्धनविशिष्टरूपता विशेषकान्तात्मके चैकधर्मविशिष्टस्य नापरधर्मविशिष्टता धर्मभेदन तयोरत्यम्तभेदादिति नोक्तप्रकारसम्भावनाऽपीत्यभिप्रायेण प्रतिक्षेपहेतुमुपन्यस्यति- सामान्येति- सामान्यापेक्षयकात्मक विशेषापेक्षया चानेकात्मकं यद् वस्तु तस्यानभ्युपगमें इत्यर्थः, एकान्तवादे वस्तुनः सामान्यैकान्तरूपत्वेन विशेषरूपत्वाभावान्न कस्यचिदु वैशिष्टयमिति 'विशेष्ये विशेषणम्' इत्यादिरूपता विषयावगाहनवलक्षण्यनिबन्धना कुतो ज्ञानस्य, विषयावगाहनस्थापि सामान्य कान्तरूपस्य लक्षण्याभावात् , विशेषकान्तरूपत्वेन च धर्मद्वयाधारसामान्यरूपाभावादेकधर्मविशिष्टमेव नापरधर्मविशिष्टमिति विशेष्यतावच्छेदकधर्मालिङ्गितो विशेष्यस्वभावोऽन्य एव तदन्य एव च विशेषणालिद्वितस्वभाव इत्येवमपि विशध्ये विशेषणमित्यादिरूपता ज्ञानस्य तथाविधविषयाभावात् तदरगाहनविशेषस्याप्यभायेन न सम्भवत्येव, अनेकान्तवादे तु धर्मद्वयाधारत्वमेकस्य धर्मिणः सामान्यस्वभावेन, विशेषस्वभावेन च विशेष्यरूपत्वं विशिष्टरूपत्वं प्रत्येकधर्मविशिष्टरूपत्वं धर्मद्वयविशिष्टरूपत्व मित्याद्यनेकस्वभावत्वमिति विवक्षाभेदेन तत्तद्विषयावगाहनस्वभावमुपादाय शानस्य प्रकारभेदः सम्भवति, परं तत्र चतुधैव ज्ञानस्य विशिष्टवैशिष्टयबोधात्मनो विभाग इत्यकान्तो नात्मानं लभते निरूपकवलक्षण्यनिबन्धनानरूपविषयत्वानुभवेन विषयताबाहुल्यप्रयुक्तविशिष्टवैशिष्टयज्ञानप्रकारबाहुल्यसम्भवादित्याशयेनाह-विशिष्टबुद्धिष्वपीति-विशिष्टबुद्धिषु यथा