SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । पनीतभानभावे च ज्ञानाभावेऽपि तत्रागत्या लौकिकविषयताशून्यत्वं निवेशनीयम् , तादात्म्येन स्वस्मिन् स्वप्रकारत्वाभ्युगाद्' इत्यादि निरस्तम्, नव्यनये निर्विकल्पकसाधारणप्रत्यासत्तिस्वीकारेणोपनयकार्यतावच्छेदके लौकिकविषयताशून्यत्वस्यैव निवेशात् ' घटवद्' इत्यादौ सर्वत्र विशेष्ये विशेषणम् ' इति रीत्या विषयतायां प्रागस्मदुक्तबाधकस्यैव साम्राज्यात् । अथैवम् 'अभावो दण्डीयो नवा ?' इति संशयकाले 'दण्डाभाववद्' इति धीः 'विशेष्ये विशेषणम्' इति रीत्या स्यात् , तयाऽभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो बुद्धेर प्रसिद्ध्या तत्प्रतिबन्धकत्वस्याप्ययोगादिति चेत् ? न-ताशबुद्धेरप्रसिद्धत्वे दण्डाभावासंसर्गाग्रहादिसामान्यसामग्र्या विशिष्टवैशिष्टयविषयिताकबोधहेतुत्वात् तादृशबुद्धेरापादकाभावात् 'विशेष्ये विशेषणम्' इति विषयिताया विशिष्टवैशिष्ट्य विषयिताकबोध एव हेतुत्वात् तादृशबुद्धेरापादकायुक्तः, ज्ञानाभावेऽपि कामाद्यपनीतभानभावे चेति सम्बन्धः। तत्र निरुकमानसानुरोधेनोपनायककार्यतावच्छेदककोटौ। न निवेशनीयमित्यत्र हेतुमाह- तादात्म्येनेति- 'दण्डः' इत्याद्यात्मकमानसज्ञाने दण्डत्वविशिष्टदण्डस्य तादात्म्यलक्षणं वैशिष्ट्यं दण्डे भासत इति विशिष्टवैशिष्ट्याख्यविषयताशालिप्रत्यक्षत्वमुपनायककार्यतावच्छेदकं तत्रापि समस्त्येवेति तादृशमानसबोधस्यापि सङ्घद इत्यर्थः । तेन' इत्यतिदिष्टं निरासहेतुमुपदर्शयति-नव्यनय इति- पूर्व घट-घटत्वयोनिर्विकल्पकम् , ततो 'घटः' इति विशिष्टबुद्धिः, तपसप्रकारकज्ञानलक्षणोपनयप्रत्यासत्योपनीतभामाभ्युपगमापेक्षया विशेषणविषयकज्ञानत्वस्यैव निर्विकल्पकसविकल्पकसाधारणस्यैवोपनायकतावच्छेदकत्वौचित्यात् , तथा च निर्विकल्पक ज्ञानादप्युपनयादुपनीतभानस्येष्टत्वेन तस्य विशेषणतावच्छेदकप्रकारकज्ञानाभावेऽपि जायमानस्य विशिष्टवैशिष्टयप्रत्यक्षत्वासम्भवाल्लौकिकसनिकर्षप्रयोज्यपुरोवर्तिघटनिष्ठविषयताया लौकिक्या उपनयाप्रयोज्यत्वेन तश्यावृत्तये लौकिकविषयताशून्यतद्विषयकज्ञानत्वस्यवोपनायककार्यतावच्छेदकत्वादिति तदालिङ्गितस्य विशिष्टबुद्धित्वमेवेत्याशयः। घट-घटत्वयोनिर्विकल्पकाद् भूतले घटस्तत्र घटत्वमिति रीत्या 'घटवद् इति ज्ञानं न सम्भवति, तत्र घटनिष्ठप्रकारताया निरवच्छिन्नत्वासम्भवात् सावच्छिनघटनिष्टप्रकारताकज्ञानस्य विशिष्टवैशिष्टयबुद्धित्वस्यैव न्याय्यत्वादित्यभिप्रायकस्यास्मदुकबाधकस्यैव भावादित्याह-'घटवद' इत्यादाविति । ननु 'रक्तो दण्डो नवा?' इति संशयानन्तरं 'रक्तदण्डवान् पुरुषः' इति विशिष्वैशिष्ट्यावगाहिबोधस्य विशेषणतावच्छेदकप्रकारकनिश्चय कार्यस्य विशेषणतावच्छेदकनिश्चयाभावादभावेऽपि यथा विशेष्ये विशेषणमिति रीत्या बोधस्तत्रोपेयते तथाऽभावः प्रतियोगितासम्बन्धेन 'दण्डवानवा ?' इति संशयानन्तरं विशेषणतावच्छेदकप्रकारकनिश्चयरूपकारणाभावात् प्रतियोगितासम्बन्धेन दण्डविशिष्टाभाववैशिष्टयावगाहिबोधानुत्पत्तावपि धर्मिण्यभावस्तत्र प्रतियोगितासम्बन्धेन दण्ड इत्येवं विशेष्ये विशेषणमिति रीत्या 'दण्डाभाववद्' इति ज्ञानं स्यात्, अभावबोधो विशिष्टवैशिष्टयावगाहिबोधमर्यादा नातिशेत इति नियमेन तत्रेटापत्तेः कर्तुमशक्यत्वादिति शङ्कते- अथेति । एवम उक्तदिशा विशेष्ये विशेषणमिति रीत्या 'दण्डरक्तवान्' इति बोधस्य 'दण्डो रक्तो नवा ?' इति संशयानन्तरमुपगमे । अभावः 'प्रतियोगित्वसम्बन्धावच्छिन्नदण्डनिष्ठप्रतियोगिताकाभाववान् , इत्येवस्वरूपपर्यवसितोऽभावः, 'दण्डाभाववान्' इति बाधधीर्यदि तत्र स्यात् तदा तया प्रतिबन्धाद् विशेष्ये विशेषणमिति रीत्याऽपि ज्ञान न स्यात् , न चोक्तसंशयकाले तादृशबाधबुद्धेर पि सम्भवः, तस्या अपि अभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो वैशिष्टयावगाहित्वेन विशेषणतावच्छेदक प्रकारकनिश्चयकार्यत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयाभावेsभावादित्याह-तयेति- अत्र 'तदा' इति पाठो युक्तः, तस्य संशयकाले इत्यर्थः। तत्प्रतिबन्धकत्वस्य बाधबुद्धिप्रतिबन्धकत्वस्य । समाधत्ते-नेति । तादृशबुद्धेः अभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो बुद्धेः । 'दण्डाभावासंसर्गाग्रहादि इत्यादिपदा विशेषणबुद्धेरुपग्रहः । 'विशिष्टवैशिष्ट्यविषयताकबोधहेतुत्वात्' इति स्थाने 'विशिष्टवैशिष्टयविषयताकबोध एव हेतुत्वाद' इति पाठो युक्तः, एक्कारेण विशेष्ये विशेषणमिति रीत्या बोध हेतुत्वस्य व्यवच्छेदः, तथा च 'अभावो दण्डीयो नवा?' इति संशयकाले विशेष्ये विशेषणमिति रीत्या बोधस्य 'दण्डाभाववद् इत्याकारकस्यापादकाभावादेव नापत्तिसम्भव इत्याह- तादृशबुद्धेरिति- विशेष्ये विशेषणमिति रीत्या बुद्धरित्यर्थः । 'तादृशबुद्धेरापादकाभावाद्' इत्यनन्तरं "विशेष्ये विशेषणमिति विषयताया विशिष्टवैशिष्टयविषयताकबोध एव हेतुत्वात् तादृशबुद्धरापादकाभावात्" इत्यधिकः पाठोड. नुपादेयः। किन्च, विशेष्ये विशेषणमितिबुद्धिविषयताया विशिष्टवैशिष्टयबुद्धिविषयताव्यापकत्वपक्षे विशेष्ये विशेषणमिति रीत्या बुद्धिविषयताकज्ञानत्वाविच्छिन्नं प्रत्येव 'दण्डो रक्तो नवा ? इति संशयादेः प्रतिबन्धकत्वं कल्प्यत इति निरुक्तसंशयसत्त्वे यथा न रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिज्ञान तथा विशेष्ये विशेषणमिति रीत्या ज्ञानमपि न भवत्येव, एवं च 'अभावो
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy