SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशा । सम्बन्धावगाहिताया एवोक्तज्ञाने समर्थने चान्यत्राप्यतिप्रसङ्गात् , तस्माद् 'विशेष्ये विशेषणम्' इति रीत्यैव संशयानुव्यवसाय इति न व्यभिचार इति बहवः । न च 'सन्देमि' इत्यनुव्यवसायस्य 'विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगमे रक्तदण्डो द्रव्यम्' इति व्यवसायानन्तरमपि 'रक्तदण्डं जानामि' इत्यनुव्यव. सायप्रसङ्ग इति वाच्यम्, रक्तविशिष्टदण्डप्रकारतानिरूपितविषयित्वसांसर्गिकविषयतानिरूपितविशेष्यता. सम्बन्धेनानुव्यवसायं प्रति रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकत्वेन व्यवसायहेतुत्ताया आवश्यकत्वात् , अन्यथा 'रक्तो दण्डः' इति प्रत्यक्षानन्तरं रक्तवान् दण्डश्च' इति समूहालम्बनस्मर. णादिस्थले 'रक्तदण्डं स्मरामि' इत्यनुव्यवसायापत्तेः, न च 'दण्डो रक्तः' इति ज्ञानोपरमेऽपि 'रक्तदण्ड आह-विशेषणोपर्युल्लिख्यमानस्येति- विशेषणविशेषणतयोल्लिख्यमानस्येत्यर्थः। उक्तज्ञाने संशयानुव्यवसाये । अन्य. त्रापि निश्चयात्मकव्यवसायानुव्यवसायेऽपि । अतिप्रसवात विशेषणतावच्छेदकस्य विशेष्यनिष्टसम्बन्धावाहिताया: प्रसङ्गात् , तथा चानुव्यवसायमात्रस्य विशिष्टवैशिष्ट्यावगाहित्यमुचिच्छतेत्यर्थः । संशयानुव्यवसायः संशये विषयतया दण्ड तत्र च रक्तत्वं तदभावं चावगाहत इति 'विशेष्ये विशेषणं तत्र च विशेषणम्' इति रीत्यैव जायत इति विशिष्टवैशिष्ट्यावगाहियोधत्वलक्षणविशेषणतावच्छेदकधर्मप्रकारकनिश्चयकार्यतावच्छेदकधर्मानाकान्तत्वान तत्र व्यभिचार इत्युपसंहरति- तस्मादिति । ननु संदेहानुव्यवसायस्य “विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगमेऽनुव्यवसायो विशिष्टवैशिघ्यावगायेव भवतीति नियमो नाभ्युपेयत एव, एवं च रक्तत्वं दण्डाविशेषण तयवायगाहमानो रचत्वावच्छिन्ने वा प्रकारतया दण्डावगाही वा 'रक्तो दण्डो द्रव्यम्' इति यो व्यवसायस्तदनन्तरमपि ज्ञाने विषयितया दण्डं तत्र च रक्तत्वमवगाहमानस्य 'रक्तदण्डं जानामि' इत्यनुव्यवसायस्य प्रसङ्गः, तस्य विशिष्ट वैशिष्ट्यानरगाहित्वेन रक्तत्वप्रकारक दण्डविशेष्यकनिश्चयमन्तराऽप्युत्पत्तिसम्भवादित्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । 'रक्तदण्डति' इत्यस्य स्थाने 'रको दण्डो द्रव्यम्' इतीति पाठो युक्तः, अयं च व्यवसायः समूहालम्ब नात्मको बोध्यः, 'दण्डो रक्तो द्रव्यम्' इत्येवमुल्लेखेऽपि समूहालम्ब नात्मकत्वं सम्भवति, परं तथोख दण्डविशेष्यकरक्तत्वप्रकारकत्वमप्यस्य बुद्धावारोहेत तट्युदार्थ 'रको दण्डः' इत्येवमुल्लेख:, एवं व 'उद्देश्यवचनं पूर्व विधेयवचनं ततः,' इति वचनाद् यदि प्रकारविशेष्यभावनाप्यवगन तत्र भवेत् तदाऽपि रक्तस्यैव विशेष्यत्वं दण्डस्य प्रकारत्वं न तु दण्डे रक्तत्वस्य प्रकारत्वमिति, विशेष्ये विशेषणम्' इति रीत्याऽनुव्यवसायस्य तु विशिष्टबुद्धित्वेन तत्र विशेषणज्ञानविधया कारणं 'रक्तो दण्डो द्रव्यम्' इति ज्ञानं समरत्यवेति तथाऽनुव्यवसायस्य कारणसम्पत्तिः । निषेधे हेतुमाह- रक्तविशिष्टेति- रकत्वविशिष्टेत्यर्थः, तथा च रस्त्वविशिष्टदण्डनिष्टप्रकारता- . निरूपित विषयित्वनिष्टसांसर्गिकविषयतानिरूपितविशेष्यतासम्बन्धेनानुव्यवसायं प्रति रक्तत्वनिष्टप्रकारतानिरूपित्तदण्डत्वावच्छिन्नविशेष्यताकत्वेन रूपेण व्यवसायस्य तादात्म्यसम्बन्धेन कारणत्वम् , 'विषयतासम्बन्धेन प्रत्यक्ष प्रति तादात्म्यसम्बन्धेन विषयस्य कारणत्वम्' इति सामान्यकार्यकारणभावे सति प्रत्यक्षविशेष प्रति विषय विशेषस्य कारणत्वस्यावश्यकल्लेनोक्तसम्बन्धेन 'रक्तदण्डं जानामि' इत्यनुव्यवसायस्य रक्तत्वप्रकारकदण्डविशेष्यकव्यवसाय एव सत्त्वेन तत्र कारणीभूतस्य रकत्वप्रकारकदण्ड विशेष्यकव्यवसायस्य तदानीमभावेन 'रक्तो दण्डो द्रव्यम्' इति व्यवसायानन्तरं 'रक्तदण्डं जानामि' इत्यनुष्यवसायस्यापत्त्यसम्भवादित्यर्थः। अन्यथा उक्तरीत्याऽनुव्यवसायं प्रति व्यवसायस्य विशिष्यकार्यकारणभावस्यानुपगमे । 'रक्तो दण्डः' इति प्रत्यक्षानन्तरं रक्तस्वावच्छिन्नविशेष्यताकदण्डत्वनिष्टप्रकारताकप्रत्यक्षानन्तरम् , निरुक्तप्रत्यक्षस्योद्बोधक विधया 'रतवान् दण्डश्च' इति समूहालम्बनस्मरणे प्रयोजकत्वम् , 'रक्तवान् दण्डव' इति समूहा लम्बनस्मरणलक्षणव्यवसायस्य रक्तत्वनिष्ठप्रकारतानिरूपितदण्इत्वाव. च्छिन्नविशेष्यताकत्वरूपकारणतावच्छेदकधर्मानाकान्तत्वादुक्त विशिष्यकार्यकारणभावाभ्युपगमे कारणाभावान 'रकदण्ड स्मरामि' इत्यनुव्यवसायापत्तिरिति भावः । ननु प्रथमक्षणे 'इदं मदिष्टसाधनं मत्कृतिसाध्यं च' इति ज्ञानम्, ततो द्वितीयक्षणे चिकीर्षा, ततस्तृतीयक्षणे कृतिः ततश्चतुर्थक्षणे कृतिसाक्षात्कार इति वस्तुस्थिती 'रक्तदण्डं करोमि' इत्यनुव्यवसायस्य रक्तत्वविशिष्टदण्डनिष्ठप्रकारतानिरूपितविषयित्वनिष्ठसांसर्गिकविषयतानिरूपितविशेष्यतासम्बन्धेन रक्तदण्डविषयककृतावुत्पद्यमानत्वेन तत्र रकत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकव्यवसायस्तादात्म्येन नास्ति, तथाव्यवसायस्य 'दण्डो रक्तः' इत्येवंरूपस्य 'रक्तदण्डो मदिष्टसाधनम्' इत्येवंरूपस्य वा पूर्वमेव विनष्टत्वात् , यदि च कारणतावच्छेदककोटौ ज्ञानत्वं न निवेश्यत इति रक्तत्वप्रकारकदण्डत्वावच्छिन्नविशेष्यककृतिरपि निरुक्ककारणतावच्छेदकधर्माकान्तत्वात् कारणमिति न तत्र व्यभिचार इति
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy