________________
१००
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
संशयाकार एव सः, 'रको दण्डो नवा' इति संशयकालीनो रक्तदण्डवान् इति प्रात्यक्षिकबोध इव रक्तत्त्वांशे इति द्रष्टव्यम् ।
इदं तु बोध्यम्-किञ्चिद्धर्मावच्छिन्ने यद्विशेषणतावच्छेदकं तत्प्रकारकनिश्चयत्वेनैव हेतुत्वम् , अन्तरा धम्मितावच्छेदकानियन्त्रितस्थले 'दण्डवद्' इत्यादौ तु दण्डत्वादिप्रकारकज्ञानत्वेनैव निर्मितावच्छेदकनिश्चयत्वस्य दुर्वचत्वात् तत्प्रवेशवैयथ्याच्चेति ।
'विशिष्टवैशिष्ट्यम्' इति बुद्धित्वं तु रक्तत्वदण्डत्वोभयधर्मावच्छिन्नविशेष्यतानिरूपितप्रकारताशालिबुद्धित्वम्, कारणता च तत्र दण्डत्वावच्छिन्नविशेष्यतानिरूपितर तत्वप्रकारताशालिनिर्णयत्वेन, कार्यता व्यापकत्वस्य विशेषणत्वे त्वित्यर्थः । सः फलीभूतसन्देहः। यत्र विशेषणतावच्छेदकप्रकारकसन्देहस्तत्र तद्गतज्ञानं 'विशेष्ये विशेषणम्' इति रीत्या भवतीत्यत्र दृष्टान्तमाह- 'रक्तो दण्डो नवा' इतीति--रक्तत्वप्रकारकदण्डविशेष्यकज्ञानानन्तरं जायमानो रक्तदण्डवानिति प्रात्यक्षिकबोधो यथा धयंशे दण्डं तत्र च रक्तत्वमित्येवमवगाहमानो 'विशेष्ये विशेषणम्' इति रीत्या भवतुं न तु रक्तत्वविशिष्टदण्डस्य वैशिष्टयावगाही तथा हेतौ साध्यध्यापकोपाधिव्यभिचारसन्देहोऽपि व्यभिचारे उपाधिमुपाधौ साध्यव्यापकत्वमित्येवमवगाहमानो विशेष्ये विशेषणमिति रीत्या भवति न तु साध्यव्यापकत्वविशिष्टोपाधेय॑भिचारे वैशिष्टयावगाहीति विशिष्टवैशिष्टधावगाहिबोधत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तस्य तस्य साध्यव्यापकत्वरूपविशेषणतावच्छेदकप्रकारकनिश्चयं विना भावेऽघि न व्यभिचार इत्यर्थः ।।
यत्र कमपि धर्म धर्मितावच्छेदकीकृत्य विशिष्टस्वरूपविशेषणसन्निविष्टं विशेषणं विशेषणेऽवगाहते विशिष्टवैशिष्टयबुद्धिस्तत्र यद्धविच्छिन्ने यो विशेषणीभवन् विशेषणतावच्छेदको भवति तद्धर्मावच्छिन्नविशेष्यकतद्धर्मप्रकारकनिश्चयत्वेनैव तादृश विशिष्टवैशिष्टयबुद्धिं प्रति कारणत्वम् , यद् विशिष्टस्वरूप तु नैक धर्म धर्मितावच्छेदकीकृत्यापरधर्मवैशिष्ट्यतो निष्पन्नस्वरूपं किन्त्वेकधर्मवद्रपतया प्रतिभासमानतयैव विशिष्टं तद्वैशिष्टयबुद्धिं प्रति कञ्चिद्धर्मितावच्छेदकमनिवेश्यैव विशेषणतावच्छेदकप्रकारकज्ञानत्वेनैव हेतुत्वं न तु तथाविधबुद्धि प्रति विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम् , तदभावनिष्टप्रकारवानिरूपित तनिष्ठप्रकारतानिरूपितकिच्चिद्धर्भावच्छिन्नविशेष्यताकज्ञानत्वमेव तनिश्चयत्वं तत्संशयत्वविरुद्ध सधर्मिताव. च्छेदकज्ञानगतमेव, निर्मितावच्छेदकज्ञानगतं तु निश्चयत्वं तु निर्वतुमशक्यम् , अत: संशयविरोधिज्ञानस्यैव निश्चयत्वम् , संशयश्वकधर्मिविशेष्यकविरुद्धभावाभावोभयप्रकारको नियमन सधर्मितावच्छेदक एव, तद्विरोधिज्ञानमपि सधर्मितावच्छेदकमेव भवितुमईति, एकधर्मविशिष्टवैशिष्टयावयाहि ज्ञानं च 'दण्डवद् इति ज्ञानम्', तच्च 'दण्डो न वा' इत्येवं संशयस्वरूपादपि दण्डत्वप्रकारकज्ञानादुत्पत्तुमर्हतीति तत्कारणावच्छेदककुक्षौ निश्चयत्वनिवेशनं विफलमपीति सूक्ष्मेक्षिकां स्वयं ग्रन्थकृदाहइदं तु बोध्यमिति । 'अन्तरा' इत्यादिकं न पूर्वेणान्वितं किन्तूत्तरेण, यस्य वैशिष्टयं विशिष्टवैशिष्टयतयाऽभिमतं तत् तस्य च तद् विशेषणं तयोर्मध्ये धर्मितावच्छेदको न यत्र समस्ति तादृशस्थले इत्यर्थः, तादृशस्थलमेवोपदर्शितम् 'दण्डवद्' इत्यादौ तु, इत्यनेन | तत्प्रवेशवयाश्च निश्चयत्वस्य कारणतावच्छेदककुक्षौ प्रवेशस्य वैयर्थ्याच्च, तथा च 'दण्डव' इत्याकारकदण्डत्वविशिष्टवैशिष्ट्य बुद्धौ विशेषणतावच्छेदकीभूतदण्डत्वप्रकारकज्ञानत्वेनेव हेतुत्वं न तु दण्डत्वप्रकारकनिर्णयत्वेन, 'रक्तदण्डवान्' इत्यादौ तु किञ्चिद्धर्मावच्छिन्ने दण्डत्वावच्छिन्ने रक्तत्वं विशेषणत्वाद् विशेषणतावच्छेदकमतो दण्डत्वावच्छिन्नविशेष्यकरक्तत्वप्रकारकनिर्णयो 'रक्तदण्डत्वान्' इति विशिष्टवैशिष्ट्यावगाहिबुद्धिहेतुरित्यर्थः ।
विशिष्टवैशिष्ट्यबुद्धेश्चत्वारो भेदा नैयायिकाभिमताः, तत्र 'विशिष्ये विशेषणम्' इति रीत्या यो विशिष्टवैशिष्ट्यबुद्धिप्रकारः स उपवर्णित:- 'विशेध्ये विशेषणम्' इति रीत्या बुद्धिवं 'रक्तवाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्नप्रकारताकबुद्धित्वम् इत्यादिना प्रन्थेन, 'विशिष्टस्य वैशिष्टयम्' इति यो विशिष्टवैशिष्टयबुद्धिप्रकारः स व्यावर्णितः-विशिष्टवैशिष्टयबुद्धित्वं तु रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारताकयुद्धित्वम्' इत्यादिग्रन्थेन, इदानीम् 'एकविशिष्टेऽपरवैशिष्टयम्' इति रीत्या बोधलक्षणो यो विशिष्टवैशिष्ट्यबुद्धेः प्रकारस्तं व्यावयति- विशिष्टवैशिष्यबुद्धित्वं त्विति- अत्र 'विशिष्टे वैशिष्टयबुद्धित्वं तु' इति पाठो युक्तः । रक्तत्वेति- 'रक्तदण्डः प्रमेयः' इति ज्ञानं रफत्वविशिष्टदण्डे प्रमेयत्वस्य वैशिष्टयावगाहि. तत्र रक्तत्व-दण्डत्वोभयधर्मावच्छिन्ना या विशेष्यता मा रक्तदण्डमिष्ठविशेष्यता, तन्निरूपिता प्रकारता प्रमेयत्वनिष्ठप्रकारता, तच्छालिबुद्धित्वं तनिरूपकज्ञानत्वं समस्तीति लक्षणसङ्गतिः । तत्र कीदृशः कार्यकारणभाव इत्यपेक्षायामाह-कारणता चेति । तत्र 'विशिष्ट वैशिष्टम्' इति बुद्धिस्थले। 'रक्तदण्डः प्रमेयो रक्तदण्डो वाच्यो रक्तदण्डो द्रव्यम्' इत्येव रकत्वविशिष्टदण्ड