________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१०७
हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताघेयत्वत्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपि. तवह्नित्वनिष्ठावच्छेदकतानिरूपितसाध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वमेव निवेश्यताम् , न च, यत्र व्याप्ति धूमत्वयोः एकत्र द्वयम्' इति रीत्यैव हेतुनिष्ठप्रकारतावच्छेदकत्वं तादृशपरामर्शादनुमित्यापत्तिः, इष्टापत्तौ च विरोध-व्यभिचारयो. हेत्वाभासत्वानुपपत्तिः, ताशज्ञानस्य तज्ज्ञानाप्रतिबद्ध्यत्वात्, इति तद्वारणाय व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारता निवेशनीया, तत्त्वेन धूमत्वावच्छिन्नत्वं च धूमप्रकारतायां तत्रैव भिमतत्वे तु हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणत्वावच्छिन्नाधिकरणनिष्टावच्छेदकतानिरूपितेत्येवं वक्तव्यम् , अधिकरणनिष्टावच्छेदकतेत्युक्त्यैवाधिकरणत्वावच्छिन्नत्वं तत्र लभ्यते, अत एव यत्रासाधारणधर्मावच्छिन्नत्वेन निवेशनं न तत्र धर्मिनिष्टतयाऽवच्छेदकत्वोपादानम्, तेनाधेयत्वत्वावच्छिन्नत्वेनोपादाने आधेयत्वनिष्ठत्वेन नोपादानमेवमग्रेऽपि, 'प्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इत्यस्य स्थाने 'प्रतियोगित्वनिष्ठावच्छेदकतानिरू पितावच्छेदकतात्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इति पाठो युक्तः, हेतुतावच्छेदकादीनां सामान्यत एव निवेशे कस्यचिद् विशेषत उपादानं न सङ्गतिमङ्गतीति 'वह्नित्वनिष्ठावच्छेदकता' इति स्थाने 'साध्यतावच्छेदकनिष्ठावच्छेदकता' इति पाठो युक्तः, 'साध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति स्थाने 'साथ्य निष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति पाठो युक्तः । ननु पर्वते धूमव्यक्तिं तत्र धूमव्यापकवह्निसामानाधिकरण्य-धूमत्वे अवगाहमाना या 'एकत्र द्वयम्' इति रीत्या बुद्धिः साऽपि 'हेतुतावच्छेदकावच्छिन्न हेतुनिष्टावच्छेदकतानिरूपित' इत्यादिनिरुक्तकारणतावच्छेदक. धर्माकान्ता, यतस्तत्र घूमनिष्टप्रकारताया धूमत्वावच्छिन्नत्वस्य निरुक्तव्याप्तिनिष्ठावच्छेदकतानिरूपितत्वस्यास्त्येव सत्त्वमिति ततोऽप्यनुमित्यापत्तिः, नेयमापत्तिरिष्टापत्तितया परिहर्तुं शक्या, तथा सत्यनुमितिकारणस्य निरुक्तपरामर्शस्य विरोध-व्यभिचारप्रतिबध्यतावच्छेदकं यद् व्याप्तिनिष्टप्रकारतानिरूपित हेतुतावच्छेदकावच्छिन्नविशेष्यताबुद्धित्वं तदनाक्रान्तत्वेन तं प्रति विरोध व्यभिचारज्ञानयोरप्रतिबन्धकतया विरोध व्यभिचारयोर्हेत्वाभासत्वमेव न स्यात् , इत्येकत्र द्वयमिति रीत्या जायमानपरामर्शस्यानुमितिकारणत्ववारणाय व्याप्तिानष्टप्रकारतानिरूपित हेतुतावच्छेदकावच्छिन्नविशेष्यतात्वेन हेतुप्रकारता निवेशनीया, एवं च तत्र व्याप्स्यवच्छिन्नत्वनिवेशनमफलमित्याच्या प्रतिक्षिपति-न चेति-अस्य वाच्यम्। इत्युत्तरेण सम्बन्धः । तादृशपरामर्शात् हेत्वंशे 'एकत्र द्वयम् ' इति रीत्या व्याप्तिहेतुतावच्छेदकोभयावयाहिपरामर्शात् । इष्टापत्तौ च निरुक्तपरामर्शादनुमित्यापत्तरिष्टापत्तिरूपतयाऽदोषत्वाभ्युपगमे च । विरोधेति- साध्यच्यापकीभूताभावप्रतियोगिहेतुलक्षणविरोधस्य पक्षधर्मिकहेतुमत्तानिश्चयविशिष्टनिश्चयत्वेनानुमितिप्रतिबन्धकस्वज्ञानविषयत्वेन हेत्वाभासत्वसम्भवेऽपि साध्यासामानाधिकरण्यात्मकहेतुनिष्टविरोधस्य साध्यसामानाधिकरण्यघटितव्याप्तिज्ञानविरोधिज्ञानविषयत्वेनैव हेत्वाभासत्वस्य स्वीकृततया तनिश्चयस्य व्याप्तिघटकीभूतसाध्यसामानाधिकरण्यनिष्ठप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नव्याप्तिप्रकारकहेतुविशेष्यकज्ञाननिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालितायामेव विरोधस्य तद्विषयस्य हेत्वाभासत्वं भवेत् , निरुक्तपरामर्शस्य तु निरुक्तप्रतिबध्यताशून्यत्वेनोक्तप्रतिबन्धकताशून्यनिश्वयविषयत्वेन विरोधस्य हेत्वाभासत्वं न स्यात्, एवं व्यभिचारस्यापि व्याप्तिनिष्टप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकता. शालिनिश्चयविषयत्वेनैव हेत्वाभासत्वं नान्यथा निरुक्तपरामर्शस्य तु व्याप्तिनिष्टप्रकारसानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकत्वलक्षण प्रतिबध्यतावच्छेदकधर्मानाकान्तत्वेनाप्रतिवध्यत्वे तदप्रतिबन्धकनिश्चयविषयस्य व्यभिचारस्यापि हेत्वाभासत्वं न स्यादित्यर्थः। तादृशमानस्य 'एकत्र द्वयम्' इत्यादिरीत्या हेत्वंशव्याप्तिहेतुतावच्छेदकोभयावगाहिनः परामर्शस्य ।तज्ज्ञानाप्रतिबध्यत्वात् विरोधव्यभिचारज्ञानाप्रतिबध्यत्वात् । इति एतस्माद् हेतोः । तद्वारणाय ताटशपरामशदिनुमित्यापत्तिवारणाय । व्याप्तीति- 'एकत्र द्वयम्' इति रीत्या व्याप्ति-हेतुतावच्छेदकोभयप्रकारक-हेतुव्यक्तिविशेष्यकपरामर्श च व्याप्तिनिष्ठप्रकारला. निरूपितहेतुनिष्टविशेष्यता हेतुतावच्छेदकनिष्ठप्रकारतानिरूपितेव न तु हेतुतावाच्छेदकानच्छिन्नेति नोक्तरूपेण तस्य कारणत्वमतो नोक्तपरामर्शादतुमित्यापत्तिः । तस्वेन व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यतात्वेन, यत्र घूमत्वस्य व्याप्तिधर्मितावच्छे. दकत्वं तत्रैव धूमप्रकारतायां तत्त्वेन धूमत्वावच्छिन्नत्वमित्यन्वयः। अन्यत्र तु यस्मिन् ज्ञाने न धूमत्वस्य व्याप्ति