Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 120
________________ नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ती प्रत्यक्षत्वस्य तज्जन्यतावच्छेदकत्वे ' इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकपरामर्शाद् इतरभेदत्यप्रकारकज्ञानदशायामिव तच्छ्रन्यदशायामपि 'पृथिवी इतरभेदवती' इत्याकारकविशिष्ट वैशिष्ट्यविषयताशालिन्या अनुमितेरापत्तिः, सादृशानुमितावन्वयव्याप्तिज्ञानस्यैव हेतुत्वान्नापत्तिरित्युक्तौ च स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य सत्त्वे सादृशानुमित्यनुदयापत्तिः, न च पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीकारान्नेयमापत्तिः, साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेर्विरोधितया तत्र प्रबन्धकाभावाद् व्यतिरेकपरामर्शतः साध्यविशेष्यिका 'पृथिव्यामितरभेदः' इत्याकारिका 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिका च साध्यप्रकारिका 'विशेष्ये विशेषणम्' इति रीत्याऽनुमितिः स्यात् साध्यरूपविशेषणज्ञानमपि विशिष्टबुद्धिकारणं यद्यपेक्षितं तदपि प्रमेयत्वेनेतरभेदज्ञान काले समस्त्येव, साध्यतावच्छेदकप्रकारक सिद्धेरेव साध्यप्रसिद्धिविषया साध्यविशेष्यकानुमितिविरोधितया तस्याः प्रमेयत्वेन रूपेण साध्यज्ञानकालेऽभावात् यदि च साध्यज्ञानमेव साध्यसिद्धिरिति प्रमेयत्वेन तज्ज्ञानमपि साध्यसिद्धिर्भवत्येव, तर्हि इतरभेदत्वलक्षणसाध्यतावच्छेदकप्रकारकं यद् भेदान्तरविशेष्यकज्ञानं तन्न साध्यसिद्धिरिति तत्काले साध्यविशेष्यकानुमितिरिष्टैव स्यात् तदर्थं प्रतिबन्धककोटौ विशिष्य साध्यविशेष्यकत्वं निवेशनीयं भवेदिति गौरवं स्यात्, अत इतरभेदत्वप्रकारकज्ञानकाले व्यतिरेकपरामर्शादपि विशिष्टवैशिष्ट्या वगाह्यनुमितिरेव भवति न तु 'विशेष्ये विशेषणम्' इति रीत्या, एवं च तस्या विशेषणतावच्छेदकप्रकारक ज्ञान शून्यकाले आपत्तिवारणाय विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकमनुमितिसाधारणमेव स्वीकरणीयमिति शङ्कते - अथेति । विजातीयप्रत्यक्षत्वस्य जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्य । तज्जन्यतावच्छेदकत्वे विशेषणतावच्छेदकप्रकारक निर्णयजन्यतावच्छेदकत्वे । इतरव्यापकीभूतेतिपृथिवीतरव्यापकीभूतेत्यर्थः । व्याप्यतावच्छेदकसम्बन्धश्च तादात्म्यम् । तच्छ्रभ्यदशायामपि इतरभेदत्व प्रकारकज्ञानशून्यदशायामपि, अनुमितौ विशिष्टवैशिष्ट्या वगाहिन्यामपि विशेषणतावच्छेदकप्रकारक निर्णयस्याकारणत्वेन तत्सत्ताया अनावश्यक - त्वात् । तादृशानुमितौ 'पृथिवी पृथिवीतरभेदवती' इत्याकार कानुभितौ । 'अन्वयव्याप्तिज्ञानस्यैव, इत्येवकारेण व्यतिरेकव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिविशिष्ट हेतुमत्तापरामर्शस्य च तादृशानुमितौ कारणत्वस्य व्यवच्छेदः । ' स्वातन्त्र्येणेति- यत्र ' पृथिवीतरव्यापकीभूताभावप्रतियोगि पृथिवीत्ववती पृथिवी ' इत्याकारकव्यतिरेकपरामर्शः, परामर्शासन्निविष्टतयैव पृथिवीतरभेदत्वप्रकारकज्ञानं च तत्र 'पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितिरुत्पद्यमानाऽनुभूयते सा न स्यात् तां प्रति तदानीं विद्यमानम्य व्यतिरेक परामर्शस्याकारणत्वात्, तत्कारणतयाऽभिमतस्यान्वयव्याप्तिज्ञानस्य तदानीमभावादित्यर्थः । सारा ' इति स्थाने ' तादृश' इति पाठो युक्तः । तदानीं 'पृथिव्यामितरभेदः' इत्याकारिका आधेयतासम्बन्धेन पृथिवी प्रकारक पृथिवीतरभेद विशेष्यकैवानुमितिरेवोदयते इत्याशङ्कच प्रतिक्षिपति - न चेति । नेयमापत्तिरिति तदानीं पृथिवीविशेष्यकपृथिवीतरभेदप्रकार कानुमितेरनुपगमान्न तदनुत्पत्त्यापादनम् इष्टापत्तिरूपतया न दोषावहमित्यर्थः । साध्यविशेष्यकानुमितौ साध्य प्रसिद्धेर्विरोधित्वेन स्वातन्त्र्येणेतरभेदत्वप्रकारक ज्ञानस्य विरोधिनः सत्त्वे तदानीं साध्यविशेष्यकानुमित्युत्पादस्यासम्भवेन साध्यप्रकार कानुमित्युत्पादस्यैव स्वीकर्तुमुचितत्वेन तदनुमित्यनुत्पादापादनस्यानिष्टतयेष्टापादनत्वेन तत्परिहरणं कर्तुमशक्यमिति निषेधहेतुमुपदर्शयति- साध्य विशेष्य कानुमिताविति । तत्र इतरभेदत्वप्रकारकज्ञानकाले । तादृशानुमित्युत्पादासम्भवात् पृथिव्यामितरभेदविशेष्यकानुमित्युत्पादस्यासम्भवात् । तदानीं 'विशेष्ये विशेषणम्' इति रीत्या साध्यप्रकारिकाऽनुमितिरुपजायत इत्याशङ्कय प्रतिक्षिपति- न वेति । तत्र स्वातन्त्र्येणैत र भेदत्वत्रकारकज्ञानकाले । यदि विशेष्ये विशेषणम्' इति रीत्यैव पृथिवीत्तर भेदप्रकारिकानुमितिरुपेयते तदा तत्र विशेषणतावच्छेदकप्रकारकज्ञानस्य नापेक्षेति यदा स्वातन्त्र्येणापि पृथिवीतरभेदत्वप्रकारकज्ञानं नास्ति किन्तु केवलव्यतिरेकपरामर्श एवं विद्यते तदानीं साध्यविशेष्य कानुमितिप्रतिबन्धकसाध्यप्रसिद्धेरभावात् साध्यविशेष्यिकोक्तदिशा साध्यप्रकारिका चेत्युभयाकारानुमितिः स्यादिति निषेधहेतुमुपदर्शयति- तथा सतीति- विशेष्ये विशेषणमिति रीत्या साध्यप्रकार कानुमितेरभ्युपगमे सतीत्यर्थः । तादृशपरामर्शात् 'पृथिवीतर व्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् ननु विशेष्ये विशेषणमिति रीत्याऽनुमितिरपि विशिष्टबुद्धिर्भवत्येद, सा साध्यरूपविशेषणज्ञानजन्येति साध्यज्ञानाभावे कारणाभावान्नोत्पतुमर्हतीत्याशङ्कय प्रतिक्षिपति न वेति । नेयमापत्तिः पृथिवी पृथिवीतरभिन्ना' इत्याकार कानुमित्याप तिर्न सम्भवति । निषेधे हेतुमाह - एवमपीति - स्वातन्त्र्येण पृथिवीतरभेदत्व प्रकार कज्ञानशून्यकाले विशेषणज्ञानाभावात् साध्यप्रकारकज्ञानलक्षणसाध्यविशिष्टबुद्धयापादनासम्भवेऽपीत्यर्थः । तथाविधानुमितेः पृथिवी पृथिवीतरभिन्ना' इत्याकारिकायाः, ९४ 6 • "

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210