________________
६०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । भयावच्छिन्नदण्डनिष्ठप्रकारताभिन्नाया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारताया आनुभविकत्वात् । किश्च, रक्तदण्डवान्' इत्यादिवाक्यादयुगपदुपस्थितस्वघटका खिलपदार्थाज्जायमानाया अनन्वितान्वयबुद्धेः ' रक्तो दण्डो दण्डवान् पुरुषः' इति वाक्यज समूहालम्बनावैलक्षण्ये ' रक्तदण्डाभाववान् ' इत्यादिवाधधीकालेऽप्युत्पत्त्यापत्तिरिति तत्प्रति यध्यतावच्छेदकतयैव तसिद्धिः, उक्तबाधधियो रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकधियैव प्रतिबध्यत्वात् , विशिष्टवैशिष्ट्यविषयताया बाधप्रतिबध्यतावच्छेदकत्वे उक्तस्थल एव अनुपपत्तः । अपि केवलदण्डत्वावच्छिन्नैव न तु रक्तरूपावच्छिन्न ऽपि, उपलक्षणधर्मस्य प्रकार त्वमेव स्वीक्रियते, 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम् ' इति ज्ञाने च विशेषणान्तरस्योपलक्षणत्वमेवेत्येवं विशिष्टवैशिष्ट्यावगाहिज्ञानीय प्रकारतालक्षणविषयतातो 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतालक्षणविषयताया भेदः, समूहालम्बने तु पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्टप्रकारता रक्तरूपावच्छिन्नप्रकारतानिरूपिताऽपि न भवतीति तस्या निरुक्तज्ञानद्वयनिरूपितप्रकारताभ्यामत्यन्तमेव वैलक्षण्यम् , तादृशी च प्रकारताउनुभूयमाना नापलपितुं शक्येत्यावेदनाय 'आनुभविकत्वाद' इत्युक्तमिति । अपि च “ यद्यदाकासितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते" ॥१॥ [
] इति वचनातू खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोध इत्येकेषां मतम् , तन्मते प्रथमं 'रक्तो दण्डः' इत्याकारको बोधः, तद्रूपविशेषणतावच्छेदकप्रकार ज्ञानबलात् तदनन्तरं जायमाने रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे भासत इति युज्यते पुरुषनिष्टविशेष्यतानिरूपितदण्डनिष्टप्रकारतायां रक्तत्व-दण्डत्वोभयावच्छिन्नत्वम् । यदा तु--"वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत् पदार्थाः परस्परेणान्वयिनो भवन्ति "
] इति वचनात् 'रक्तदण्डवान् पुरुषः' इति वाक्याद् युगपदुपस्थितस्वघटकाखिलपदार्थाजायते 'रक्तदण्डवान् पुरुषः' इति शाब्दबोध इति मतमाश्रीयते, तन्मते न खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोधः, किन्तु प्रथमत एव महावाक्यार्थबोध आविरस्ति, तदा विशिष्टवैशिष्ट्या वगाहिबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावात् तस्मिन् बोधे रमत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे न भासते, किन्तु उपस्थित्यात्मकविशेषणज्ञानरूपकारणबलाद् । विशेष्ये विशेषणम्' इति रीत्यैव बुद्धिरुपजायते, तस्यां च दण्डत्वावच्छिन्नप्रकारता रक्त. रूपत्वावच्छिन्नप्रकारतानिरूपिता भवति, न तु रक्तरूपत्वावच्छिन्नावच्छेदकतानिरूपिता, तस्याश्च बुद्ध रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वरूपस्य रिक्तदण्डाभाववान् पुरुषः' इत्यादिबानिश्चयप्रतिबध्यतावच्छेदकधर्मस्यास्पदत्वेन निरुक्तबाधकालेऽनुत्पत्तिनिर्वहति, यदि चोक्तबुद्धेः 'रक्तो दण्डो दण्डवान् पुरुषः' इति वाक्यजन्यसमूहालम्बनबुद्धितो बैलक्षण्यं न भवेत् न तदा निरुक्तबाधबुद्धिप्रतिबध्यतावच्छेदकोक्तधर्मा. कान्त तेत्युक्तबाधबुद्धिकालेऽप्युत्पत्तिरापद्येत, अत एव चोक्तबाधबुद्धेनं रकरूप-दण्डत्वोभयावच्छिन्नदण्डनिष्टप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धिवं विशिष्टवैशिष्टयबोधमात्रगतं प्रतिबध्यतावच्छेदक मिल्याह-किश्चेति । वाक्यादयुगपदुपस्थिता' इति स्थाने 'वाक्याद् युगपदुपस्थिता ' इति पाठो युक्तः । अनन्वितास्वयबुद्धेरिति-पूर्व मनन्विततयोपस्थितानां पदार्थानामन्वयबुद्धेरित्यर्थः, एतेन विशिष्टवैशिष्ट्यबोधकारणास्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावान्नास्या विशिष्टवैशिष्टयबुद्भित्वमित्या वेदितम् , अस्याः “समूहालम्बनालक्षघ्यै ' इत्यत्र 'उत्पत्त्यापत्तिः' इत्यत्र चान्वयः । तत्प्रतिबध्यतावच्छेदकतयैव रक्तदण्डाभाववान् ' इत्यादिवाधधीप्रतिबध्यतावच्छेकतयैव । तत्सिद्धिः रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्ध दण्डत्वावच्छिन्नदण्डनिष्टप्रकारतायाः सिद्धिः, तथातत्सिद्धिमेव भावयति-उक्तबाधधिय इति- 'रक्तदण्डाभाववान् ' इत्यादिवाधिय इत्यर्थः, अस्य प्रतिबध्यत्वाद्' इत्यनेनान्वयः, अस्य प्रतिबध्यप्रतिबन्धकभावादित्यर्थः । 'धियव' इत्यस्य धिया स हैवेत्यर्थः, 'प्रतिबध्यत्वाद् इत्यस्य यथाश्रतार्थपरत्वे तु ‘धियैव ' इति स्थाने 'धीत्वेनैव ' इति पाठो युक्तः। विशिष्टवैशिष्ट्यविषयतायाः रक्तरूपदण्डत्योभयावच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यतायाः । उक्तस्थल एव 'रक्तदण्डवान्' इत्यादिवाक्याधुगपदुपस्थितस्वघटकाखिलपदार्थाजायमानायां विशेष्ये विशेषणम्' इत्यादिरीत्या बुद्धावेव। अनुपपत्तेः ' रक्तदण्डाभाववान् ' इत्यादिवाधबुद्धिप्रतिबध्यत्वानुपपत्तेः। यदि च प्रथम ‘विशेष्ये विशेषणम् ' इति रीत्योक्तवाक्यादन्वयबोधः' अनन्तरं विशिष्टवैशिष्टयावगाहिमानसबोध उपजायते, तद्विषयताया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपित शुद्धदण्डत्वावच्छिन्न प्रकारतानिरूपितपुरुषत्वावच्छिन्न