Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
रक्त दण्डत्वे च पर्याप्ता, 'रक्तन दण्डत्वेन चामुमत्र जानामि' इति प्रतीतेः, व्यधिकरणस्याप्यवच्छेदकता. वच्छेदकत्वादिकं 'रजतम्' इत्यादि 'पीतशङ्खवद्' इत्यादिभ्रमवदविरुद्धम् , साऽवच्छेदकता तत्तद्धर्माशे समानाधिकरण-व्यधिकरणतत्तत्सम्बन्धावच्छिन्ना, तत्तन्निरूपितबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वम् , 'वह्निश्रितव' इत्येवकारेण प्रकारतायां रक्तत्वविशिष्टदण्डाश्रितत्वस्य व्यवच्छेदः, तेन विशिष्टपर्याप्तप्रकारताकबुद्धित्वं विशिष्टचैशिष्टयबुद्धित्वमिति नाभ्युपगम्यते किन्तु विशेषणतावच्छेदकतयाऽभिमतधर्मपर्याप्तावच्छेदकताकप्रकारकताकबुद्धित्वमेव विशिष्टवैशिष्ट्यबुद्धित्वम् , 'विशेष्ये विशेषणं तत्र च विशेषणम्' इति रीत्या बोधं च विशेषणविशेषणे प्रकारत्वमेव न तु साक्षाद्विशेषणनिष्ठप्रकारताया अवच्छेदकत्वमिति ततो विशिष्टवैशिष्ट्यबोधस्य भेदः। रक्तदण्डवानिति ज्ञानानन्तरं तदनुव्यवसायस्य 'रक्तत्वेन दण्डत्वेन चमुमत्र जानामि' इत्येवं रूपेणोपजायमानत्ववतो रक्तत्वे दण्डत्वे च दण्डनिष्ठप्रकारतानिरूपितावच्छेदकता स्वीक्रियत इत्याह-रक्तनेति-अत्र रक्तपदं रक्तरूपपरम् , तेन रक्तरूपवत्त्वेनेति तदर्थः, अत्र तृतीयार्थोऽवच्छेदकत्वं तस्य 'अमुम्' इति द्वितीयार्थे कर्मत्वे प्रकारतारूपेऽन्वयः, सविषयकार्थकधातुसमभिव्याहृतद्वितीयार्थस्य कर्मत्वस्य विषयतारूपतयवागीकारात्, यद्यपि कारकविभक्त्यर्थस्य धात्वर्थक्रियायामेवान्वयो व्युत्पन्नस्तथाऽपि द्वितीयार्थप्रकारतानिरूपकत्वविशिष्टे धात्वर्थज्ञाने तृतीयाविच्छेदकतात्मकविषयताया निरूपकत्वेनान्वये द्वितीयार्थेऽपि तस्यान्वयो व्युत्पत्तिवैचित्र्यादाश्रीयते, द्वितीयाप्रकृतीदम्पदार्थदण्डस्याधयतया प्रत्ययार्थप्रकारतायामन्वयः, अत्रेति वल्प्रत्ययार्थो विशेष्यत्वम् , तस्यापि निरूपकतया धात्वर्थज्ञानेऽन्वयः, विशेष्यत्वे चेदमर्थस्य पुंस आधेयतयाऽन्वयः, एवं च रक्तदण्डवान्' इति ज्ञानानुव्यवसायाभिलापकाद् ‘रक्तेन दण्डत्वेन चामुमत्र जानामि' इति वाक्याद् 'रक्तरूपवत्त्वनिष्ठावच्छेदकतानिरूपितदण्डस्वनिष्ठावच्छेदकतानिरूपितेदमर्थदण्डनिष्ट प्रकारतानिरूपकेदमर्थपुरुषनिष्ठविशेष्यतानिरूपकज्ञानवान्' इति प्रतीतेर्दण्डनिष्ठप्रकारतानिरूपितावच्छेदकत्वस्य रक्तत्व-दण्डत्योभयपर्याप्तस्य सिद्धेः, यद्यपि दण्डत्वनिष्ठावच्छेदकता दण्डत्वमात्रवर्तिनी न रक्तत्वे वर्तते, रक्तत्वनिष्ठावच्छेदकता च रक्तत्वमात्रवर्तिनी न दण्डरवे वर्तत इति नैकस्या अवच्छेदकताया रक्तत्व- दण्डवोभयपर्याप्तत्वम् , तथापि प्रत्येकं भिन्नाऽपि सा दण्डनिष्टप्रकारतानिरूपितावच्छेदकतात्वेनैका भवतीति तद्रूपेणोभयपर्याप्तति स्थाद्वादमतेऽनेकस्यापि कथञ्चिदेकत्वमविरुद्धमिति बोध्यम् । यद्यपि वहिन्याप्यत्वं वह्नयभाववदवृत्तित्वं स्वव्यापकवह्विसामानाधिकरण्यलक्षणं वा नेन्धने समस्ति तथापि व्यधिकरणधर्म. विधयैव वहिव्यातेरिन्धननिष्ठप्रकारताया अवच्छेदकत्वम्, धर्मिणि प्रकारीभूते वेन्धने सामानधिकरण्यद्वारा विशेषणीभूते वह्विस्वे याऽवच्छेदकता तस्या व्यधिकरणधर्मविधयेन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वस्यावच्छेदकत्वं भविष्यतीत्यतो 'वहिव्याप्येन्धनवान्' इति विशिष्टवैशिष्टयबोधस्याप्युपपत्तिरित्याह-व्यधिकरणस्यापीति । 'अवच्छेदकतावच्छेदकतादिकम्' इति स्थाने 'अवच्छेदकत्व-तदवच्छेदकत्वादिकम्' इति पाठो युक्तः, तदवच्छेदकत्वम्अवच्छेदकतावच्छेदकत्वम् , आदिपदादवच्छेदकतावच्छेदकतावच्छेदकत्वादेरुपग्रहः । 'रजतम्' इत्यादीति- 'इदं रजतम्' इति भ्रमे पुरोवर्तियां शुक्तौ तादात्म्येन रजतस्य प्रकारत्वे व्यधिकरणस्य रजतस्य प्रकारत्वमेव, तदवच्छेदकं च रजतस्वं समानाधिकरणमेव, रजतत्वस्य समवायेन प्रकारत्वे तस्यापि व्यधिकरणस्य प्रकारत्वमेव, तच प्रकारत्वं निरवच्छिन्नमेवेति तनिरूपितावच्छेदकतैव नास्तीति तत्र व्यधिकरणस्यावच्छेदकत्वचचैव न सम्भवति, परन्तु व्यधिकरणस्य यथा प्रकारत्वं तथा प्रकारतावच्छेदकत्वमपि व्यधिकरणस्य सम्भवतीत्येतावन्मात्रेण तस्य दृष्टान्तता, पीतशतवद्' इति भ्रमे च शङ्खत्वाशेऽभ्रमरूपे पीतत्वांश भ्रमात्मनि शङ्खाशे पीतत्वस्य भाने शङ्खनिष्टप्रकारताया अवच्छेदकत्वं यथा व्यधिकरणस्य पीतत्वस्य तथाऽन्यत्रापि व्यधिकरणस्य प्रकारतावच्छेदकत्वम् , यदि च सामानाधिकरण्यसम्बन्धेन पीतत्वविशिष्टशङ्खत्व. स्यैव शङ्खनिष्टप्रकारताया अवच्छेदकत्वं तदा शङ्कनिष्टप्रकारतानिरूपितशतत्वनिष्टावच्छेदकताया व्यधिकरणस्य पीतत्वस्य यथाऽवच्छेदकत्वं तथाऽन्यत्रापि प्रकारतावच्छेदकत्वं व्यधिकरणस्य सम्भवतीति बोध्यम् । साऽवच्छेदकता प्रकारतानिरूपितावच्छेदकता। तत्तद्धर्माश इति- यत्र समवायन रक्तरूपदण्डवानिति बोधस्तत्र समवायसम्बन्धावच्छिन्ना दण्डनिष्टप्रकारतानिरूपिता रक्तरूपनिष्ठावच्छेदकता समानाधिकरणसम्बन्धावच्छिन्ना, यत्र तु संयोगेन स्वरूपेण वा रक्तरूपबद्दण्डवानिति ज्ञानं तत्र तारशी एकरूपनिष्ठाऽवच्छेदकता व्यधिकरणसंयोग-स्वरूपादिसम्बन्धावछिन्नेति । सत्तनिरूपितबुद्धित्वम्' इति स्थाने 'तत्तनिरूपित प्रकारताकबुद्धित्वम्' इति पाठो युक्तः, तस्य च समानाधिकरणसम्बन्धावन्छिना व्यधिकरणसम्बन्धावच्छिन्ना वा समानाधिकरणधर्मनिष्टा व्यधिकरणधर्मनिष्ठा वा याऽवच्छेदकता तन्निरूपितप्रकारतानिरूपकबुद्धित्वमित्यर्थः। विशिष्ट

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210