________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ती प्रत्यक्षत्वस्य तज्जन्यतावच्छेदकत्वे ' इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकपरामर्शाद् इतरभेदत्यप्रकारकज्ञानदशायामिव तच्छ्रन्यदशायामपि 'पृथिवी इतरभेदवती' इत्याकारकविशिष्ट वैशिष्ट्यविषयताशालिन्या अनुमितेरापत्तिः, सादृशानुमितावन्वयव्याप्तिज्ञानस्यैव हेतुत्वान्नापत्तिरित्युक्तौ च स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य सत्त्वे सादृशानुमित्यनुदयापत्तिः, न च पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीकारान्नेयमापत्तिः, साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेर्विरोधितया तत्र प्रबन्धकाभावाद् व्यतिरेकपरामर्शतः साध्यविशेष्यिका 'पृथिव्यामितरभेदः' इत्याकारिका 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिका च साध्यप्रकारिका 'विशेष्ये विशेषणम्' इति रीत्याऽनुमितिः स्यात् साध्यरूपविशेषणज्ञानमपि विशिष्टबुद्धिकारणं यद्यपेक्षितं तदपि प्रमेयत्वेनेतरभेदज्ञान काले समस्त्येव, साध्यतावच्छेदकप्रकारक सिद्धेरेव साध्यप्रसिद्धिविषया साध्यविशेष्यकानुमितिविरोधितया तस्याः प्रमेयत्वेन रूपेण साध्यज्ञानकालेऽभावात् यदि च साध्यज्ञानमेव साध्यसिद्धिरिति प्रमेयत्वेन तज्ज्ञानमपि साध्यसिद्धिर्भवत्येव, तर्हि इतरभेदत्वलक्षणसाध्यतावच्छेदकप्रकारकं यद् भेदान्तरविशेष्यकज्ञानं तन्न साध्यसिद्धिरिति तत्काले साध्यविशेष्यकानुमितिरिष्टैव स्यात् तदर्थं प्रतिबन्धककोटौ विशिष्य साध्यविशेष्यकत्वं निवेशनीयं भवेदिति गौरवं स्यात्, अत इतरभेदत्वप्रकारकज्ञानकाले व्यतिरेकपरामर्शादपि विशिष्टवैशिष्ट्या वगाह्यनुमितिरेव भवति न तु 'विशेष्ये विशेषणम्' इति रीत्या, एवं च तस्या विशेषणतावच्छेदकप्रकारक ज्ञान शून्यकाले आपत्तिवारणाय विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकमनुमितिसाधारणमेव स्वीकरणीयमिति शङ्कते - अथेति । विजातीयप्रत्यक्षत्वस्य जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्य । तज्जन्यतावच्छेदकत्वे विशेषणतावच्छेदकप्रकारक निर्णयजन्यतावच्छेदकत्वे । इतरव्यापकीभूतेतिपृथिवीतरव्यापकीभूतेत्यर्थः । व्याप्यतावच्छेदकसम्बन्धश्च तादात्म्यम् । तच्छ्रभ्यदशायामपि इतरभेदत्व प्रकारकज्ञानशून्यदशायामपि, अनुमितौ विशिष्टवैशिष्ट्या वगाहिन्यामपि विशेषणतावच्छेदकप्रकारक निर्णयस्याकारणत्वेन तत्सत्ताया अनावश्यक - त्वात् । तादृशानुमितौ 'पृथिवी पृथिवीतरभेदवती' इत्याकार कानुभितौ । 'अन्वयव्याप्तिज्ञानस्यैव, इत्येवकारेण व्यतिरेकव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिविशिष्ट हेतुमत्तापरामर्शस्य च तादृशानुमितौ कारणत्वस्य व्यवच्छेदः । ' स्वातन्त्र्येणेति- यत्र ' पृथिवीतरव्यापकीभूताभावप्रतियोगि पृथिवीत्ववती पृथिवी ' इत्याकारकव्यतिरेकपरामर्शः, परामर्शासन्निविष्टतयैव पृथिवीतरभेदत्वप्रकारकज्ञानं च तत्र 'पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितिरुत्पद्यमानाऽनुभूयते सा न स्यात् तां प्रति तदानीं विद्यमानम्य व्यतिरेक परामर्शस्याकारणत्वात्, तत्कारणतयाऽभिमतस्यान्वयव्याप्तिज्ञानस्य तदानीमभावादित्यर्थः । सारा ' इति स्थाने ' तादृश' इति पाठो युक्तः । तदानीं 'पृथिव्यामितरभेदः' इत्याकारिका आधेयतासम्बन्धेन पृथिवी प्रकारक पृथिवीतरभेद विशेष्यकैवानुमितिरेवोदयते इत्याशङ्कच प्रतिक्षिपति - न चेति । नेयमापत्तिरिति तदानीं पृथिवीविशेष्यकपृथिवीतरभेदप्रकार कानुमितेरनुपगमान्न तदनुत्पत्त्यापादनम् इष्टापत्तिरूपतया न दोषावहमित्यर्थः । साध्यविशेष्यकानुमितौ साध्य प्रसिद्धेर्विरोधित्वेन स्वातन्त्र्येणेतरभेदत्वप्रकारक ज्ञानस्य विरोधिनः सत्त्वे तदानीं साध्यविशेष्यकानुमित्युत्पादस्यासम्भवेन साध्यप्रकार कानुमित्युत्पादस्यैव स्वीकर्तुमुचितत्वेन तदनुमित्यनुत्पादापादनस्यानिष्टतयेष्टापादनत्वेन तत्परिहरणं कर्तुमशक्यमिति निषेधहेतुमुपदर्शयति- साध्य विशेष्य कानुमिताविति । तत्र इतरभेदत्वप्रकारकज्ञानकाले । तादृशानुमित्युत्पादासम्भवात् पृथिव्यामितरभेदविशेष्यकानुमित्युत्पादस्यासम्भवात् । तदानीं 'विशेष्ये विशेषणम्' इति रीत्या साध्यप्रकारिकाऽनुमितिरुपजायत इत्याशङ्कय प्रतिक्षिपति- न वेति । तत्र स्वातन्त्र्येणैत र भेदत्वत्रकारकज्ञानकाले । यदि विशेष्ये विशेषणम्' इति रीत्यैव पृथिवीत्तर भेदप्रकारिकानुमितिरुपेयते तदा तत्र विशेषणतावच्छेदकप्रकारकज्ञानस्य नापेक्षेति यदा स्वातन्त्र्येणापि पृथिवीतरभेदत्वप्रकारकज्ञानं नास्ति किन्तु केवलव्यतिरेकपरामर्श एवं विद्यते तदानीं साध्यविशेष्य कानुमितिप्रतिबन्धकसाध्यप्रसिद्धेरभावात् साध्यविशेष्यिकोक्तदिशा साध्यप्रकारिका चेत्युभयाकारानुमितिः स्यादिति निषेधहेतुमुपदर्शयति- तथा सतीति- विशेष्ये विशेषणमिति रीत्या साध्यप्रकार कानुमितेरभ्युपगमे सतीत्यर्थः । तादृशपरामर्शात् 'पृथिवीतर व्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् ननु विशेष्ये विशेषणमिति रीत्याऽनुमितिरपि विशिष्टबुद्धिर्भवत्येद, सा साध्यरूपविशेषणज्ञानजन्येति साध्यज्ञानाभावे कारणाभावान्नोत्पतुमर्हतीत्याशङ्कय प्रतिक्षिपति न वेति । नेयमापत्तिः पृथिवी पृथिवीतरभिन्ना' इत्याकार कानुमित्याप तिर्न सम्भवति । निषेधे हेतुमाह - एवमपीति - स्वातन्त्र्येण पृथिवीतरभेदत्व प्रकार कज्ञानशून्यकाले विशेषणज्ञानाभावात् साध्यप्रकारकज्ञानलक्षणसाध्यविशिष्टबुद्धयापादनासम्भवेऽपीत्यर्थः । तथाविधानुमितेः पृथिवी पृथिवीतरभिन्ना' इत्याकारिकायाः,
९४
6
•
"