________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । झानत्वेनैव हेतुत्वमाहुः, तदसत्-संशयसाधारणज्ञानस्य हेतुत्वेऽप्रामाण्यनिर्णयस्यैवोत्तेजकतया निर्णयत्वेन हेतुत्वे चाप्रामाण्यज्ञानस्यैव तथात्वे निर्णयत्वेन हेतुत्वकल्पनाया एवोचितत्वाद्, अन्यथा विशेषणतावच्छेदकप्रकारकज्ञानीयनिर्णयत्वापेक्षया गुरुशरीरस्याप्रामाण्यज्ञाननिर्णयत्वस्य निवेशेन महागौरवप्रसङ्गात् , अथ विशेषणतावच्छेदकसंशयकाले तत्र चाप्रामाण्यशङ्कायां भवन्मत इव ममापि विशिष्टवैशिष्ट्यबोधो न जायत इत्यप्रामाण्यज्ञानत्वावच्छिन्नामावस्यैव निवेशे क दोष इति चेत् ? एवमपि संशयसाधारणज्ञानस्य विशिष्टवैशिष्ट्यबोधहेतुत्वे अनुमित्यादिकं प्रति परामर्शहेतुत्वे व्यायाधेशे निर्णयत्वनिवेशे महान स्वकार्य कार्यान्तरं वा कुर्यात् प्रतिबध्नीयाद् वा, तत्राप्रामाण्यसंशय तु तदधीनो विषयसंदेह एच, न तद्वैपरीत्यमिति स्वविषयसंशयात्मकत्वं तस्याक्षुण्णमेवेति तदात्मनस्तस्य स्वकार्यकरणसामथ्र्य कार्यान्तरप्रतिबन्धनसामथ्र्य च समस्त्येवेत्यप्रामाण्यसंशयस्याकिञ्चित्करत्वान्न तत्रोत्तेजकत्वम्, यत्र तु निर्णयस्यैव कारणत्वं प्रतिबन्धकत्वं वा, तत्राप्रामाण्यज्ञानस्याप्रामाण्यज्ञानत्वेनैवोत्तेजकत्वम्, अर्थादप्रामाण्य ज्ञानानास्कन्दितस्यैव तस्य कारणत्वं प्रतिबन्धकत्वं वा, यतस्तत्राप्रामाण्यसंशये अप्रामाथ्यनिर्णये वा सति तस्थ स्वविषये सन्दिग्धत्वस्य परीत्यस्य वा प्राप्तौ निर्णयरूपता तस्य स्वविषयादतीति निर्णयात्मना तस्य न स्वकार्यकारित्वं कार्यान्तरप्रतिबन्धकत्वं वेति, एवं च प्रकृते विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवेशिष्टधावगाहिबुद्धि प्रति कारणत्वे तत्राप्रामाण्यनिर्णयत्वेनैवाप्रामाण्यज्ञानस्योत्तजकत्वमिति गौरवम् , विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वे तु अप्रामाण्यज्ञानत्वेनवोत्तेजकत्वमिति लाघवम्, ततो विशेषणतावच्छेदकप्रकारकनिर्णयत्वस्यैव प्रकृतकार्यकारणत्वावच्छेदकत्वं युक्तमतः केषाश्चिन्मतं न युक्तमित्याह-तदसदिति । तथात्वे उत्तेजकत्वे । अन्यथा निर्णयत्वस्य कारणतावच्छेदककोटावनिवेश्य तत्स्थाने ज्ञानत्वस्य निवेशे । विशेषणतेति- विशेषणतावच्छेदकप्रकारकनिर्णयत्वं विशेषणतावच्छेदकाभावाप्रकारकत्वे सति विशेषणतावच्छेदकप्रकारकज्ञानत्वम् , तदपेक्षया तदभाववनिष्ठविशेष्यतानिरूपिततनिष्टप्रकारताकत्वलक्षणाप्रामाण्याभावाप्रकारकत्वे सति निरुक्ताप्रामाण्यनिष्ठप्रकारताकरलक्षणाप्रामाण्यज्ञाननिष्टनिर्णयत्वस्योत्तेजककोटौ विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षे प्रविष्टस्य गुरुत्वं सुव्यक्तमेवातो महागौरवप्रसङ्गादप्रामाण्यज्ञानानास्कन्दितविशेषणतावच्छेदकप्रकारकनिर्णयत्वेनैव विशिष्टवैशिष्ट्यावगाहियुद्धि प्रति कारणत्वं न तु अप्रामाण्यनिर्णयानास्कन्दितविशेषणतावच्छेदकप्रकारकज्ञानत्वेनेति । ननु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षेऽप्यप्रामाण्य ज्ञानत्वेनैवो. त्तेजकत्वम् , यथा विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वपक्षे विशेषणतावच्छेदकप्रकारकनिर्णये अप्रामाण्यशङ्कायो ततो विशिष्टवैशिष्टयावगाहिज्ञानं न जायते तथा विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षेऽपि विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यशङ्कायां ततो विशिष्टवैशिष्टयावगाहिबोधो न जायत एवेति तत्त्वेन कारणत्वपक्षेऽपि न गौरवमित्याशङ्कते- अथेति । तत्रच विशेषणतावच्छेदकसंशये च ! भवामत इव विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वमिति मते विशेषणतावच्छेदकप्रकारकनिर्णयेऽप्रामाण्यशङ्कायामिव । ममापि विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वमित्यभ्युपगन्तुमतेऽपि । निवेशे विशेषणतावच्छेदकप्रकारकज्ञाननिष्ठकारणतावच्छेदकतया निवेशे। विशिष्टवैशिष्टयबोधं प्रति विशे. षणतावच्छेदकप्रकारकनिर्णयस्य हेतुत्वे अनुमिति प्रति हेतुत्वेनाभिमतस्य परामर्शस्य विशिष्टवैशिष्टयावगाहिबोधात्मकस्य कारण विशेषणतावच्छेदकीभूतव्याप्तिप्रकारकनिर्णय एवेति ततो जायमानस्य न व्याप्यंशे संशयरूपता, व्याप्त्यभावप्रकारकज्ञानं प्रति व्याप्तिप्रकारकनिश्चयस्य प्रतिबन्धकत्वेन व्याप्तिप्रकारकनिर्णयोत्तरजापमानज्ञाने व्याप्यभावप्रकारकत्वासम्भवादित्येतावतैव परामर्शी व्याप्त्यंशे निर्णयरूप एवेति, यद्यपि अनाहार्याप्रामाण्य ज्ञानानास्कन्दिततद्वत्तानिश्चयस्यैव तदभाववत्ताबुद्धिं प्रति प्रतिबन्धकत्वमित्याहार्यव्याप्तिप्रकारकनिश्चये सत्यपि तदनन्तरजायमानज्ञाने व्याप्त्यभावप्रकारकत्वं सम्भवति, तथापि विशेषणतावच्छेदकप्रकारकनिश्चयस्यानाहार्यप्रामाण्यज्ञानानास्कन्दितस्यैव विशिष्टवैशिष्टयबोधतुम मिति विशिष्टवैशिष्ट्यावराहिपरामर्शहेतुतयाऽऽदरणीयस्य व्याप्तिलक्षणविशेषणतावच्छेदकप्रकारकनिर्णयस्यानाहार्यत्वमेवेति, न तदनन्तरं व्याप्तिप्रकारकसंशयसम्भव इति अनुमिति प्रति परामर्शस्य हेतुत्वे व्याप्यंशे निश्चयत्वं न निवेश्यते, विशेषणतावच्छेदकप्रकारकज्ञानस्वेन संशयसाधारणधर्मेण कारणत्वपक्षे तु व्याप्तिरूपविशेषणतावच्छेदकप्रकारकसंशयादपि निरुक्तपरामर्शस्य सम्भवेन व्यायंशे संशयरूपस्यापि तस्य सम्भवेन ततोऽनुमित्युत्पत्तिवारणाय व्यायंशे निर्णयात्मकत्वं तस्य कारणतावच्छेदककोटौ निवेशनीयमिति गौरवं स्यादिति समाधत्ते-एवमपीति- विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यसंशयदशायां विशिष्टवैशिष्टयबोधोत्पादस्यान
१३