Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 114
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । व्याप्येन्धनवान्' इत्यादावपि सम्भवतीत्यलं दीधितिकृतः खण्डशो निरुक्त्या, इयमेवानुमित्यादिजनकतावच्छेदिका, नानाप्रकारतादिघटितधर्मस्य जनकताद्यवच्छेदकत्वे गौरवादिति । अथ 'दण्डो रक्तः' इति निर्णयस्य रक्तत्व-दण्डत्वोभयधर्मावच्छिन्नप्रकार ताकत्वं जन्यतावच्छेदकमित्यभ्युपगमेऽपि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारक निर्णयजन्ये 'दण्डरत्नवान्' इति विशिष्टवैशिष्ट्य बोधे व्यभिचार इति चेत् ? न- रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यताशालित्वस्यापि तादृशनिर्णयजन्यतावच्छेदके प्रवेशात्, उक्तस्थले दण्डत्वप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताया एव सत्वात्, उभयधर्मावच्छिन्नप्रकारतां वैशिष्ट्यबुद्धित्वमिति - अस्य 'सम्भवति' इत्यनेनान्वयः उक्तलक्षणं यद् विशिष्टबुद्धित्वं तद् वह्निन्याप्येन्धनवानित्यादावपि सम्भवति, यतोव ह्निव्याप्तिस्तदभाववदवृत्तित्वरूपा प्रसिद्धैव, इन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यरूपायामपि तत्रानवच्छेद करवान्तमन्यत्र प्रसिद्धमिति तदात्मकव्यधिकरण धर्मनिष्ठावच्छेदकतानिरूपितवह्नित्वनिष्ठावच्छेदकतानिरूपितेत्यादिक्रमेण तत्तद्धर्मनिष्ठावच्छेदकतानिरूपितेन्धननिष्ठप्रकारतानिरूपकज्ञानत्वं 'वह्निव्याप्येन्धनवान्' इति ज्ञानेऽपि सम्भवतीति तद्रूपेण तस्य कारणत्वं वह्नचनुमितौ भ्रमदशायां सम्भवतीति 'वह्निव्याप्येन्धनवान्' इति भ्रमात्मकपरामर्शस्योक्तानुमितिं प्रति कारणत्वोपपत्तये प्रकृतहेतुतावच्छेदकनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छेय प्रकृति हेतुनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छेद्याधिकरणनिष्ठप्रकारतानिरूपित विशेष्यत्वा वच्छेद्यवृत्तित्वनिष्ठप्रकारतानिरूपित विशेष्यत्वावच्छेद्या भावनिष्ठप्रकारतानिरूपित विशेष्यत्वावच्छेद्यप्रतियोगित्वनिष्टप्रकारतानिरूपित्तविशेष्यत्वाच्छेद्यप्रतियोगित्वसम्बन्धावाच्छिनावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वा वच्छेद्या भावनिष्प्रकारता निरूपितविशेष्यत्वावच्छेयाधेयत्वसम्बन्धावच्छिन्नसाध्यतावच्छेद कनिष्ठ प्रकारतानिरूपित विशेष्यत्वावच्छेद्य निरूपित्वसम्बन्धावच्छिन्नावच्छेदकत्वनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छेद्यनिरूपितत्वसम्बन्धावच्छिन्ननिरूपकत्वनिष्ठप्रकारता निरूपित विशेष्यत्वात्रच्छेद्याधिकर णत्वनिष्टप्रकारता निरूपित विशेष्यत्वावच्छिद्यनिरूपितत्वसम्बन्धावच्छिन्ना धिकरणनिष्ठप्रकारता निरूपित विशेष्यत्वाचच्छेद्यवृत्तित्वनिष्टप्रकारता निरूपित विशेष्यत्वावच्छेद्यहेतुतावच्छेदकसम्बन्धावच्छिन्न हेतुता वच्छेदकधर्मावच्छिन्नहेतुनिष्ठप्रकारता निरूपितपक्षतावच्छेदकावच्छिन्नपक्षनिष्ठविशेष्यताक निश्चयत्वेन खण्डशः प्रसिद्धया परामर्शस्यानुमितिं प्रति कारणत्वमित्यभिप्रायेण दीधितिकृतः खण्डशो निरुक्त्या, अलं पर्याप्तम्, तथा निर्वचनस्य न किञ्चित्प्रयोजनमित्यर्थः । इयमेव अनन्तरोपवर्णिता तत्तन्निष्ठावच्छेदकता निरूपित प्रकारता कबुद्धित्वलक्षणा विशिष्टवैशिष्ट्यबुद्धितैव । दीधितिकृदभिमतधर्मस्य नानाप्रकारतादिघटितधर्मस्य गुरुभूतत्वेनानुमितिजनकतावच्छेदकत्वाभावादित्याह - नानेति । 'प्रकारतादि' इत्यादिपदान्नानाविशेष्यत्वानामुपग्रहः, अनेन च 'विशेध्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्त्यादिजनकताव च्छेदिकेति साम्प्रदायिकमतमपि निरस्तं भवति, तत्र रक्तत्वनिष्प्रकारता निरूपितदण्डत्वावच्छिन्नविशेष्यत्वावच्छेद्यदण्डत्वनिष्टावच्छेदकतानिरूपित दण्ड निष्टप्रकार ताक बुद्धरेव 'विशेष्य विशेषणम्' इति रीत्या बुद्धित्वेन तेन रूपेणानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारताविशेष्यत्वा दिघटितधर्मस्य तदवच्छेत्ये गौरवं स्याद् उक्तदिशा निरुक्तेन तत्तधर्मनिष्ठावच्छेदकतानिरूपितप्रकारताकबुद्धित्वलक्षणविशिष्टवैशिष्ट्य बुद्धित्वेनानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारत्व - विशेध्यत्वादीनां कारणत्वावच्छेदक घटकत्वाभावाल्लाघवमित्याशयः । ननु रक्तत्वस्वरूपविशेषणतावच्छेदकधर्मप्रकारकदण्डविशेष्यक निर्णयस्य 'दण्डो रक्त:' इत्याकारकस्य जन्यतावच्छेदकं भवन्मते रक्तत्व दण्डत्वोभयपर्याप्तावच्छेदकताकदण्डनिष्टप्रकारताच बुद्धित्वलक्षणं रक्तत्व विशिष्टदण्ड वैशिष्टघावगाहिबुद्धित्वम्, तद् यथा 'रक्तदण्डवान्' इति बुद्धौ वर्तते तथा रक्तत्वावच्छिन्नविशेष्यकदण्डत्वप्रकारक निर्णय स्वरूपस्य 'रक्तो दण्ड :' इति निर्णयस्य जन्ये 'दण्डस्तवान्' इति विशिष्टयवैशिष्ट्यबोधेऽपि वर्तत इति सोऽपि 'दण्डो रक्त:' इति रक्तत्वप्रकार कदण्डविशेष्यक निर्णयजन्यतावच्छेदका कान्तः, स तु रक्तत्व प्रकार कदण्डविशेष्यक निर्णयमन्तरेणैव रचत्वावच्छिन्नविशेष्यकदण्डवप्रकारक निर्णयादुपजायत इति व्यतिरेकव्यभिचारेणोक्तरीत्या विशेषणतावच्छेदकप्रकारकनिर्णय विशिष्टवैशिष्ट्य बोभयोः कार्यकारणभावे न सम्भवतीति शङ्कते अथेति । 'दण्डरत्नवान' इत्यस्य स्थाने 'दण्डरक्तवान्' इति पाठो युक्तः । दण्डत्व-रक्तत्वोभयर्पाप्तावच्छेदकताकदण्ड निष्टप्रकारतानिरूपकत्वे सति रक्तत्व निष्टप्रकार तानिरूपित दण्डत्वावच्छिन्न विशेष्यताशालिबुद्धत्वस्यैव रक्तरवनिष्ठप्रकारता निरूपितदण्डत्वावच्छिन्न विशेष्यताशालिनिर्णयजन्यतावच्छेदकतया स्वीकारेण दण्डरक्तवान् ' इति बोधे दण्डत्वनिष्टप्रकारता निरूपित र क्तत्वावच्छिन्न विशेष्यतानिरूपके रक्तत्व निष्ठप्रकारतानिरूपित दण्डत्वावच्छिन्न विशेष्यता ८८

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210