________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
प्रकारकनिर्णयस्य हेतुत्वादिति चेत् ? एवमप्यनुमिती स्वातन्त्र्येणैव हेतुत्वम् , अनुमितिसाधारणजन्यतावच्छेदकत्वे नित्यव्यावर्तनाय जन्यत्वनिवेशस्यावश्यकत्वे मिथोविशेषणविशेष्यभावे विनिगमनाविरहेण नानाकार्यकारणभावस्यावश्यकत्वादवच्छेदकगौरवाच' इत्याहुः।
परे तु-"अनुभवत्वादिकमनिवेश्य विशिष्ट्वैशिष्ट्य विषयतावत्वमेव तदवच्छेदकम् , विशेषणताव. च्छेदकप्रकारकज्ञानशून्यकालीनस्मरणे ईश्वरज्ञाने च 'विशेष्ये विशेषणम्' इत्येतादृशविषयतामात्रमभ्युपेयते, अतो न व्यभिचारो नवा नित्यसाधारणम्" इत्याहुः ।
केचित् तु विशेषणतावच्छेदकसंशयकाले विशिष्टवैशिष्ट्यबोधं स्वीकृत्य विशेषणतावच्छेदकप्रकारकप्रत्यक्षा-ऽनुमितिसाधारणम्, तच नित्यप्रत्यक्षसाधारणत्वान्न कार्यतावच्छेदकम् , जन्यानुभवमात्रवृत्तिजातिविशेषच नाभ्युपगन्तुं शक्यः, प्रत्यक्षवाभाववत्यनुमितौ तस्य सत्त्वं तदभाववति नित्यप्रत्यक्षे प्रत्यक्षत्वस्य सत्त्वमित्येवं परस्परात्यन्ताभावसामानाधिकरग्ये सति तयोर्जन्यप्रत्यक्षे विद्यमानत्वेन प्रत्यक्षत्वेन साङ्कर्यात्, किन्तु जन्यत्वे सति विशिष्टवैशिष्ट्यावगाानुभवत्वं तदुभयसाधारणं विशेषणतावच्छेदकप्रकारकनिर्णयकार्यतावच्छदकं वाच्यम्, तत्र यथा जन्यत्वं सामानाधिकरण्यसम्बन्धेनानुभवत्वस्य विशेषणं तथाऽनुभवत्वमपि सामानाधिकरण्यसम्बन्धेन जन्यत्वस्थ विशेषणं सम्भवत्येव, न चात्र विनिगमकं किञ्चिद् येन जन्यत्वविशिष्टमनुभवत्वमेव निरुक्तजन्यावच्छेदक नानुभवत्वविशिष्ट जन्यत्वं तथेति गुरुधर्मावच्छिन्नकार्यकारणभावद्वय प्रसङ्ग इत्यतोऽनुमितेविशिष्टवैशिष्ट्यागाहिन्या यद् विशेषणतावच्छेदकपाकारकनिर्णयजन्यत्वं तदवच्छेदकमन्यदेव, तदन्यदेव च विशिष्टवैशिष्ट्यावगाहिप्रत्यक्ष विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमिति- समाधत्ते- पवमपीति- अनुमितेविशिष्टवैशिष्ट्यावगाहित्वेन विशेषणतावच्छेदकप्रकारकनिर्णयजन्य - त्वेऽपीत्यर्थः । स्वातन्त्र्येणचेति- विशिष्ट वैशिष्टयावगाह्यनुमितित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वमित्यर्थः। नन्वेवमुक्तानुमिति प्रति पृथकारणत्वं पृथक् च प्रत्यक्षविशेष प्रति कारणत्वमित्येवं गौरवं स्यादतोऽनुमितिसाधारणधर्मस्य कार्यतावच्छेदकत्वमुररीकृत्येक कारणत्वकल्पनमेव न्याय्यमित्यत आह- अनुमितीति- अनुमितिसाधारणधर्मस्य विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकत्व इत्यर्थः । नित्यव्यावर्तनाय नित्य प्रत्यक्षे कार्यतावच्छेदकधर्मस्य व्यावर्तनाय । जन्यत्वनिवेशस्य जन्यत्वे सति विशिष्टवैशिष्टयावगाहनुभवत्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येवं कार्यकारणभावक्लप्तौ कार्यतावच्छेदककोटौ जन्यत्वनिवेशस्य । मिथोविशेषणविशेष्यभाव इति- सामानाधिकरण्यसम्बन्धेन जन्यत्वविशिष्टनिरुक्तानुभवत्वं प्रकृतकार्यतावच्छेदकयुक्तानुभवत्व विशिष्टं जन्यत्वं वा तथेत्येवं विशेषणविशेष्यभावे । नानाकार्यकारणभावः स्वातन्त्र्येणानुमितित्वस्य कार्यतावच्छेदकत्वेऽप्यत आह- अवच्छेदकगौरवाञ्चेति । विशिष्टवैशिष्टयविषयतावत्त्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येकविध एव कार्यकारणभावः, विशिष्टवैशिष्ट्यविषयतावत्त्वं यथा प्रत्यक्ष विशेषे तथाऽनुमितावपीति, ईश्वरप्रत्यक्षं विशेषणतावच्छेदकप्रकारकशानशून्यकालीनं स्मरणं च 'विशेष्ये विशेषणम्' इति रीत्यैवोपयत इति तन्न विशिष्टवैशिष्टयविषयतावत्त्वस्याभावादेव व्यभिचाराप्रसक्तावीश्वरप्रत्यक्षव्यावर्तनाय जन्यत्वस्य स्मरणव्यावर्तनायानुभवत्वस्य कार्यतावच्छेदककोटौ न निवेश इति परेषां मतमुपदर्शयति-परे स्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । 'अनिवेश्यम्' इत्यस्य स्थाने 'अनिवेश्य' इति पाठो युक्तः । तदवच्छेदकं विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकम् । अत: ईश्वरज्ञाने निरुतस्मरणे च विशिष्टवैशिष्टयविषयतावत्वाभावात् ।
'दण्डो रक्तो नवा' इति संशयानन्तरं रक्तदण्डवान्' इति ररुत्वविशिष्टदण्डवैशिष्टयावगाहिबुध्यनुत्पत्तावेव विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन विशिष्टवैशिष्टयावगाहिबुद्धि प्रति कारणत्वमभ्युपेयम्, न चैवम् , उक्तसंशयानन्तरमपि विशिष्टवैशिष्टयावगायुक्तबुद्धिरुत्पद्यत एवेति विशिष्टवैशिष्ट्यावगाहिबुद्धि प्रति विशेषगतावच्छेदकप्रकारकज्ञानत्वेनैव कारणत्वं लाघवादुपेयते, अथवा लाघवाद् विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टपावगाहिबुद्धि प्रति कारणत्वे व्यवस्थिते विशेषणतावच्छेदकप्रकारकसंशयकालेऽपि विशिष्टवैशिष्टयावसाहिबोधः स्वीक्रियत इति केषाचिन्मत प्रतिक्षेप्तुमुनन्यस्यतिकेचित् तिवति-अस्य 'आहः' इत्यनेनान्वयः। अत्र संशयस्य ज्ञानत्वादिना कारणत्वं प्रतिबन्धकत्वं वा, तत्राप्रामाण्यज्ञानस्य निर्णयत्वेनैवोत्तेजकत्वम्, अर्थात् अप्रामाण्यनिर्णयानास्कन्दितस्येव ज्ञानस्य कारणत्वं प्रतिबन्धकत्वं वा, यतोऽग्रामाण्य. निर्णये सति तज्ज्ञानविषयस्य परीत्यं सुनिश्चितं भवतीति तज्ज्ञानं स्वविषयस्य संशयात्मना निर्णयात्मना चाव्यवस्थिती