________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
कतया तादृशस्मरणापत्त्यसम्भवात्, 'दण्डो रको नवा ?' इति संशयानुव्यवसायस्तु न रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाही 'रक्तदण्डेन सन्देह्नि' इत्यप्रत्ययात्, किन्तु रक्तत्व तदभावप्रकारकत्व दण्डविशेष्यकस्वावगाही, 'रक्तत्वेन तदभावेन च दण्डं सन्देह्नि' इति प्रत्ययादिति न तत्र व्यभिचार इति केचित्, तचिन्त्यम्, समुच्चयानुव्यवसायवत् तत्तद्विशेषणद्वयनिरूपितवैशिष्ट्यविषयताशालित्वस्यैव वक्तुं शक्यत्वात्, 'रक्तदण्डेन सन्देलि' इत्यनभिलापस्य च 'दण्डिनं न जानामि' इत्यनभिलापवदेवोपपत्तेर्ज्ञानत्वेन सन्देहानुव्यवसाये चोक्तप्रकाराभावात्, विशेषणोपर्युलेख्यमानस्य विशेषणतावच्छेदकस्य विशेष्यनिष्ठज्ञाने । तस्या दण्डत्वावविच्छन्न विशेष्यतास्वरूपाया रक्तत्वावच्छिन्न विशेष्यतायाः । तादृशप्रकार तेति- रक्तत्वमिष्ठप्रकारतेत्यर्थः । तेन रूपेण रचत्वावच्छिन्नविशेष्यतात्वेन रूपेण । तादृशस्मरणेति- 'रक्तो रक्तः' इति स्मरणेत्यर्थः, तथा च तेन रूपेण रकत्वप्रकारता निरूपित' इत्यस्य रक्तत्वनिष्ठप्रकारतात्वावच्छिन्न निरूपकतानिरूपितर कत्वावच्छिन्नविशेष्यतात्वाषष्टिछन्ननिरूप्यत्तावदित्यर्थः । तादृशस्मरणेति- 'रको रकः' इत्याकारकस्मरणेत्यर्थः । ननु 'दण्डो रक्तो नवा' इति संशयानन्तरं तत्संशयानुव्यवसाश्च रक्तत्वविशिष्टदण्डस्य संशये विषयितारूपवैशिष्ट्या वगाहीति विशिष्टवैशिष्ट्य बुद्धित्वरूपकार्यतावच्छेदकधर्माक्रान्तस्य तस्य रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यताक निर्णयात्मकविशेषणतावच्छेदक निर्णयं विनैव भावेन व्यभिचारेण निरुक्तवैशिष्टयबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारक निर्णयस्य कारणत्वं न संभवतीत भाइ- 'दण्डो रक्तो नवा' इति संशयानुव्यवसायस्त्विति - 'रक्तदण्डेन' इति तृतीयान्तार्थस्य र दण्डवैशिष्टयस्य सन्देह विशेषणतयो का नुव्यवसाये भाने तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वं स्यात् न चैवम्, किन्तु 'रकत्वेन तदभावेन च दण्डं सन्देसि' इत्युलेखशेखर एव 'दण्डो रक्तो नवा' इति संशयानुव्यवसायः तत्र 'रक्तत्वेन तदभावेन च' इत्युभयत्र तृतीयार्थः प्रकारत्वम्, 'दण्डम्' इति द्वितीयार्थश्च विशेष्यत्वम्, तृतीयार्थप्रकारताद्वयस्य द्वितीयार्थस्य विशेष्यत्वस्य च निरूपकतया धात्वर्थसन्देह एवं विशेषणत्वम्, तथा च तथोहिख्यमानोऽनुव्यवसायो 'रक्तत्वनिष्ठप्रकारता कर क्तत्वाभाव निष्टप्रकारताक- दण्डनिष्ठविशेष्यताकसंशयवान्' इत्येवंस्वरूप एवं पर्यवसित इति तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वाभावाद्रक्तत्वप्रकारकनिश्चयं विना भावेऽपि न व्यभिचार इति केचित् प्रतिपन्ना इत्यर्थः । 'पर्वतो वह्निमान् धूमवश्व' इति समूहालम्बनस्य 'पर्वते वह्निना धूमेन च जानामि' इत्यनुव्यवसायस्य यथा वहिधूमात्मकविशेषणद्वयनिरूपित वैशिष्ट्यविषयताशालित्वं तथा 'दण्डो स्को नवा' इति संशयानुव्यवसायस्यापि रकत्व तदभावात्मक विशेषणद्वयनिरूपितवैशिष्टर्थ्यावश्यताशालित्वस्य वक्तुं शक्यत्वेन रक्तत्वविशिष्टदण्डवैशिष्टयावगाहित्वस्य सम्भावनापथाव तीर्णत्वतो 'दण्डो रक्को नवा' इति संशयानुव्यवसायो 'रक्तदण्डेन सन्देह्मि' इत्येवं नाभिलप्यत इत्येतावता न स रक्तत्वविशिष्टदण्डवैशिष्टयावगाही' इत्येवमभिधानं न युक्तमिति चिन्ताबीजोपदर्शन पूर्वक मृजुमार्गसमाश्रितानां विदुषां प्रकारान्तराश्रयणेन संशयानुव्यवसायस्य विशिष्टवैशिष्ट्या वगाहित्व रूप विशेषणतावच्छेदकधर्मप्रकार कनिश्चयजन्यतावच्छेदकधर्मानाकान्तस्वतो व्यभिचारवारणमुपदर्शयति- समुच्चयानुष्यवसायवदिति । ननु रक्तत्वविशिष्टदण्डस्य विषयत्वात्मक वैशिष्ट्यं संशयगतं यदि संशयानुव्यवसायोऽवगाहेत तदा 'रक्तदण्डेन सन्देाि' इत्येवं तदभिलापोऽपि भवेत् न च तथा तदभिलप्य इति न स रकत्वविशिष्टदण्डस्य वैशिष्टयं संशयेऽवगाद्दत इत्यत आह- रक्तदण्डेनेति । ज्ञाने यस्य विषयतात्मक वैशिष्टयं तदनुव्यवसायस्याभिलापस्तद्वाचकपदोत्तर वैशिष्ट् यार्थक तृतीयाविभक्तिमुपादाय भवत्येवेति नास्ति नियमस्तथा सति दण्डात्मकविषयस्य विषयतात्मक वैशिष्टयं संशयादिज्ञाने समस्तीति तस्य तथाऽनुव्यवसायोऽपि दण्डेन जानामि' इत्येवमभिलप्येत, न चैवमभिलप्यते इति यथा तस्य न तथाऽभिलापस्तथैव प्रकृतेऽप्युक्तनियमाभावादुपपद्यत इत्याह- दण्डेनेति- 'दण्डिनं न जानामि इत्यस्य स्थान दण्डेन जानामि इति पाठो युक्तः । यथा च संशये संशयत्वं समस्ति तथा ज्ञानत्वमपि समस्ति, तथा च संशयत्वस्यैकधर्मिक विरुद्धो गयप्रकारकज्ञानत्वरूपत्वात् तद्रूपेण तदनुव्यवसायस्य रकत्व तदभावप्रकारत्वदण्डविशेष्यकत्वावगाहित्वेऽपि ज्ञानत्वेन तदनुव्यवसायस्य न तथात्वमिति ज्ञानत्वेन तदनुव्यवसाये रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिनि व्यभिचारणस्य वारणं नोक्तप्रकारेण सम्भवतीत्याह-- ज्ञानत्वेनेति । ननु 'रक्तश्वेन दण्डं संदेह्नि' इति संशयानुव्यवसायै संदेहे विशेषणीभूते दण्डे विशेषणतया विशेषणातावच्छेदकस्य रक्तत्वस्य संशयात्मकविशेष्यनिष्टो यो निरूपकतया प्रकारत्वसम्बन्धस्तदवगाहित्य मेव न तु रकत्वविशिष्टदण्डस्य संशयगत वैशिष्टभावगाहित्वमिति संशयानुव्यवसाये विशिष्टवैशिष्ट्या वगाहित्वाभावात् तत्र विशेषणतावच्छेदकधर्मप्रकारकनिश्चयजन्यत्वाभावेऽपि न व्यभिचार इत्यत
००