Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 133
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १०७ हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताघेयत्वत्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपि. तवह्नित्वनिष्ठावच्छेदकतानिरूपितसाध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वमेव निवेश्यताम् , न च, यत्र व्याप्ति धूमत्वयोः एकत्र द्वयम्' इति रीत्यैव हेतुनिष्ठप्रकारतावच्छेदकत्वं तादृशपरामर्शादनुमित्यापत्तिः, इष्टापत्तौ च विरोध-व्यभिचारयो. हेत्वाभासत्वानुपपत्तिः, ताशज्ञानस्य तज्ज्ञानाप्रतिबद्ध्यत्वात्, इति तद्वारणाय व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारता निवेशनीया, तत्त्वेन धूमत्वावच्छिन्नत्वं च धूमप्रकारतायां तत्रैव भिमतत्वे तु हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणत्वावच्छिन्नाधिकरणनिष्टावच्छेदकतानिरूपितेत्येवं वक्तव्यम् , अधिकरणनिष्टावच्छेदकतेत्युक्त्यैवाधिकरणत्वावच्छिन्नत्वं तत्र लभ्यते, अत एव यत्रासाधारणधर्मावच्छिन्नत्वेन निवेशनं न तत्र धर्मिनिष्टतयाऽवच्छेदकत्वोपादानम्, तेनाधेयत्वत्वावच्छिन्नत्वेनोपादाने आधेयत्वनिष्ठत्वेन नोपादानमेवमग्रेऽपि, 'प्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इत्यस्य स्थाने 'प्रतियोगित्वनिष्ठावच्छेदकतानिरू पितावच्छेदकतात्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इति पाठो युक्तः, हेतुतावच्छेदकादीनां सामान्यत एव निवेशे कस्यचिद् विशेषत उपादानं न सङ्गतिमङ्गतीति 'वह्नित्वनिष्ठावच्छेदकता' इति स्थाने 'साध्यतावच्छेदकनिष्ठावच्छेदकता' इति पाठो युक्तः, 'साध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति स्थाने 'साथ्य निष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति पाठो युक्तः । ननु पर्वते धूमव्यक्तिं तत्र धूमव्यापकवह्निसामानाधिकरण्य-धूमत्वे अवगाहमाना या 'एकत्र द्वयम्' इति रीत्या बुद्धिः साऽपि 'हेतुतावच्छेदकावच्छिन्न हेतुनिष्टावच्छेदकतानिरूपित' इत्यादिनिरुक्तकारणतावच्छेदक. धर्माकान्ता, यतस्तत्र घूमनिष्टप्रकारताया धूमत्वावच्छिन्नत्वस्य निरुक्तव्याप्तिनिष्ठावच्छेदकतानिरूपितत्वस्यास्त्येव सत्त्वमिति ततोऽप्यनुमित्यापत्तिः, नेयमापत्तिरिष्टापत्तितया परिहर्तुं शक्या, तथा सत्यनुमितिकारणस्य निरुक्तपरामर्शस्य विरोध-व्यभिचारप्रतिबध्यतावच्छेदकं यद् व्याप्तिनिष्टप्रकारतानिरूपित हेतुतावच्छेदकावच्छिन्नविशेष्यताबुद्धित्वं तदनाक्रान्तत्वेन तं प्रति विरोध व्यभिचारज्ञानयोरप्रतिबन्धकतया विरोध व्यभिचारयोर्हेत्वाभासत्वमेव न स्यात् , इत्येकत्र द्वयमिति रीत्या जायमानपरामर्शस्यानुमितिकारणत्ववारणाय व्याप्तिानष्टप्रकारतानिरूपित हेतुतावच्छेदकावच्छिन्नविशेष्यतात्वेन हेतुप्रकारता निवेशनीया, एवं च तत्र व्याप्स्यवच्छिन्नत्वनिवेशनमफलमित्याच्या प्रतिक्षिपति-न चेति-अस्य वाच्यम्। इत्युत्तरेण सम्बन्धः । तादृशपरामर्शात् हेत्वंशे 'एकत्र द्वयम् ' इति रीत्या व्याप्तिहेतुतावच्छेदकोभयावयाहिपरामर्शात् । इष्टापत्तौ च निरुक्तपरामर्शादनुमित्यापत्तरिष्टापत्तिरूपतयाऽदोषत्वाभ्युपगमे च । विरोधेति- साध्यच्यापकीभूताभावप्रतियोगिहेतुलक्षणविरोधस्य पक्षधर्मिकहेतुमत्तानिश्चयविशिष्टनिश्चयत्वेनानुमितिप्रतिबन्धकस्वज्ञानविषयत्वेन हेत्वाभासत्वसम्भवेऽपि साध्यासामानाधिकरण्यात्मकहेतुनिष्टविरोधस्य साध्यसामानाधिकरण्यघटितव्याप्तिज्ञानविरोधिज्ञानविषयत्वेनैव हेत्वाभासत्वस्य स्वीकृततया तनिश्चयस्य व्याप्तिघटकीभूतसाध्यसामानाधिकरण्यनिष्ठप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नव्याप्तिप्रकारकहेतुविशेष्यकज्ञाननिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालितायामेव विरोधस्य तद्विषयस्य हेत्वाभासत्वं भवेत् , निरुक्तपरामर्शस्य तु निरुक्तप्रतिबध्यताशून्यत्वेनोक्तप्रतिबन्धकताशून्यनिश्वयविषयत्वेन विरोधस्य हेत्वाभासत्वं न स्यात्, एवं व्यभिचारस्यापि व्याप्तिनिष्टप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकता. शालिनिश्चयविषयत्वेनैव हेत्वाभासत्वं नान्यथा निरुक्तपरामर्शस्य तु व्याप्तिनिष्टप्रकारसानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकत्वलक्षण प्रतिबध्यतावच्छेदकधर्मानाकान्तत्वेनाप्रतिवध्यत्वे तदप्रतिबन्धकनिश्चयविषयस्य व्यभिचारस्यापि हेत्वाभासत्वं न स्यादित्यर्थः। तादृशमानस्य 'एकत्र द्वयम्' इत्यादिरीत्या हेत्वंशव्याप्तिहेतुतावच्छेदकोभयावगाहिनः परामर्शस्य ।तज्ज्ञानाप्रतिबध्यत्वात् विरोधव्यभिचारज्ञानाप्रतिबध्यत्वात् । इति एतस्माद् हेतोः । तद्वारणाय ताटशपरामशदिनुमित्यापत्तिवारणाय । व्याप्तीति- 'एकत्र द्वयम्' इति रीत्या व्याप्ति-हेतुतावच्छेदकोभयप्रकारक-हेतुव्यक्तिविशेष्यकपरामर्श च व्याप्तिनिष्ठप्रकारला. निरूपितहेतुनिष्टविशेष्यता हेतुतावच्छेदकनिष्ठप्रकारतानिरूपितेव न तु हेतुतावाच्छेदकानच्छिन्नेति नोक्तरूपेण तस्य कारणत्वमतो नोक्तपरामर्शादतुमित्यापत्तिः । तस्वेन व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यतात्वेन, यत्र घूमत्वस्य व्याप्तिधर्मितावच्छे. दकत्वं तत्रैव धूमप्रकारतायां तत्त्वेन धूमत्वावच्छिन्नत्वमित्यन्वयः। अन्यत्र तु यस्मिन् ज्ञाने न धूमत्वस्य व्याप्ति

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210