Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
परित्यज्योभयपर्याप्तप्रकारतानिवेशेन हेतुत्वस्वीकारे तु 'पर्वतो लौहित्याभाववान्' इति ज्ञानकाले 'लोहितवह्निमान्' इति विशिष्टवैशिष्ट्य बुद्ध्यनापत्तिः, 'पर्वतो न लोहितः' इति ज्ञानस्य लौहित्यप्रकारकपर्वतविशेष्यकज्ञान एवं प्रतिबन्धकत्वात् , न च रक्तत्वावच्छिन्नविशेष्यताकरक्तप्रकारकस्य 'रको रक्तः' इति स्मरणस्य प्रसङ्गस्तत्र तथानियस्य हेतुत्वादिति वाच्यम् , रक्तत्वावच्छिन्नविशेष्यतायास्तत्र रक्तत्वप्रकारतानिरूपितत्वेऽपि रक्तत्वावच्छिन्नविशेष्यतात्वेन तस्यास्ताशप्रकारतानिरूपितत्वानभ्युपगमात् , तेन रूपेण रक्तत्वप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताशालिज्ञानस्यैत्र 'रक्तो रक्तः' इत्याकारकस्मृतिजनकत्वस्याभावेन 'दण्डो रक्तः' इति निर्णयजन्तावच्छेदकोक्तधर्मानाकान्तत्वेनोक्तनिर्णयाभावे जायमाने तस्मिन् व्यभिचाराभावादिति समाधत्ते-नेति । ताशनिर्णयेति-स्क्तत्वनिष्टप्रकारताकदण्डस्वावच्छिन्नविशेष्यताकनिर्णयेत्यर्थः । उक्तस्थले 'दण्डरक्तवान् , इति बोधे । एवकारेण रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताया व्यवच्छेदः । ननु रक्तत्वदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारताकज्ञानत्वस्य रक्तत्वविशिष्टदण्डवैशिष्ट्यावगाहिबुद्धित्वस्वरूपत्वं यदुपेयते तत्र रक्तत्व-दण्डत्वोभयवत्पर्याप्त प्रकारताकवुद्धित्वस्वरूपत्वमेव तस्य किमिति नोपेयत इत्यपेक्षायामाह- उभयधर्मावच्छिन्नप्रकारतामिति'उभयपर्याप्तप्रकारताम' इति स्थाने 'उभयधर्मवत्पर्याप्त प्रकारताम्' इति पाठो युक्तः, तथा च स्क्तत्व-दण्डत्वोभयवत्पर्याप्तप्रकारताकबुद्धिस्वावच्छिन्नं प्रति रक्तत्वप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावोऽभ्युपगतः स्यात् , तथा च सति वही पहिस्वस्य सत्त्वेऽपि लौहित्याभावेन लौहित्या-वह्नित्वोभयवान् बहिर्न भवतीति 'लोहितवहिमान' इति ज्ञानं व्यधिकरणीभूतलौहित्यनिष्ठावच्छेदकतानिरूपितवाहित्वावच्छिन्नवहिनिष्टप्रकारतानिरूपकमपि लौहित्य. वह्नित्वोभयवत्पर्याप्त प्रकारतानिरूपक न भवतीति न 'लोहितो वह्निः' इत्याकारकलौहित्यलक्षणविशेषणतावच्छेदकप्रकारकवह्रिविशध्यकज्ञानकार्यमिति 'लोहितो वहिः' इति ज्ञानासत्त्वेऽपि 'लोहितवाहिमान्' इति ज्ञानमापद्यत, तदपि ज्ञान लौहित्यस्य विशिष्टबुद्धयात्मकमिति तत्र विशेषणज्ञानविधया लौहित्यज्ञानमपेक्षितमिति तत् पर्वत लौहित्याभावज्ञानार्थ प्रतियोगिज्ञानतयाऽपेक्षितं समस्त्येवस्याह-पर्वतो लौहित्याभाववान्' इति ज्ञानकाल इति- पर्वते यदि लौहित्यं स्यात् तहि सामानाधिकरण्यसम्बन्धेन तदेव वह्नौ विशेषणीभूय भासेतेत्यौपाधिकस्य लौहित्यस्य तत्र सम्भवे लौहित्य-वह्नित्वोभयवत्वमपि तत्र स्यादित्युभयधर्मवत्पर्याप्तप्रकारता सम्भाव्येतापि, न चैवमित्यावेदनायेस्थमुपन्यासः, 'विशिष्टवैशिष्टयबद्धघनापत्तिः' इति स्थाने विशिष्टवैशिष्ट्यबुद्धद्यापत्तिः' इति पाठो युक्तः, उभयधर्मावच्छिन्नप्रकाताकबुद्धित्वलक्षणविशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छदकप्रकारकनिश्चयस्य कारणत्वे तु व्यधिकरणधर्मस्यापि प्रकारतावच्छेदकत्वस्य स्वीकृतत्वेन 'लोहितवह्निमान्' इति ज्ञानस्य लौहित्यवह्नित्वोभयपर्याप्तावच्छेदकताकप्रकारताकज्ञानत्ववत्तया कार्यतावच्छेदकधर्माकान्तत्वेन 'लोहितो वह्निः' इति ज्ञानलक्षण. विशेषणतावच्छेदकप्रकारकनिर्णयरूपकारणाभावे नापत्तिसम्भव इत्याशयः । ननु 'लोहितवह्निमान्' इति ज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयकार्यत्वाभावेऽपि 'पर्वतो लौहित्याभाववान्' इति ज्ञानप्रतिवध्यतया न तज्ज्ञानरूपप्रतिबन्धककाले तदुत्पत्त्यापत्तिसम्भव इत्याह-'पर्वतो न लोहितः' इति ज्ञानस्येति । 'ज्ञान एव' इत्येवकारेण 'लोहितवहिमान्' इति ज्ञानस्य व्यवच्छेदः । ननु 'रक्तो दण्डः' इति ज्ञानं यथा रक्तत्वनिष्टप्रकारतानिरूपकं तथा रक्तत्वावच्छिन्नविशेष्यतानिरूपकमपि, विशेष्यतायां प्रकारावच्छिन्नत्वस्य स्वीकारेण दण्डत्वावच्छिन्नविशेष्यताया अपि रक्तत्वावच्छिन्नत्वात् , तथा च 'रक्तो दण्डः' इति ज्ञानं रक्तत्वनिष्ठप्रकारतानिरूपितरतत्वावाच्छन्नविशेष्यताकानुभवरूपमिति तेन 'रक्तो रक्तः' इत्याकारकस्य रक्तत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताकस्मरणस्यापत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने. नान्वयः । तत्र 'रको रक्तः' इति स्मरणे। तथा निर्णयस्य रक्तत्वनिष्ठप्रकारतानिरूपित रक्तत्वावच्छिन्नविशेष्यताकनिर्णयरूपानुभवस्य, कामं दण्डत्वावच्छिन्नविशेष्यता रक्तत्वरूपप्रकारावच्छिन्ना भवति, परन्तु दण्डत्वावच्छिन्नविशेष्यतात्वेन रक्तत्वनिष्ठप्रकारतात्वेनैव निरूप्यनिरूपकभावस्तत्रोपेयत, न तु रक्तत्वनिष्टप्रकारतात्वेन रक्तस्वावच्छिन्नविशेष्यतात्वेन निरूप्यनिरूपकभाव इति रक्तत्वनिष्टप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताकस्मरणं प्रति रक्तत्वनिष्ठप्रकारतात्वावच्छिन्ननिरूयकतानिरूपितरकत्वावच्छिन्नविशेष्यतात्वावच्छिन्ननिरूप्यतावविशेष्यताकनिर्णयत्वेनैवोक्तनिर्णयरूपानुभवस्य कारणत्वमिति न 'रको दण्डः' इत्यनुभवाद् 'रक्को रक्तः' इति स्मरणस्यापत्तिरिति निषेधहेतुमुपदर्शयति-रक्तत्यावच्छिन्नविशेष्यताया इतिरक्तत्वरूपप्रकारावच्छिन्नत्वेन रक्तस्वाच्छिन्नविशेष्यतात्मिकाया दण्डत्वावच्छिन्नविशेष्यताया इत्यर्थः । तत्र 'रको दण्डः' इति

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210