Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 106
________________ ६० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । भयावच्छिन्नदण्डनिष्ठप्रकारताभिन्नाया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारताया आनुभविकत्वात् । किश्च, रक्तदण्डवान्' इत्यादिवाक्यादयुगपदुपस्थितस्वघटका खिलपदार्थाज्जायमानाया अनन्वितान्वयबुद्धेः ' रक्तो दण्डो दण्डवान् पुरुषः' इति वाक्यज समूहालम्बनावैलक्षण्ये ' रक्तदण्डाभाववान् ' इत्यादिवाधधीकालेऽप्युत्पत्त्यापत्तिरिति तत्प्रति यध्यतावच्छेदकतयैव तसिद्धिः, उक्तबाधधियो रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकधियैव प्रतिबध्यत्वात् , विशिष्टवैशिष्ट्यविषयताया बाधप्रतिबध्यतावच्छेदकत्वे उक्तस्थल एव अनुपपत्तः । अपि केवलदण्डत्वावच्छिन्नैव न तु रक्तरूपावच्छिन्न ऽपि, उपलक्षणधर्मस्य प्रकार त्वमेव स्वीक्रियते, 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम् ' इति ज्ञाने च विशेषणान्तरस्योपलक्षणत्वमेवेत्येवं विशिष्टवैशिष्ट्यावगाहिज्ञानीय प्रकारतालक्षणविषयतातो 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतालक्षणविषयताया भेदः, समूहालम्बने तु पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्टप्रकारता रक्तरूपावच्छिन्नप्रकारतानिरूपिताऽपि न भवतीति तस्या निरुक्तज्ञानद्वयनिरूपितप्रकारताभ्यामत्यन्तमेव वैलक्षण्यम् , तादृशी च प्रकारताउनुभूयमाना नापलपितुं शक्येत्यावेदनाय 'आनुभविकत्वाद' इत्युक्तमिति । अपि च “ यद्यदाकासितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते" ॥१॥ [ ] इति वचनातू खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोध इत्येकेषां मतम् , तन्मते प्रथमं 'रक्तो दण्डः' इत्याकारको बोधः, तद्रूपविशेषणतावच्छेदकप्रकार ज्ञानबलात् तदनन्तरं जायमाने रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे भासत इति युज्यते पुरुषनिष्टविशेष्यतानिरूपितदण्डनिष्टप्रकारतायां रक्तत्व-दण्डत्वोभयावच्छिन्नत्वम् । यदा तु--"वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत् पदार्थाः परस्परेणान्वयिनो भवन्ति " ] इति वचनात् 'रक्तदण्डवान् पुरुषः' इति वाक्याद् युगपदुपस्थितस्वघटकाखिलपदार्थाजायते 'रक्तदण्डवान् पुरुषः' इति शाब्दबोध इति मतमाश्रीयते, तन्मते न खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोधः, किन्तु प्रथमत एव महावाक्यार्थबोध आविरस्ति, तदा विशिष्टवैशिष्ट्या वगाहिबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावात् तस्मिन् बोधे रमत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे न भासते, किन्तु उपस्थित्यात्मकविशेषणज्ञानरूपकारणबलाद् । विशेष्ये विशेषणम्' इति रीत्यैव बुद्धिरुपजायते, तस्यां च दण्डत्वावच्छिन्नप्रकारता रक्त. रूपत्वावच्छिन्नप्रकारतानिरूपिता भवति, न तु रक्तरूपत्वावच्छिन्नावच्छेदकतानिरूपिता, तस्याश्च बुद्ध रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वरूपस्य रिक्तदण्डाभाववान् पुरुषः' इत्यादिबानिश्चयप्रतिबध्यतावच्छेदकधर्मस्यास्पदत्वेन निरुक्तबाधकालेऽनुत्पत्तिनिर्वहति, यदि चोक्तबुद्धेः 'रक्तो दण्डो दण्डवान् पुरुषः' इति वाक्यजन्यसमूहालम्बनबुद्धितो बैलक्षण्यं न भवेत् न तदा निरुक्तबाधबुद्धिप्रतिबध्यतावच्छेदकोक्तधर्मा. कान्त तेत्युक्तबाधबुद्धिकालेऽप्युत्पत्तिरापद्येत, अत एव चोक्तबाधबुद्धेनं रकरूप-दण्डत्वोभयावच्छिन्नदण्डनिष्टप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धिवं विशिष्टवैशिष्टयबोधमात्रगतं प्रतिबध्यतावच्छेदक मिल्याह-किश्चेति । वाक्यादयुगपदुपस्थिता' इति स्थाने 'वाक्याद् युगपदुपस्थिता ' इति पाठो युक्तः । अनन्वितास्वयबुद्धेरिति-पूर्व मनन्विततयोपस्थितानां पदार्थानामन्वयबुद्धेरित्यर्थः, एतेन विशिष्टवैशिष्ट्यबोधकारणास्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावान्नास्या विशिष्टवैशिष्टयबुद्भित्वमित्या वेदितम् , अस्याः “समूहालम्बनालक्षघ्यै ' इत्यत्र 'उत्पत्त्यापत्तिः' इत्यत्र चान्वयः । तत्प्रतिबध्यतावच्छेदकतयैव रक्तदण्डाभाववान् ' इत्यादिवाधधीप्रतिबध्यतावच्छेकतयैव । तत्सिद्धिः रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्ध दण्डत्वावच्छिन्नदण्डनिष्टप्रकारतायाः सिद्धिः, तथातत्सिद्धिमेव भावयति-उक्तबाधधिय इति- 'रक्तदण्डाभाववान् ' इत्यादिवाधिय इत्यर्थः, अस्य प्रतिबध्यत्वाद्' इत्यनेनान्वयः, अस्य प्रतिबध्यप्रतिबन्धकभावादित्यर्थः । 'धियव' इत्यस्य धिया स हैवेत्यर्थः, 'प्रतिबध्यत्वाद् इत्यस्य यथाश्रतार्थपरत्वे तु ‘धियैव ' इति स्थाने 'धीत्वेनैव ' इति पाठो युक्तः। विशिष्टवैशिष्ट्यविषयतायाः रक्तरूपदण्डत्योभयावच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यतायाः । उक्तस्थल एव 'रक्तदण्डवान्' इत्यादिवाक्याधुगपदुपस्थितस्वघटकाखिलपदार्थाजायमानायां विशेष्ये विशेषणम्' इत्यादिरीत्या बुद्धावेव। अनुपपत्तेः ' रक्तदण्डाभाववान् ' इत्यादिवाधबुद्धिप्रतिबध्यत्वानुपपत्तेः। यदि च प्रथम ‘विशेष्ये विशेषणम् ' इति रीत्योक्तवाक्यादन्वयबोधः' अनन्तरं विशिष्टवैशिष्टयावगाहिमानसबोध उपजायते, तद्विषयताया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपित शुद्धदण्डत्वावच्छिन्न प्रकारतानिरूपितपुरुषत्वावच्छिन्न

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210