________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
भावाद् ‘विशेष्ये विशेषणम् ' इति विषयिताया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वे ' दण्डाभाववद् इति ज्ञानेऽपि तस्याः सत्त्वेन तवच्छिन्नं प्रति प्रतिबन्धकत्वसम्भवाच, अत एव 'दण्डो रक्को नवा ?' इति संशयकाले यदि । विशेष्ये विशेषणम् ' इति रीत्यापि । रक्तदण्डवान्' इति धियो नोत्पत्तिः, तदा तत्र 'दण्डो रक्तः' इत्यादि निश्चयाभावविशिष्टो 'दण्डो रको नवा ?' इत्यादिसंशयप्रतिबोधक: स्वीक्रियते, इत्थं च व्यापकत्वाद् विशेष्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्यादिजनकतावच्छेदिका, विशिष्टवैशिष्टयबुद्धित्वं तु रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारताकबुद्धित्वं ' रक्कं दण्डेन जानामि' इति प्रतीतेः, इति सम्प्रदायविदः, तदसत्-अस्या एवानुमित्यादिजनकतावच्छेदकत्वे विशिष्टदण्डीयो नवा इति संशयानन्तरं 'दण्डाभावव' इति ज्ञानं विशेष्ये विशेषणमिति रीत्याऽपि न स्यादेवेत्याह-विशेष्ये विशेषणमिति विषयताया इति। 'दण्डाभाववद, इति ज्ञानेऽपीति- अभावे दण्डत्वविशिष्टदण्डवैशिष्टया वाहिज्ञानेऽपीत्यर्थः, अपिना विशेष्ये विशेषणमिति रीत्या ज्ञानस्य समुच्चयः । तस्याः विशेष्ये विशेषणमिति विषयतायाः । तदवच्छिन्नं प्रति विशेष्ये विशेषणमितिविषयताकबुद्धित्वावच्छिन्नं प्रति । प्रतिबन्धकत्वसम्भवाञ्च 'अभावो दण्डीयो नवा?' इति संशयस्य प्रतिबन्धकत्वाच, तथा चोक्तप्रतिबन्धकसद्भावादेव यथा न 'दण्डाभाववद्' इति विशिष्टवैशिटचावगाहिज्ञान तथा विशेष्ये विशेषणमिति रीत्या ज्ञानमपि नेत्याशयः । अत एवेति-विशिष्टवैशिष्ट्यविषयिताव्यापिकाया विशेष्ये विशेषणमितिरीत्या विषयिताया निरुक्तसंशय प्रतिबध्यतावच्छेदकत्वादेव, तदा 'दण्डो रको नवा ?' इति संशयकाले विशेष्ये विशेषणमिति रीत्याऽपि 'रक्तदण्डवान्' इति धियो नोत्पत्तिरित्यस्योपपादनार्थम् । तत्र विशेष्ये विशेषण. मिति रीत्या 'रकदण्डवान्' इति वुद्धौं । 'नवेत्यादिसंशयप्रतिबोधकः' इत्यस्य स्थाने 'नवेत्यादिसंशयः प्रतिवन्धकः' इति पाठो युक्तः, 'दण्डो रक्तो नवा' इति संशयद्वितीयक्षणे 'दण्डो रक्तः' इत्याकारकविशेषणतावच्छेदकप्रकारकनिश्चये तदानीमुक्तसंशयसत्त्वेऽपि रक्तदण्डनानिति बुद्धिर्विशिष्टवैशिष्टयविषयिताशालिनी तथापकविशेष्ये विशेषणमितिविषयिताशालिनी चोत्पद्यत एवेत्यतो 'दण्डो रक्तः' इत्यादिनिश्चयाभाववैशिष्टय निरुक्तसंशये विशेषणम् । इत्थं च 'दण्डो रक्तः' इत्यादिनिश्चयाभावविशिष्टस्य 'दण्डो रक्तो नवा?' इत्यादिसंशयस्य विशिष्टवैशिष्टयविषयिताव्यापकविशेष्ये विशेषणमितिविषयित्वावच्छिन्न प्रतिबन्धकत्व व्यवस्थितौ च । विषयितैवेत्येवकारेण विशिष्टवैशिष्टयविषयिताया अनुमितिप्रवृत्त्यादि. जनकतावच्छेदकत्वव्यवच्छेदः, अयमभिप्रायः- पर्वते धूमो धूमे च बलिव्याप्यत्वमिति रीत्या यद् वह्निव्याप्यधूमवान् पर्वतः' इति ज्ञानम् , यच पहिव्याप्यत्वविशिष्टधूमस्य पर्वते वैशिष्ट्यावगाहिज्ञानम् , तदुभयत्र विशेष्ये विशेषणमिति रीत्या विषयतायाः सत्त्वादुक्तपरामर्शद्वयस्यापि निरुक्तविषयितालक्षणानुमितिकारणतावच्छेदकधर्माकान्तत्वाद् द्विविधादपि परामर्शादनुमि. त्युत्पत्तिः सम्भवति, तथा 'इदमेतद्धर्मवद्, अयं धर्म इष्टसाधनातावच्छेदकः' इत्येवंरीत्या यज्ञानम्, यच्च 'इटसाधनतावच्छेदकधर्मवद्' इति ज्ञानम् , विशेष्ये विशेषणमिति रीत्या विषयितायाः प्रवृत्तिजनकतावच्छेदिकायाः सत्त्वादुभयस्मादुकज्ञानात् प्रवृत्तिनिर्वाह इति । रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्न विशेध्यतानिरूपितवियिताया विशेष्ये विशेषणमिति रीत्या विषयितारूपाया विशिष्टवैशिष्टयविषयिताव्यापकत्वेऽववृते विशिष्टवैशिष्टयबुद्धित्वं किमित्यपेक्षायामाह-विशिष्टवैशियबुद्धित्वं त्विति। रक्तति-रक्तदण्डत्वादिविशिष्टे न तु रक्तत्वविनिर्मुक्तदण्डत्वादिविशिष्टे पर्याप्तिर्यस्याः प्रकारतायाः सा रक्तदण्डस्वादिविशिष्टपर्याप्तिप्रकारता, रक्तत्वदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारता न तु केवलदण्डत्वनिष्ठावच्छेदकताकप्रकारता. तनिरूपकबुद्धिवं विशिष्टवैशिष्टयबुद्धित्वमित्यर्थः । निरुक्तबुद्धित्वस्य विशिष्ट वैशिष्टयबुद्धिरूपत्वेऽनुव्यवसाय प्रमाणमुपदर्शयति-रक्तमिति- 'रके दण्डेन जानामीति प्रतीतेः' इति स्थाने 'रक्तदण्डेन पुरुषं जानामीति प्रतीतेः' इति पाठो युक्तः, तस्य रक्तदण्डनिष्ठप्रकारताकपुरुषनिष्टविशेष्यताकज्ञानवानहमिति प्रतीतेरित्यर्थः, अत्र तृतीयाथै प्रकारत्वे रक्तदण्डस्याधेयतयाऽन्वये रक्तदण्डत्वावच्छिन्नत्वमपि तत्रान्वेतीति । विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्यादिजनकतावच्छेदकत्वमभ्युपगच्छता प्राचां मतमपहस्तयति-तदसदिति । अस्या एव विशेष्ये विशेषणमिति रीत्या विषयिताया एव, एक्कारेण विशिष्टवैशिष्टयविषयिताया अनुमित्यादिजनकतावच्छेदकत्वव्यवच्छेदः, विशिष्टवैशिष्टयबुद्धावपि रक्तत्वं दण्ड एव प्रकारो दण्डश्च पुरुषे प्रकार इत्येवानुभूयत इति रकत्वनिष्टप्रकारतानिरूपितव दण्डनिष्टविशेष्यता न तु रक्तत्वनिष्टावच्छेदकतानिरूपिता दण्डनिष्ठप्रकारतेति । अत्र प्रतीति