________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः ।
तापत्तरिति विशिष्टवैशिष्ट्यानुभवत्वमेव च जन्यतावच्छेदकमास्थीयते, स्मरणे च तादृशविषयतानियामकः, इति बहवः ।
केचित् तु-" अनुभवत्वजातौ मानाभावेन ज्ञानत्वस्यापि नित्यसाधारणतया जन्यतानवच्छेदकत्वाजन्यप्रत्यक्षवृत्तिजातिविशेष एव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकः, अनुमित्यादौ च परामर्शादिरेव तादृशविषयतानियामकः, एवं शाब्दबोधेऽवान्तरवाक्यार्थबोध एव तथा । अथ विजा
इति स्थाने 'ज्ञानलक्षणप्रत्यासत्तेरपि ज्ञानेच्छाकृतिसाधारण' इति पाठो युक्तः । ज्ञानेच्छाकृतिसुख-दुःखद्वेषाणां मानसप्रत्यक्षं भवति धर्मा-ऽधर्मभावनानां तन्न भवत्यात्मविशेषगुणत्वाविशेषेऽपोत्यतो ज्ञानेच्छादिषु पदसु विषयविधया मानसकारणेषु जातिविशेषस्तत्कारणतावच्छेदकः, तदभावान धर्मादीनां त्रयाणां मानसमित्यात्मविशेषगुणमानसजनकतावच्छेदकतया सिद्धो निरुक्तजातिविशेषो नाप्रामाणिक इति तस्य विशिष्टवैशिष्टयबुद्धिजनतावच्छेदककोटौ ज्ञानलक्षणप्रत्यासत्तिनिष्टकारणतावच्छदककोटौ प्रवेशो न कल्पनागौरवप्रसङ्गावह इत्याह- अवश्यं चेति । अन्यथा आत्मविशेषगुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषाकल्पने । उक्तदिशा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वस्य कारणतावच्छेदकत्वव्यवस्थिती तदवच्छिन्नकारणतानिरूपितकार्यतावच्छेदककोटावनुभवत्वमेव निवेशनीयम्, स्मृत्यनुभवयोस्तु समानप्रकारताप्रत्यासत्त्या कार्यकारणभाव इति विशिष्टवैशिष्ट्यावगाह्यनुभवजन्य विशिष्टवैशिष्टयावगाहिस्मरणे विशिष्टवैशिष्टयविषयता तादृशानुभवविषयता. प्रयुक्ता एवेति बहूनां विदुषां मतमुपदर्शयति-विशिवैशिष्टयानुभवत्वमेवेति । जन्यतावच्छेदकं विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकम् । स्मरणस्योक्तजन्यतावच्छेदकधर्मानाकान्तत्वेन तत्र विशिष्टवैशिष्टयविषयतानियामकं न विशेषणतावच्छेदकमतस्तस्य नियामकं वाच्यमित्यपेक्षायामाह- स्मरणे चेति- अत्र 'स्मरणे च तादृश विषयतानियामकः' इति स्थाने 'स्मरणे च तादृशानुभव एव तादृशविषयतानियामकः' इति पाठो युक्तः । तादृशानुभवः विशिष्ट वैशिष्टयावगाहनुभवः । तादृशविषयतेति-विशिष्टवैशिष्ट्यविषयतेत्यर्थः । 'अनुभवामि' इत्यनुव्यवसायः प्रत्यक्षात्मकज्ञानस्यैव, अनुमित्यादीनामनुव्यवसायस्तु सामान्यतो 'जानामि' इत्याकारकः, विशेषतस्तु 'अनुमिनोमि' इत्याकारक एवेत्यनुभवत्वजाती मानाभावान्न तस्य कार्यतावच्छेदककोटिसन्निविष्टत्वम् , ज्ञानत्वं तु नित्यानित्यसाधारणतया न जन्यतावच्छेदकं किन्तु जन्यप्रत्यक्षवृत्तिजातिविशेष एव तत्कार्यतावच्छेदककोटिनिविष्ट इति केषाञ्चिन्मतमुपदर्शयति-केचित् स्विति । जन्यप्रत्यक्षवृत्तिजातिविशेष एवेति-प्रत्यक्षत्वसामान्यस्यापि नित्येश्वरप्रत्यक्षसाधारण्येन जन्यतानवच्छेदकत्वाद् विशिष्टवैशिष्टयावगाहित्वे सति जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्येन्द्रियसन्निकर्षजन्यतावच्छेदकतया सिद्धस्य विशेषतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेकत्वमिति । नन्वेवं विशेषणतावच्छेदकप्रकारकनिर्णयाजन्यप्रत्यक्षविशेषे विशिष्टवैशिष्टयविषयत्वस्य सम्भवेऽप्यनुमित्यादौ नियामकाभावाद् विशिष्ट वैशिष्टयविषयत्वं न स्यादित्यत आह-अनुमित्यादाविति। तादृशविषयतानियामकः विशिष्टवैशिष्टयविषयतानियामकः । तथा विशिष्टवैशिष्टयविषयतानियामकः । ननु यद्यनुमिती विशिष्टवैशिष्टयविषयत्वे परामर्श एव नियामको न तु विशेषणतावच्छेदकप्रकारकनिर्णयस्तजन्यतावच्छेदकस्य विजातीयप्रत्यक्षत्वस्यानुमिताव. भावात् , तथा सति 'पृथिवी इतरेभ्यो भिद्यते' इत्यत्र 'इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् 'पृथिवीतरभिन्ना' इत्यनुमितिः पृथिवीतरभेदत्वविशिष्टवैशिष्टयावगाहिनी पृथिवीतरभेदत्वरूपविशेषणताक. च्छेदकप्रकारकनिर्णयशून्यकालेऽपि स्यात्, यदि चान्वयसहचारेणेव व्यतिरेकसहचारेणाप्यन्वयव्याप्तिग्रहण सत्येव 'पृथिवी पृथिबीतरभिन्ना' इत्यनुमितिरिति न व्यतिरेकपरामर्शादुक्तानुमितिः, अन्वयपरामर्शसत्त्वे तु इतरभेदत्वप्रकारकज्ञानमवश्यं समस्तीति नोक्तविशेषणतावच्छेदकप्रकारकज्ञानाभावकाल उक्तानुमित्यापत्तिः सम्भवतीति विभाव्यते, तदा यत्र व्यतिरेकपरामों विद्यते स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानं च समस्ति तत्र प्रथिवीतरभेदानुमित्युत्पत्तिग्नु स्यादन्वयव्याप्तिज्ञानाभावात् , इतरभेदलक्षणसाध्यविशेष्यकपृथिवीरूपपक्षप्रकारिकैव 'पृथिव्यामितरभेदः' इत्याकारकानुमितिस्तदानीमुत्पद्यत इति च वक्तुमशक्यम् , साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधित्वेन स्वातन्त्र्यणेतरभेदत्वप्रकारकज्ञानस्य साध्यप्रसिद्धिरूपतया तद्रूपप्रतिबन्धकसत्त्वे तादृशानुमित्युत्पादासम्भवात् , व्यतिरकपरामर्शतो 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी पृथिवीतरभिन्ना' इति रोत्याऽनुमितिर्जायत एवेत्यपि न वाच्यम्, तथा सति साध्यज्ञानं नास्ति साध्यप्रसिद्धिरूप