________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । गौरवात्, विशेषणतावच्छेदकप्रकारकनिश्चयस्य चानाहायस्यैव हेतुत्वस्वीकारादाहार्यतदुत्तरोत्पन्नज्ञाने व्यात्यंशे निर्णयत्वनिवेशानावश्यकत्वात् , ननु तथापि 'विशेष्ये विशेषणम्' इति ज्ञानसाधारण्येवातिरिक्तप्रकारिताऽस्तु तदवच्छिन्नेऽप्रामाण्यनिश्चयाभावकूटविशिष्टसंशयाभावस्य नियामकस्याप्रामाण्यज्ञानाभाव. कूटविशिष्टनिश्चयत्वावच्छिन्नतो लघुत्वात् , इयमेव योग्यताज्ञानादिनिष्ठहेतुतावच्छेदिका बाधादिप्रतिबन्धकतावच्छेदिका च, अत एवानन्वितान्वयबुद्धेबर्बाधादिप्रतिबद्ध्यत्वप्रतिबन्धकत्वे, अत एव (च) व्याप्तिप्रकारनिश्चयोत्तरमपि व्याप्त्यभावांशे आहार्यसंशयात्मकतथाविधज्ञानादनुमित्यनापत्तिः, कार्यसहभावेन तथाविधसंशयस्य प्रतिबन्धकत्वादिति चेत् ? न-अप्रामाण्यनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्त.
भ्युपगमेऽपीत्यर्थः । आहार्यतदुत्तरोत्पन्नज्ञान इति- आहार्य यद् विशेषणतावच्छेदकीभूतव्यातिप्रकारकनिर्णयात्मकं तदव्यवहितोत्तरोत्पन्नज्ञाने इत्यर्थः, तच्च ज्ञान मनाहार्यव्याप्तिप्रकारकनिर्णयाभावाद् व्याप्तिविशिष्टवैशिष्टचावगाहिपरामर्शात्मकं न भवत्येवेति तदानीं परामर्शाभावादेव नानुमितिरिति तत्र व्यायंशे निर्णयत्वस्यानावश्यकत्वादित्यर्थः । ननु यदि विशेषणतावच्छे. दकप्रकारकसंशयतो विशिष्टवैशिष्ट्यावगाहिबोधो न भवतीति संशयसाधारणरूपेण न कारणत्वं तर्हि 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानसाधारणी याऽतिरिक्तप्रकारिता तामुपगम्य तदवच्छिन्नं प्रति तत एव विशेषणतावच्छेदकप्रकारकसंशयकाले न तादृश. प्रकारित्वावच्छिन्नोत्पत्त्यापत्तिसम्भव इति तादृशप्रकारित्वावच्छिन्नोत्पत्तिवारणाय ताशप्रकारित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानाभावकूटविशिष्टविशेषणतावच्छेदकप्रकारकनिश्चयत्वावच्छिन्नस्य नियामकत्वं न कल्पनीयं तादृशसंशयाभावापेक्षया तस्य गुरुत्वात् , विशेष्ये विशेषणमिति रीत्या ज्ञानसाधारणी प्रकारितैव च शब्दबोधं प्रति योग्यताज्ञानस्य या कारणता तदवच्छेदिकापि, तथा तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयलक्षणबाधनिश्चयस्य यत् प्रतिबन्धकत्वं यच्च तन्निरूपितप्रतिवध्यत्वं तयोरवच्छेदिकाऽपि, एवं तदभाववत्ताबुद्धिं प्रति तद्वत्ता निश्चयस्य यत् प्रतिबन्धकत्वं यच तन्निरूपित प्रतिबध्यत्वं तयोरवच्छेदिकाऽपि, तत एव च 'विशेष्ये विशेषणम्' इति रीत्या यः शाब्दवोधोऽनन्वितान्वयबोधात्मा तस्यापि बाधवुद्धि प्रति प्रतिबध्यत्वं प्रतिबन्धकत्वं च सम्भवतः, अप्रामाण्यनिश्चयाभावकूट विशिष्टसंशयाभावस्य प्रतिबन्धकाभावविधया कार्यसहभावेन ताशप्रकारित्वावच्छिन्न प्रति नियामकत्वाश्रयणादेव यत्र व्याप्तिप्रकारकनिश्चयानन्तरं व्यायभावांशे आहार्यसंशायात्मको व्याप्तिविशिष्टवैशिष्टयावगाहिपरामर्शस्तत्र ततो नानुमित्यापत्तिः कार्यकाले निरुक्तसंशयस्यैव कार्यसहभावेन प्रतिबन्धकस्य भावादिति शङ्कते-नन्विति । तदवच्छिन्ने विशेष्ये विशेषणमिति ज्ञानसाधारणप्रकारित्वावच्छिन्ने, अस्य 'निया. मकस्य' इत्यनेनान्वयः, तच 'संशयाभावस्य' इत्यस्य विशेषणम्, 'संशयाभावस्य' इत्यस्य 'लघुत्वाद्' इत्यत्रान्वयः । इयमेव विशेध्ये विशेषणमिति ज्ञानसाधारणप्रकारितेच, 'बाधादि' इत्यादिपदात् तद्वत्तानिश्चयादः प्रतिबन्धकान्तरज्ञानस्य चोपग्रहः । अत एव निरुक्तप्रकारिताया बाधादिप्रतिबन्धकतायवच्छेदकत्वोपगमादेव । अत एव च निरुक्तप्रकारित्वावच्छिन्नेऽप्रामाण्यनिश्चयाभावकूट विशिष्टसंशयाभावस्य नियामकत्वादेव पुनः । तथाविधज्ञानात् विशेष्ये विशेषण मिति ज्ञानसाधारणप्रकारित्वावच्छिन्नपरामर्शात्मकज्ञानात् । तथाविधसंशयस्य अप्रामाण्यनिश्चयाभाचकूटविशिष्टस्य व्याप्त्यभावांशे आहार्यसंशयस्य। अप्रामायनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्तसंशयत्वेन प्रतिबन्धकत्वं तदभावत्वेन च कारणस्वमिति कल्पनापेक्षयाऽप्रामाण्य ज्ञानाभावविशिष्टाविशेषणतावच्छेदकप्रकारकनिश्चयत्वेन कारणत्वस्यैव लाघवादौचित्यम् , विशिष्टवैशिष्टयविषयता च 'अभावबोधो हि विशिष्टवैशिष्टयावगाहिमर्यादा नातिशेते' इति नियमबलादभावबोधे सिद्धा, तत्र विशे. षणतावच्छेदकीभूतप्रतियोगितावच्छेदकप्रकारकनिश्चयस्य यत् कारणत्वं क्लुप्तं तस्य कार्यकोटावभावांशमप्रवेशस्यैव विशिष्टवैशिष्टयावगाहिबोधत्वावच्छिन्ने युक्तत्वमिति समाधते-नेति । प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य' इत्यस्य 'हेतुत्वम्' इत्यनेनान्वयः, अभावांशाप्रवेशेनेति- 'प्रतियोगितावच्छेदकविशिष्टस्याभावेन सह वैशिष्ट्यावगाहिप्रत्यक्षे' इत्यत्रा. भावेन सहेत्यनुक्त्वा प्रतियोगितावच्छेदकविशिष्टस्य वैशिष्टयज्ञान इत्युक्तौ लाघवं व्यक्तमेव । तादृशज्ञान एवं प्रतियोगितावच्छेदकविशिष्टवैशिष्टयज्ञान एव तथा च प्रत्यक्षस्थाने ज्ञानस्यैव प्रवेशो विधेय इत्येतावता विशिष्टवैशिष्ट्यज्ञाने विशेषणतावच्छदकप्रकारकज्ञानस्य कारणत्वं 'यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि सः' इति न्यायादायाति, यतः