________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१०१
च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेनैव, तेन ‘एको द्वयम्' इति रीत्या 'दण्डो रक्कोऽयं मेयश्च' इति झाने न व्यभिचारः, तत्र दण्डत्वविशिष्टविशेष्यताया रक्तवानवच्छिन्नत्वेन रकत्वं धर्मितावच्छेदकीकृत्य प्रमेयस्वादिबाधकालेऽपि तथाविधज्ञानापत्तिरिति तादृशविशेष्यताया रक्तवावच्छिन्नत्वमावश्यकमिति वाच्यम् , एकस्या अपि प्रमेयत्वादिप्रकारतानिरूपित्तदण्डत्वावच्छिन्नविशेष्यताभिन्नाया एव रक्तत्वावच्छिन्नविशेष्यताया अभ्युपगमात् , एकस्या विशेष्यताया रक्तदण्डत्वोभयानवच्छिन्नत्वेनाव्यभिचारात् तत्रापि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये 'दण्डो रक्तः प्रमेयः' इत्येतादृशबोधे विशेष्यकप्रमेयत्वादिप्रकारकज्ञानमात्रमेव 'रक्तो दण्डः' इति निर्णयात्मक ज्ञाने सत्येव भवतीति तस्मिज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताशालिनिर्णयत्वं समस्तीति तद्रपेण तस्य कारणत्वं निर्वहति, यदि तादृशकारणतानिरूपितकार्यता रक्तत्व विशिष्टदण्डवावच्छिन्नविशेष्यतानिरूपितप्रमेयत्वनिष्ट प्रकारताशालिज्ञानत्वेन, तदा 'रक्तदण्डो वाच्यः' इत्यादिज्ञानानां निरुक्तकार्यतावच्छेदकधर्मानाकान्तत्वान्न तानि प्रति 'रक्तो दण्डः' इति निर्णयस्य कारणत्वं स्यात् , यदि च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यतानिरूपितवाच्यत्वनिष्टप्रकारताशालिज्ञानत्वादिनाऽपि कार्यत्वं तदा कार्यतावच्छेदकभेदेनानन्तकार्यकारणभावप्रसङ्ग इति प्रकारताविशेषानन्तर वेणैव कार्यतावच्छेदकधर्ममुपदर्शयति- कार्यता चेति । एवकारेण रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेन कार्यत्वस्य व्यवच्छेदः । तद्वयवच्छेदप्रयोजनमुपदर्शयति-तेनेति- अस्य 'न व्यभिचारः' इत्यनेनान्वयः । 'एको द्वयम्' इति रीत्येति- 'दण्डो रक्तोऽयं मेयश्च' इति दण्डे रक्तत्वं मेयत्वं च प्रकार इति एको दण्डो रक्तप्रमेयोभयरूप इति ‘दण्डो रक्तोऽयं मेयश्च' इति ज्ञानं भवति 'एको दूयम्' इति रीत्येति, यद्येवकारेणोक्तव्यवच्छेदो न क्रियते तदा 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञानमपि रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वलक्षणकार्यतावच्छेदकाकान्तमिति तद् दण्डो रकः' इति निर्णयं विनाऽपि भवतीति व्यतिरेकव्यभिचारः स्यात्, रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताया एव कार्यतावच्छेदककोटौ प्रवेशे चोक्तज्ञानस्य निरुक्तका र्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचारः इत्यर्थः । निरुक्तज्ञानस्योक्तकार्यतावच्छेदकधर्मानाकान्तत्वावयोधनायाह-तत्रेति- 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञाने इत्यर्थः । 'रक्तस्वानवच्छिन्नत्वेन रक्तत्वम्' इति स्थाने 'रक्तत्वानवच्छिन्नत्वात् , न च रक्तत्वम्' इति पाठो युक्त: 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञाने दण्डवविशिष्टविशेष्यताया रक्तत्वावच्छिन्नत्वाभाव तज्ज्ञानं प्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्वावछिन्नविशेष्यताकत्वाभावाद् 'रक्तो न प्रमेयः' इत्याकारकस्य रक्तत्वावच्छिन्नविशेष्यतानिरूपित प्रमेयत्वाभावनिष्टप्रकारताकबाधनिर्णयस्य प्रतिवध्यत्वाभावात् तत्कालेऽप्यापद्ये तेत्यतस्तज्ज्ञाने दण्डत्वविशिष्टविशेष्यतायां रक्तत्वावच्छिन्नत्वं स्वीकरणीयमित्याशङ्कय प्रतिक्षिपति-ने चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः, । तथाविधज्ञानापत्तिः 'दण्डो रत्तोऽयं प्रमेयश्च' इति ज्ञानापत्तिः । तादृशविशेष्यतायाः प्रमेयत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतायाः । निषेधे हेतुमाह- एकस्या अपीति- एतत्स्थाने 'एतस्या अपि इति पाठो युक्तः, प्रमेयत्वनिष्ठप्रकारतानिरूपिताया अपीत्यर्थः । 'दण्डो रक्तोऽयं प्रमेयश्च' इति ज्ञाने एका मेयत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यता, द्वितीया मेयत्वनिष्ठप्रकारतानिरूपितर तत्वावच्छिन्नविशेष्यता, तथा चोक्तज्ञानस्य 'रकोऽयं न प्रमेयः' इति बाधनिश्चयनिष्टप्रमेयत्वाभावनिष्टप्रकारतानिरूपितरकत्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रति. बन्धकतानिरूपित प्रमेयत्वनिष्टप्रकारतानिरूपितरक्तत्वावच्छिन्न विशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यताशालित्वान्नोतबाघदशायामापत्तिरित्यर्थः, एवं च 'दण्डो रक्तोऽयं प्रमेयः' इति ज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताकनिर्णयत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकस्य रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताकबुद्धित्वस्याभावेन तस्य 'दण्डो रक्तः' इति निर्णयं विनाऽभावेऽपि न व्यभिचार इत्याह- एकस्या इति । ननु दण्डत्वविशिष्टरक्तत्वावच्छिन्नविशेष्यका प्रमेयत्वप्रकारकं यद् 'दण्डो रक्तो प्रमेयः' इति ज्ञानं तदपि रक्तत्व-दण्डत्वोभयावच्छिन्न विशेष्यताशालिज्ञामत्वरूपकार्यतावच्छेदकधर्माकान्तं भवति, जायते च तत् दण्डत्वनिष्टप्रकारतानिरूपितरक्तस्वावच्छिन्नविशेष्यताशालिनिर्णयाद् 'दण्डरकः' इत्याकारकात्, न तु दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताकनिर्णयाद् 'रक्तो दण्डः' इत्याकारकादिति तत्र व्यभिचार इत्यत आह-तत्रापीति- निरुक्तकार्यकारणभावेऽपीत्यर्थः । तादृशविशेष्यतायामितिरक्तत्व-दण्हत्वोभयावच्छिन्नविशेष्यतायामित्यर्थः । 'विशेष्यताभिन्नत्वम' इत्यत्र विशेष्यताऽभिन्नत्वमित्याकारप्रश्लेषः, रकप्रकारतेत्यस्य 'रक्तत्वनिष्ठप्रकारतेत्यर्थः, तथा च रक्तत्वनिष्टप्रकारतानिरूपित दण्डत्वावच्छिन्न विशेष्यत्वाभिन्ना या