________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
3
तत्र घटाद्यंशे तद्विप्रकारताया निरवच्छिन्नस्नेऽपसिद्धान्तः, जात्यतिरिक्तस्य किञ्चित्प्रकारेणैव भानात्, ताशधी विरोधिनोऽसंसर्गग्रहस्यासम्भवात् तथाविशेषणधियोऽहेतुत्वाथ, तस्या घटत्वाद्यवच्छिन्नत्वे तु सद्धियः 'घटो नास्ति इत्यादिबुद्धिवद् विशिष्टवैशिष्ट्य धीत्वस्यैव सिद्धे:, तेन प्रकारकज्ञानमेवोपनायकम्, तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्य तद्विषयक ज्ञानत्वापेक्षया लाघवाद विशिष्टवैशि ष्ट्याख्यविषयताशालि प्रत्यक्षत्वमेवेति घटत्वप्रकारकज्ञानोत्तरं जायमानायां 'घटवद्' इति बुद्धौ विशिष्ट - वैशिष्ट्य धीत्वमेव, निर्विकल्पकोत्तरं तु 'विशेष्ये विशेषणम्' इति रीत्या लौकिक विषयताशालिज्ञानस्यैव स्वीकारः, न च ' दण्डः' इत्याद्यात्मक मानस बोधासङ्ग्रहः, तत्र ज्ञानांशे दण्डस्य प्रकारत्वात्, न कामिन्युतत्र धर्मान्तरस्यावच्छेदकस्याभावाद् घटत्वावच्छिन्नैव सेति घटत्वावच्छिन्न घटनिष्ठप्रकारता निरूपित भूत लत्वाद्यवच्छिन्नविशेष्यताबोध एव 'घटवद् भूतलम् ' इत्याकारक इति तस्य विशिष्टवैशिष्ट्य धीत्वमेव 'भूतले घटो नास्ति ' इत्यादिबुद्धेरिव घटत्वावच्छिन्न प्रतियोगिताका भावत्वावच्छिन्नप्रकारतानिरूपित भूतलत्वावच्छिन्न विशेष्यता निरूपिकाया इव, न तु ' विशेष्ये विशेषणम् ' इति रीत्या बुद्धिरित्याशयवान् तन्मतं दूषयति- तत्रेति तथाऽभ्युपगम इत्यर्थः । तद्विप्रकारतायाः ' इति स्थाने तद्धीप्रकारताया:' इति पाठो युक्तः, घटवद्' इति बुद्धिप्रकारताया इति तदर्थ: 1 घटनिष्ठप्रकारताया निरवच्छिन्नत्वाभ्युगमेऽपसिद्धान्तापत्तिः कथमित्यपेक्षायामाह - जात्यतिरिक्तस्येति । यस्याः ' विशेष्ये विशेषणम्' इति रीत्या विरोधी असंसर्गग्रहः समस्ति सैवासंसर्गामहतो भवितुमर्हति निरवच्छिन्नघटनिष्टप्रकारता कबुद्धेश्वाप्रतिबध्यतया तद्विरोधिनोऽसंसर्गग्रहस्यासम्भवेन तदभावरूपकारणस्याप्यप्रसिद्धद्याभावेन न ततस्तदुत्पत्तिसम्भव इत्याह- तादृशधीविरोधिन इति-- निस्वच्छिन्नघट निष्ठप्रकारता कधीविरोधिन इत्यर्थः, विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रति निर्विकल्पक भिन्नमेव विशेषणज्ञानं कारणमिति निर्विकल्पक विशेषणज्ञानात् तदुत्पत्यसंभव इत्याह- तथाविशेषणधिय इति - निर्विकल्पकविशेषणबुद्धेरित्यर्थः । अहेतुत्वात् विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रत्यकारणत्वात् । तस्या घटाद्यंशे 'घटवद्' इत्यादिधीप्रकारतायाः । तद्धियः 'घटवद्' इत्यादिबुद्धेः । 'विशिष्टयवैशिष्ट्यधीत्वस्यैव' इत्येवकारेण विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदः, ‘तेन' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः तेन - उक्तदिशा 'घटवद्' इति ज्ञानस्य विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदेन, 'प्रकारक' इति स्थाने 'सप्रकारक' इति पाठो युक्तः, अयमन्त्रार्थ:- सप्रकारकमेव ज्ञानं ज्ञानलक्षणप्रत्यासत्तिविधया स्वविषयीभूतार्थस्योत्तरज्ञानेऽवभासकम्, ज्ञानलक्षणप्रत्यासत्तिरूपस्य च संप्रकारक ज्ञानस्य कार्यतावच्छेदकं न लौकिक विषयताशून्यस्वविषयविषयक ज्ञानत्वं गौरवात्, किन्तु तदपेक्षया लाघवाद विशिष्टवैशिष्टयाख्यविषयताशालिप्रत्यक्षत्वमेव कार्यतावच्छेदकम् तथा च ज्ञानलक्षणप्रत्यासत्तिरूपस्य घटत्वप्रकारकज्ञानस्योत्तरं जायमानायां 'घटवद्' इति बुद्धौ घटत्वविशिष्टघटवैशिष्टयधीत्वमेव तथा सत्येव तस्या घटत्वप्रकारकज्ञानकार्यतावच्छेदकाक्रान्तत्वेन तदनन्तरं प्रादुर्भावसम्भवः, घट-घटत्वयोर्निर्विकल्पकं तु न सप्रकारकमतो न तस्य ज्ञावलक्षणविधया कारणत्वं तेन तत्प्रभवे 'घटवद्' इति ज्ञाने नालौकिक विषयतायाः सम्भवः, अलौकिक प्रत्यासतिप्रभव एव ज्ञानेऽलौकिक विषयताया अभ्युपगमात् किन्तु तनिविकल्पकं विशेषणज्ञानविधया 'घटवद्' इति ज्ञाने कारणम्, तस्य च ज्ञानस्य सप्रकारकज्ञान कार्यत्वाभावादेव न विशिष्टवैशिष्टधीत्वम्, किन्तु विशेष्ये विशेषणमिति रीत्या धीत्वमेवेति । ननु दण्डादेर्यो मानसो बोधो न स लौकिकसन्निकर्षप्रभवः, दण्डदीनां बाह्यानां मनोजन्य लौकिकप्रत्यक्षविषयत्वाभावात् किन्त्वलौकिकसन्निकर्षप्रभव एव स इति सप्रकारकज्ञानलक्षणोपनायकज्ञानस्य कार्यतावदच्छेदकं विशिष्टवैशिष्टयाख्यविषयताशालिप्रत्यक्षत्वमेवोपेयते, न च तद् ' दण्डः' इत्यादिमानसज्ञाने दण्डत्वविशिष्टस्य दण्डस्य कुत्रापि वैशिष्टयस्यामानादिति तज्ज्ञानासङ्ग्रहो न स्यादित्याशङ्कय प्रतिक्षिपति- न वेति । तादृशमान से दण्डस्वविशिष्टदण्डस्य वैशिष्ट्यं ज्ञान एव भासत इति तस्य विशिष्टवैशिष्ट्याख्य विषयताशालिप्रत्यक्षत्वं समस्त्येवेति न तदसङ्ग्रह इति निषेधे हेतुमुपदर्शयति- तत्रेति - उक्तमानस इत्यर्थः । ननूपनायकं ज्ञानमेव भवतीति न नियमः, यत्र ज्ञानं नास्ति तत्रापि कामाद्युपनीतं वस्तु मानसे भासत एवेति तादृशमानसे न दण्डादेशनिशेि प्रकारता ज्ञानस्यैवाभावेन तत्र तस्य प्रकारत्वासम्भवात् न च येनोपनीयते तत्रैव प्रकारत्वं सप्रकार क संस्कारस्याप्युपनायकत्वेन संस्कारस्य च मानसलौकिकप्रत्यक्षाविषयत्वेन तद्विशेषणतया बाह्यस्य दण्डादेर्भानाऽसम्भवान्मान से संस्कारदेरनुत्रिरूयमानत्वाचेत्यगत्या तत्र लौकिकविषयताशून्य तद्विषयक ज्ञानत्वमेवोपनायकस्य कार्यतावच्छेदकमुपेयमित्याशङ्कय प्रतिक्षिपति- नेति - अस्य 'निवेशनीयम्' इत्यनन्तरं सम्बन्धः । 'कामिन्युपनीत' इति स्थाने 'कामायुपनीत' इति पाठो
८२