________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
८
१
च विशकलितज्ञानाद् व्यापकविषयताशालिमानसस्वीकारेण तत्साधारण्येनैव प्रतिबध्यत्वं युक्तिमत् । अथैवं 'दण्डो रक्तो नवा ?' इति संशयकाले उक्तवाक्याद् 'विशेष्ये विशेषणम् ' इति रीत्याऽन्वयबोधापत्तिरिति चेत् ? न-प्रथममिष्टत्वात् , अनन्तरं च विशिष्टस्य वैशिष्ट्यम्' इति रीत्याऽन्वयधियः सम्भवात् तदनुभवोऽप्यविरुद्धः, प्रात्यक्षिकी बुद्धिरप्युक्तसंशयकाले रक्तत्वांशे संशयाकारा इष्टैव । यत् तु 'घट-पटत्वादिनिर्विकल्पोत्तरं 'घटवद्' इत्यादिधीः 'विशेष्ये विशेषणम्' इति रीत्या जायते, इति, विशेष्यतात्वाभावेन निरुक्तप्रतिबध्यतावच्छेदकत्वाभावान्न तादृशमानसस्योक्तवाधबुद्धिप्रतिबध्यत्वं स्यादिति निरुक्तबाधधीकाले. ऽपि तादृशमानसबुद्धयापत्तिरिति विभाव्यते, तदोक्त प्रतिबध्यतावच्छेदकप्रविष्टशुद्धदण्डत्वावच्छिन्नप्रकारतास्थाने दण्डत्वावच्छिन्नप्रकारतेत्येव वाच्यम् , दण्डत्व-रक्तरूपोभयावच्छिन्नप्रकारताऽपि दण्डत्वावच्छिन्नप्रकारता भवत्येव, अवच्छेदकीभूतस्यापि रक्तत्वस्य प्रकारत्वं भवत्येवेति तस्यां रक्तरूपत्वावच्छिन्न प्रकारतानिरूपितत्वमपीत्येकैनव तेन रूपेण 'विशेष्ये विशेषणम् । इति रीत्या ज्ञानस्य विशिष्टवैशिष्टयावगाहिनश्चोक्तबाधबुद्धिप्रतिबध्यत्वं सुसङ्गतमेवेत्याशयेनाह- अपि चेति । विशकलितज्ञानात ' विशेष्ये विशेषणम्' इति रीत्या ज्ञानात् । व्यापकविषयेति - विशिष्टवैशिष्टय. विषयतेत्यर्थः, विशिष्टवैशिष्टयं सर्वमपि विशकलितं स्वघटकत्वेन व्याप्नोतीति तद्विषयताया व्यापकविषयतात्वं बोध्यम् । तत्साधारण्येनैव विशिष्टवैशिष्ट्यविषयताशालिमानसबोधसाधारण्येनैव । प्रतिवध्यत्वं बाधबुद्धिप्रतिबध्यत्वम्, एतेनानु मितेरपि विशिष्टवैशिष्टयबोधरूपाया उक्तवाधबुद्धिप्रतिबध्यत्वं निर्वहतीति बोध्यम् । ननु ' रक्तदण्डवान् पुरुषः' इत्यादिवाक्या 'विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगमे तं प्रति विशेषणज्ञानस्यैव कारणत्वम्, न तु विशेषणतावच्छेक प्रकारकनिश्चयस्य तत्त्वमिति • दण्डो रक्तो नवा ?' इति संशयानन्तरमप्युक्तवाक्यात् तथावोधापत्तिः संशयरूपस्य विशेषणज्ञानस्य सत्त्वात् , रकत्वप्रकारकदण्डविशेष्यकनिश्चयलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयस्यानपेक्षणादिति शङ्कते- अथेति। एवम् उक्तदिशा 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानस्य समर्थने । संशयकाले संशयोत्पत्ति. द्वितीयक्षणे, विशेषणतावच्छेदकप्रकारकनिश्चयाभावे उक्तवाक्याद् ‘दण्डो रको नवा ?' इति संशयद्वितीयक्षणे 'विशेष्ये विशेषणम्' इति रीत्या बोधो जायत एव, तादृशबोधलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयतश्च 'विशिष्टस्य वैशिष्टयम्' . इति रीत्याऽन्वयबोधोऽप्युपजायते, अत एव तथाविधान्वयबोधानुभवोऽपि न विरोधमधिवसतीति समाधत्ते-- नेति । प्रथमं विशिष्टस्य वैशिष्टयम् ' इति रीत्याऽन्वयबोधोत्पत्तेः प्राक्क्षणे। इष्टत्वात् 'विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगतत्वात् , तथा च 'दण्डो रक्तो नवा?' इति संशयानन्तरमुक्तवाक्याद् ‘विशेध्ये विशेषणम्' इति रीत्या बोधापादनमिष्टापत्तिरूपत्वान्न दोषावहमिति भावः । अनन्तरं च 'विशेध्ये विशेषणम्' इति रीत्या बोधानन्तरं पुनः । तदनुभवोऽपि विशिष्टवैशिष्टयबोधानुभवोऽपि. यथा च ' दण्डो रक्तो नवा?' इति संशयानन्तरं 'रक्तदण्डवान् पुरुषः' इत्यादिवाक्याद् ‘विशेष्ये विशेषणम्' इति रीत्याऽन्वयबोधो भवति, तथोक्तसंशयानन्तरं “रक्तदण्डवान् पुरुषः। इति प्रत्यक्षबोधोऽप्युपजायते, स च रक्तत्वांशे संशयरूप इत्याह-प्रात्यक्षिकी बद्धिरपीति । घट घटत्वयोनिर्विकल्पकज्ञानानन्तरं “घटः' इति ज्ञानम् , तदनन्तरं घटत्वविशिष्टघटस्य वैशिष्ट्यावगा हि घटवद्' इत्यादि ज्ञानं भवतीति वस्तुस्थितिः, तत्र केचिद् घट-घटत्वयोनिर्विकल्पकज्ञानानन्तरमेव 'घटबद्' इति ज्ञान भूतले घटस्तत्र घटत्वमित्येवं रीत्याऽभ्युपगच्छन्ति, तन्मतं दूषयितुमुपन्यस्यति- यत् स्विति । भूतला दिनिष्ठविशेध्यतानिरूपिता या घटनिष्टप्रकारता सातैः सावच्छिन्नाऽभ्युपेयते ? निरवच्छिन्ना?, तत्रान्त्यविकल्पो न सम्भवति, 'जात्यखण्डोपाध्यतिरिक्तस्य किश्चिद्रूपेणैव भानम्। इति नियमेन जात्यखण्डोपाध्यतिरिक्तघटनिष्टप्रकारतोया निरवच्छिन्नत्वासम्भवात् , उक्तनियममनादृत्य घटनिष्ठप्रकारताया निरवच्छिन्नत्वोपगमस्त्वपसिद्धान्तकवलितत्वादेय परीक्षकाणामनादेयः, 'विशेष्य विशेषणम्' इति रीत्या ज्ञाने चासंसर्गग्रहस्य प्रतिबन्धकत्वं तदभावस्य च प्रतिबन्धकाभावविधया तत्र कारणत्वम्, न च निरवच्छिन्न घटनिष्ठप्रकारताकज्ञानस्य कस्यचित् प्रतिवध्यत्वमिति तादृशज्ञानविरोधी नासंसर्गग्रहः सम्भवतीति तदभावरूपकारणाभावादपि तथाबोधो न सम्भवति, निर्विकल्पक ज्ञानरूपविशेषणज्ञानाच्च घटत्वादिनिष्ठप्रकारताकघटनिष्ठनिरवच्छिन्नविशेष्यताकज्ञानस्वरूप 'घटः' इत्येव ज्ञानमुपजायते न तु निर्विकल्पात्मकं ज्ञानं 'विशेष्ये विशेषणम् ' इति रीत्या जायमानज्ञाने विशेषणज्ञानविधया कारणम् , किन्तु तत्र सप्रकारकमेव विशेषणज्ञानं कारणमिति निर्विकल्पात्मकविशेषणधियो 'विशेष्ये विशेषणम् ,' इति रीत्या ज्ञानेऽहेतुत्वाचन ततो निरवच्छिन्नघटनिष्ठप्रकारताकबोधसम्भवः; घटनिष्ठप्रकारता सावच्छिन्नेति प्रथमपक्षाभ्युपगमे तु