________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
करोमि' इत्याकारककृतिसाक्षात्कारोत्पत्त्या व्यभिचारः, हेतुतावच्छेदके ज्ञानत्वानिवेशे च रक्तदण्डः' इत्यनदबद्धसंस्काराद रक्तत्व निर्विकल्पकदशायां विशिष्टवैशिष्ट्य बोधापत्तिः, उदबोधकानां संस्कारजविशिष्टवैशिष्ट्यबोधहेतुत्वेऽपि तदभावे सामान्यसामग्र्या फलजनने बाधकामावादिति वाच्यम्, कृतिसाक्षात्कारपूर्व नियमतो 'दण्डो रक्तः' इति स्मरणानभ्युपगमात् , वस्तुतः संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजाति. विशेष कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेनैव हेतुत्वं स्वीक्रियते, अनन्तस्मृतिव्यक्तितद्धेतुकल्पनापेक्षया तादृशजातिकल्पनाया एवोचितत्वात् , न च कृति साक्षात्कारपूर्व विषयस्मृतिकल्पनमावश्यकमन्यथोपनायकज्ञानविरहेण विषयभानासम्भवेन कृतिसाक्षात्कारानुदयप्रसङ्गादिति वाच्यम्, - ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छाकृतिसाधारणतद्विषयकविजातीयगुणत्वेनैव हेतुत्वोपगमात् , अवश्यं च
गुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषकल्पनम्, अन्यथा संस्कारादीनां मानसविभाव्यते तदा रक्तदण्डविषयकानुबुद्धसंस्कारतो रक्तत्वस्य निर्विकल्पकोत्पत्त्यनन्तरकाल एवं रक्तदण्डं जानामि' इत्यनुव्यवसायापत्तिः, तत्र संस्कारे निरुक्तानुव्यवसायोऽप्युक्तसम्बन्धेन वर्तते कारणतावच्छेदकधर्माकान्त उक्तसंस्कारोऽपि, यदि च संस्कारजवैशिष्ट्यबोधे स्वातन्त्र्येणोद्वोधकानामपि कारणत्वमिति तदभावादेव न संस्कारजविशिष्टवैशिष्टयबोधापत्तिः,एवमपि विशिष्टवैशिष्ट्यबुद्धित्वलक्षणसामान्यधर्मावच्छिन्नस्य कारणसद्भावात् तदापत्तिः स्यादेवेत्याशङ्कय प्रतिक्षिपति-नचेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। 'रक्तत्वनिर्विकल्पकदशायाम्' इत्यस्य 'रक्तत्वनिर्विकल्पकोत्पत्तिद्वितीयक्षणे इत्यर्थः, 'निर्विकल्पकोत्पत्तिक्षणे' इत्यर्थस्तु यदि विशिष्टबुद्धि प्रति विशेषणज्ञानस्य यत् कारणत्वं तत्रापि ज्ञानत्वमनिवेश्य विशेषणविषयकत्वेनैव कारणत्वमास्थीयते तदा सम्भवति, अन्यथाऽनुव्यवसायस्य विशिष्टबुद्धित्वस्यापि सम्भवात् तत्र कारणीभूतस्य रक्तत्वलक्षणविशेषणज्ञानस्योक्तनिर्विकल्पकात् पूर्वमभावेन न तदानीमापत्तिसम्भव इति बोध्यम् । तद्भाव उद्बोधकाभावे । सामान्यसमग्रया विशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नसामान्योत्पादकसामय्या, अत्रेदं बोध्यम्- संशयानुव्यवसायस्य 'विशेष्ये विशेषणम्' इति रोत्या जायमानत्वेऽपि कृत्याद्यनुव्यवसायस्य विशिष्टवैशिष्ट्यावगाहित्वेन तत्र विशेणतावच्छेदकप्रकारकज्ञानस्य कारणत्वेन तत्रैव व्यभिचाराशङ्कनमिदम् , तत्र कार्यतावच्छेदकः कारणतावच्छदेकश्च सम्बन्धः समवाय एव, तत एव च कारणतावच्छेदककोटौ ज्ञानत्वाानवेशेऽनुदबुद्धसंस्काराद् विशिष्टवैशिष्टयबोधापादनं सङ्गतिमङ्गति, अन्तरा व्यवसायहेतुस्वाभिधानं तु अनुव्यवसायं 'प्रत्येवेति । विशिष्टवैशिष्टयबुद्धि प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तत्र कारणतावच्छेदककोटौ ज्ञानस्वं निवेश्यत एव, तेन नानुद्बुद्धसंस्काराद् विशिष्ट वैशिष्टयबोधापत्तिः, 'रक्तदण्डं करोमि' इति कृतिसाक्षात्कारात् पूर्व नियमतो 'दण्डो रक्तः' इति स्मरणमुपेयते, तपविशेषणतावच्छेदकप्रकारकज्ञानत एव विशिष्टवैशिष्टयबोधात्मा कृतिसाक्षा. त्कार इति न तत्र व्यभिचारोऽपीति निषेचहेतुमुपदर्शयति-कृतिसाक्षात्कारपूर्वमिति। 'स्मरणानभ्युपगमाद' इति स्थाने 'स्मरणाभ्युपगमाद्' इति पाठो युक्तः । लाघवादाह-वस्तुत इति । हेतुत्वं विशिष्टवैशिष्टयावगादिधुद्धित्वाव. च्छिन्नं प्रति कारणत्वम् , विशेषणतावच्छेदकप्रकारकविजातीयगुणो रक्तत्वप्रकारकदण्ड विशेष्यककृतिरपि भवति, ततो 'रक्त. दण्डं करोमि' इत्याकारकस्य रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिनोऽनुव्यवसायस्य सम्भवाच्न तत्र व्यभिचार इत्याशयः। कृतिसाक्षाकारात् पूर्व नियमतो विशेषणतावच्छेदकस्मरणस्य कल्पने यदा यदा कृतिसाक्षात्कारात्मकविशिष्टवैशिष्टयबुद्धि. र्भवति तदा तदा तत्स्मरणं कल्पनीयमिति गौरवमत: संस्कारव्यावृत्तस्य ज्ञानेच्छाकृतिवर्तिनो जातिविशेषस्य निरुक्तकारणतावच्छेदकतया कल्पनमेवोचितमित्याह- अनन्तेति । तस्विति- अनन्तस्मृतिहेत्वित्यर्थः । तादृशजातीति-ज्ञाने. च्छाकृतिवृत्तिजातीत्यर्थः। ननु मनोजन्यप्रत्यक्षं ज्ञानादिषु तदाश्रयीभूतात्मनि च लौकिकमिति तत्र लौकिकसभिकर्षस्याधिपत्येऽपि ज्ञानादिविषयीभूतस्य बाह्यपदार्थस्य यत् तत्र भानं तत्र न मनसो लौकिकसन्निकर्षः किन्तु ज्ञानलक्षणालौकिकसन्निकर्ष इति तद्वलादेव मानसे ज्ञानादिविशेषणतया बाह्यो भासत इति यदि कृतिसाक्षात्कारपूर्व नियमतो निरुक्तस्मरणं न कल्प्यत तदा कृत्यंशे रक्तत्वविशिष्टदण्डवैशिष्टयावगाह्यनुव्यवसाय एव न स्यादिति ज्ञानलक्षणप्रत्यासत्तिसम्पत्तये स्मरणकल्पनमावश्यकमित्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । अन्यथा कृतिसाक्षात्कारपूर्व विषयस्मृतेरकल्पने । उपनायकज्ञानविरहेण कृतौ विशेषणतया विषयभानप्रयोजकस्य ज्ञानलक्षणालौकिकसन्निकर्षस्याभावेन । कृतिसाक्षात्कारानुदयप्रसङ्गात् स्वविषयविशिष्टकृतिसाक्षात्कारलक्षणकृत्यनुव्यवसायानुत्पत्तिप्रसङ्गात् । तद्विषयकालौकिकप्रत्यक्ष प्रति ज्ञानलक्षणप्रत्यासत्तेस्तद्विषयकविजातीयगुणत्वेन हेतुत्वमिति कृतिसाक्षात्कारे कृत्यंशे विशेषणतया विषयस्य भानं तद्विषयककृतिरूपप्रत्यासत्तित एवेति निषेधहेतुमुपदर्शयति-शानलक्षणेति- 'ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छाकृतिसाधारण'