Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 119
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः । तापत्तरिति विशिष्टवैशिष्ट्यानुभवत्वमेव च जन्यतावच्छेदकमास्थीयते, स्मरणे च तादृशविषयतानियामकः, इति बहवः । केचित् तु-" अनुभवत्वजातौ मानाभावेन ज्ञानत्वस्यापि नित्यसाधारणतया जन्यतानवच्छेदकत्वाजन्यप्रत्यक्षवृत्तिजातिविशेष एव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकः, अनुमित्यादौ च परामर्शादिरेव तादृशविषयतानियामकः, एवं शाब्दबोधेऽवान्तरवाक्यार्थबोध एव तथा । अथ विजा इति स्थाने 'ज्ञानलक्षणप्रत्यासत्तेरपि ज्ञानेच्छाकृतिसाधारण' इति पाठो युक्तः । ज्ञानेच्छाकृतिसुख-दुःखद्वेषाणां मानसप्रत्यक्षं भवति धर्मा-ऽधर्मभावनानां तन्न भवत्यात्मविशेषगुणत्वाविशेषेऽपोत्यतो ज्ञानेच्छादिषु पदसु विषयविधया मानसकारणेषु जातिविशेषस्तत्कारणतावच्छेदकः, तदभावान धर्मादीनां त्रयाणां मानसमित्यात्मविशेषगुणमानसजनकतावच्छेदकतया सिद्धो निरुक्तजातिविशेषो नाप्रामाणिक इति तस्य विशिष्टवैशिष्टयबुद्धिजनतावच्छेदककोटौ ज्ञानलक्षणप्रत्यासत्तिनिष्टकारणतावच्छदककोटौ प्रवेशो न कल्पनागौरवप्रसङ्गावह इत्याह- अवश्यं चेति । अन्यथा आत्मविशेषगुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषाकल्पने । उक्तदिशा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वस्य कारणतावच्छेदकत्वव्यवस्थिती तदवच्छिन्नकारणतानिरूपितकार्यतावच्छेदककोटावनुभवत्वमेव निवेशनीयम्, स्मृत्यनुभवयोस्तु समानप्रकारताप्रत्यासत्त्या कार्यकारणभाव इति विशिष्टवैशिष्ट्यावगाह्यनुभवजन्य विशिष्टवैशिष्टयावगाहिस्मरणे विशिष्टवैशिष्टयविषयता तादृशानुभवविषयता. प्रयुक्ता एवेति बहूनां विदुषां मतमुपदर्शयति-विशिवैशिष्टयानुभवत्वमेवेति । जन्यतावच्छेदकं विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकम् । स्मरणस्योक्तजन्यतावच्छेदकधर्मानाकान्तत्वेन तत्र विशिष्टवैशिष्टयविषयतानियामकं न विशेषणतावच्छेदकमतस्तस्य नियामकं वाच्यमित्यपेक्षायामाह- स्मरणे चेति- अत्र 'स्मरणे च तादृश विषयतानियामकः' इति स्थाने 'स्मरणे च तादृशानुभव एव तादृशविषयतानियामकः' इति पाठो युक्तः । तादृशानुभवः विशिष्ट वैशिष्टयावगाहनुभवः । तादृशविषयतेति-विशिष्टवैशिष्ट्यविषयतेत्यर्थः । 'अनुभवामि' इत्यनुव्यवसायः प्रत्यक्षात्मकज्ञानस्यैव, अनुमित्यादीनामनुव्यवसायस्तु सामान्यतो 'जानामि' इत्याकारकः, विशेषतस्तु 'अनुमिनोमि' इत्याकारक एवेत्यनुभवत्वजाती मानाभावान्न तस्य कार्यतावच्छेदककोटिसन्निविष्टत्वम् , ज्ञानत्वं तु नित्यानित्यसाधारणतया न जन्यतावच्छेदकं किन्तु जन्यप्रत्यक्षवृत्तिजातिविशेष एव तत्कार्यतावच्छेदककोटिनिविष्ट इति केषाञ्चिन्मतमुपदर्शयति-केचित् स्विति । जन्यप्रत्यक्षवृत्तिजातिविशेष एवेति-प्रत्यक्षत्वसामान्यस्यापि नित्येश्वरप्रत्यक्षसाधारण्येन जन्यतानवच्छेदकत्वाद् विशिष्टवैशिष्टयावगाहित्वे सति जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्येन्द्रियसन्निकर्षजन्यतावच्छेदकतया सिद्धस्य विशेषतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेकत्वमिति । नन्वेवं विशेषणतावच्छेदकप्रकारकनिर्णयाजन्यप्रत्यक्षविशेषे विशिष्टवैशिष्टयविषयत्वस्य सम्भवेऽप्यनुमित्यादौ नियामकाभावाद् विशिष्ट वैशिष्टयविषयत्वं न स्यादित्यत आह-अनुमित्यादाविति। तादृशविषयतानियामकः विशिष्टवैशिष्टयविषयतानियामकः । तथा विशिष्टवैशिष्टयविषयतानियामकः । ननु यद्यनुमिती विशिष्टवैशिष्टयविषयत्वे परामर्श एव नियामको न तु विशेषणतावच्छेदकप्रकारकनिर्णयस्तजन्यतावच्छेदकस्य विजातीयप्रत्यक्षत्वस्यानुमिताव. भावात् , तथा सति 'पृथिवी इतरेभ्यो भिद्यते' इत्यत्र 'इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् 'पृथिवीतरभिन्ना' इत्यनुमितिः पृथिवीतरभेदत्वविशिष्टवैशिष्टयावगाहिनी पृथिवीतरभेदत्वरूपविशेषणताक. च्छेदकप्रकारकनिर्णयशून्यकालेऽपि स्यात्, यदि चान्वयसहचारेणेव व्यतिरेकसहचारेणाप्यन्वयव्याप्तिग्रहण सत्येव 'पृथिवी पृथिबीतरभिन्ना' इत्यनुमितिरिति न व्यतिरेकपरामर्शादुक्तानुमितिः, अन्वयपरामर्शसत्त्वे तु इतरभेदत्वप्रकारकज्ञानमवश्यं समस्तीति नोक्तविशेषणतावच्छेदकप्रकारकज्ञानाभावकाल उक्तानुमित्यापत्तिः सम्भवतीति विभाव्यते, तदा यत्र व्यतिरेकपरामों विद्यते स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानं च समस्ति तत्र प्रथिवीतरभेदानुमित्युत्पत्तिग्नु स्यादन्वयव्याप्तिज्ञानाभावात् , इतरभेदलक्षणसाध्यविशेष्यकपृथिवीरूपपक्षप्रकारिकैव 'पृथिव्यामितरभेदः' इत्याकारकानुमितिस्तदानीमुत्पद्यत इति च वक्तुमशक्यम् , साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधित्वेन स्वातन्त्र्यणेतरभेदत्वप्रकारकज्ञानस्य साध्यप्रसिद्धिरूपतया तद्रूपप्रतिबन्धकसत्त्वे तादृशानुमित्युत्पादासम्भवात् , व्यतिरकपरामर्शतो 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी पृथिवीतरभिन्ना' इति रोत्याऽनुमितिर्जायत एवेत्यपि न वाच्यम्, तथा सति साध्यज्ञानं नास्ति साध्यप्रसिद्धिरूप

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210