Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 99
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । } चित्रप्रत्यश्नानुपपत्तेश्चित्रावयवारब्धचित्रप्रहेऽवयवविषयक नीलेतर रूपत्वादिव्याप्यचित्रत्वावच्छिन्न प्रकारकग्रहस्यैव हेतुत्वात् यदि च नीलेतररूप- पीतेतर रूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिप्रहप्रतिबन्धक दोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम्, अतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदा अनन्तहेतु हेतुमद्भावकल्पना गौरवाचित्रत्वं व्यासज्जवृत्त्येव तत्र च समानाधिकरणनानारूपप्रहव्यङ्ग्यत्वमित्येव कल्प्यमानं शोभते, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूप महत्वेनैव हेतुत्वात् उक्तहेत्वभावे चित्रत्व विनिर्मुक्तचित्र प्रत्यक्षस्य चोभयोस्तुल्यत्वात्, यदि च नानावयवावच्छिन्न पर्यायवृत्तिरेकं चित्रमध्यनुभूयते, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, तदैकानेक चित्रद्रव्यस्वभावाभ्युपगमं विना न काप्युपपत्तिः, देश-स्कन्धनियतधर्मात हामी ग्राह्यत्वेनैवोक्तोपपत्तेर्देश- स्कन्धपरिमाण विशेष ग्रहेऽपीयमेव गतिरिति दिक् । किञ्च, नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिः, अवयवगतोत्कृष्टा ऽपकृष्टनीलाभ्यामपि चित्रसम्भवात्, ते चोत्कर्षा विचार्यमाणा अनन्ता एव, तदाहुः श्रीसिद्धसेना:हेतुत्वमित्याह त्र्यणुकचित्ररूपाग्रह इति । 'अवयवविषयक' इति स्थाने अवयवविशेष्यक' इति पाठो युक्तः, अत्र च समानविशेष्यतया कार्यकारणभावो न सम्भवति, कार्य कारणयोर्विभिन्नविशेष्यकत्वात् किन्तु समवायलक्षणसामानाधिकरणप्रत्यासत्त्यैव कार्यकारणभाव इति बोध्यम् । ननु नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्य चित्रप्रत्यक्षे हेतुत्वम्, तत्रावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धक दोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम्, अतत्रसरेणुश्चित्रस्यापि प्रत्यक्षं सम्भवति, यतो नीलेतररूप-पीतेतररूपादिमद् यद् द्व्यणुकं तद्रूपत्रसरेण्ववयवावच्छेदेने न्द्रियसन्निकर्षोऽपि विद्यते, द्वयणुकलक्षणावयवनीलस्याऽयोग्यत्वादेव प्रत्यक्षाभावे तद्वतनीलत्वस्यापि तते एव ग्रहणं न भवतीति न तत्प्रतिबन्धक दोषकल्पनेति तादृशदोषाभावोऽपि विद्यत इति तद्रूपकारणसद्भावादित्यत आह- यदि चेति । एवं सत्यनन्तहेतुहेतुमद्भावकल्पनागौरवं स्यादित्याह - तदेति । तर्हि किमम्युपेयमित्यपेक्षायामाह - चित्रत्वमिति । 'व्यासज्जवृस्येव ' इति स्थाने 'व्यासज्यवृत्त्येव' इति पाठो युक्तः, तस्य चात्रयविगतनील-पीतादिचित्रपर्याप्तवृत्त्येवेत्यर्थः । तत्र च निरुक्तचित्रत्वे च । समानाधिकरणनानारूपग्रहव्यङ्ग्यत्वम् एकाधिकरणवृत्तिनानारूपग्रहजन्यप्रत्यक्षविषयत्वम् । इत्थं कल्पने गौरवं स्यादित्याशङ्क्य प्रतिक्षिपति - नह्येवं गौरवमिति । उक्तहेत्वभावे सामानाधिकरण्यसम्बन्धेन रूरविशिष्टरूपप्ररूपकारणाभावे । चित्रत्वेन चित्ररूपग्रह एव तस्य कारणत्वमुपेयते, न तु चित्रप्रत्यक्षमात्र इति निरुक्तकारणाभावे चित्रत्वेन चित्रप्रत्यक्षं माना जायताम्, चित्रप्रत्यक्षं तु स्यादेवेत्याह- चित्रत्वविनिर्मुक्तेति- चित्रत्वाविषयकेत्यर्थः । उभयोः तव मम च । ननु चित्रावयविनि प्रत्येकावयवावच्छेदेन नीलादिकमपि विद्यते, नानावयवावच्छेदेनैकं चित्रमपि विद्यत इत्यभ्युपगमस्तत्राह - यदि चेति । नानावयचावच्छिन्नपर्यायवृत्तिः नानावयवावच्छिन्नावयव्यात्मकपर्यायवृत्तिः । अत एव नानावयवावच्छिन्नपर्यायवृत्त्येकचित्राभ्युपगमादेव । तथा सत्यनायासेन स्याद्वाद आपतितः, तमन्तरेणेत्थमभ्युपगमाऽसम्भवादित्याह - तदेति - एकस्वभावत्वेन चित्ररूपमपि तत्र विद्यते, नानास्वभावत्वेन नानारूपाण्यपि तत्र विद्यन्त इति स्याद्वादः सिद्ध इत्याशयः । एकैकावयवावच्छेदन चक्षुस्सन्निकर्ष एकैकावयवावच्छिन्नवृत्तिक शुक्लादिप्राहकः, नानावयवावच्छेदेन चक्षुस्सन्निकर्षो नानावयवावच्छिन्नवृत्ति कचित्ररूपप्राहक इत्येवं विभिन्नसामग्री ग्राह्यत्वेनोत्तोपपत्तिः सम्भवतीत्याह- देशेतिशुक्लादिर्देशनियतो धर्मः, चित्रं तु स्कन्धनियतो धर्म इति बोध्यम् । तग्राहकेति - देशस्कन्धप्राह केत्यर्थः । यथा च चित्रपटाद नानारूपैकरूपग्रहयोरुक्तदिशोपपत्तिस्तथैका ऽनैकपरिमाणविशे षग्रहाणामप्युक्तदिशैवोपपत्तिरित्याह- देश-स्कन्धपरिमाणविशेषग्रहेऽपीति । यथा च नील-पीताभ्यां नील- रक्ताभ्यामित्येवं रूपद्रयवद्भयां तथा विजातीयरूपत्र - विजातीयरूपचतुष्टयादिभिरवयवैरारब्धेष्ववयविषु चित्ररूपोत्पत्तिः, तथैकजातीयरूपवद्भयां नील-नीलतरावयवाभ्यामेवं पीत-पीततरावयवाभ्यां नील-नीलतर- नीलतमावयवैः पीत- पीततर- पीततमावयवैरारब्धेष्ववयविषु विलक्षण विलक्षणचित्रोत्पत्तिरनुभूयत इति तेषामपि चित्रं प्रति कारणत्वमभ्युपगन्तव्यमेवेत्याह- किञ्चेति । ते चोत्कर्षाः अवयवनीलादिगता उत्कर्षाः । १० ७३

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210