________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वैशिष्ट्यविषयतायां मानस्य दूरापास्तत्त्वात्, 'रक्तदण्डवान्' इत्यादिज्ञानेऽपि रक्तत्वादिप्रकारतानिरूपित• दण्डादिनिष्ठविशेष्यताया एवानुभावात्, रक्तादेर्दण्डादिविशेष्य इत्येव प्रतीतेः तस्माद् विशिष्टवैशिष्ट्य. विषयता बुद्धित्वमेवानुमित्यादिजनकतावच्छेदकम् ' विशेष्ये विशेषणम् ' इति बुद्धित्वं तु विशेषणतावच्छेदकसंशयकालीनज्ञानसाधारणमेवेत्यलं संशयप्रतिबन्धकत्वेन । विशिष्टपर्याप्तप्रकारक वाक्यबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वमित्यपि न युक्तम्, ' वह्निव्याप्येन्धनवान्' इत्यादौ विशिष्टव्याप्तेर सिद्धत्वेन प्रकारत्वासंभवभिया परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापातात् । एतेन, वैशिष्ट्यं च वैज्ञानिकम्, तेन 'लोहितवह्निमान्' इत्यादौ न विशिष्टवैशिष्ट्यबोधानुपपत्तिरिति मथुरानाथाद्युक्तमपास्तम्, विशिष्टवैशिष्ट्यविषयता विशेषणतावच्छेदकसम्बन्धभेदेन भिन्नेति सर्वैः स्वीकारेण समवायादिघटिततदसम्भवस्य प्रमाणयति- रक्तादेरिति । 'दण्डादिविशेष्य' इति स्थाने 'दण्डादिविंशेध्यः' इति पाठो युक्तः, रक्तत्वविशिष्टदण्डस्य पुरुषविशेषणत्वे दण्डद्वारा पुरुषोऽपि रक्तस्य विशेष्य इति पुरुषोऽपि रक्तादेर्विशेष्य इति सम्प्रत्ययः स्यात् न चैवमित्यावेदनायैवकारोपादानम् । तस्मादिति यस्माद् विशेष्ये विशेषणमिति वुद्धिविषयताया अनुमितिप्रवृत्त्यादिजनकतावच्छेदकवाभ्युपगमे प्रमाणाभावाद् विशिष्टवैशिष्टयविषयताया असिद्धिप्रसङ्ग इत्येतस्माद् हेतोः । विशेष्ये विशेषणमिति रीत्या बोधश्च विशेषणतावच्छेदकप्रकारकसंशयकाले भवत्येवेति न तस्याः संशयप्रतिबध्यतावच्छेदकत्वमिति संशयकालीनज्ञानेऽपि विशेष्ये विशेषणमिति रीत्या विषयता समस्त्येवेत्याह- विशेष्ये विशेषणमिति बुद्धित्वं त्विति । विशिष्टवैशिष्ठ्यबुद्धित्वस्य लक्षणान्तरं पराभिप्रेतमुत्प्रेक्ष्य दूषयति- विशिष्टपर्याप्तेति विशिष्ट पर्याप्ता या प्रकारता तन्निरूपिका या वाक्यजन्या बुद्धिस्तत्त्वं विशिष्टवैशिष्ठयबुद्धित्वमित्यर्थः, अत्र वाक्यजन्यत्वं किमिति निवेशितमिति न विद्मः प्रत्युत तन्निवेशे प्रमाणान्तरोषजातबुद्धेर्विशिष्टवैशिष्ट्यबुद्धित्वमेवापहस्तितं स्यादिति । अयुक्तत्वे हेतुमुपदर्शयति- वह्निव्याप्येन्धनेति । 'विशिष्टव्यातेरसिद्धत्वेन' इत्युक्तिर्हेतुव्यापक साध्य सामानाधिकरण्यलक्षणव्याप्तिमवलम्ब्य अन्यथा साध्याभाववदवृत्तिस्वलक्षणव्याप्तेः प्रकृते बह्वचभाववदवृत्तित्वरूपतया तस्या अप्रसिद्धयभावात् इन्धनसमानाधिकरणस्य वह्न्यभावस्य प्रतियोगित्वेन वस्तादृशाभावाप्रतियोगिवह्निसामानाधिकरण्यव्याप्तेर प्रसिद्धिर्युज्यत इति । खण्डशो निरुक्तेरिति हेतुविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिता भावविषयतानिरूपित प्रतियोगित्वविषयतानिरूपिताभावविषयतानिरूपित साध्यविषयतानिरूपिताधिकरणविषयता निरूपितवृत्तित्व विषयतेत्येवं दिशा निर्वचनस्येत्यर्थः । अनर्थक्यापत्तेरिति - 'बहिव्याप्येन्धनवान्' इतिवाक्यजबुद्धेविशिष्ट वैशिष्टय बुद्धित्वस्योपपत्यर्थमेव तथा निर्वचनम्, परं तथा निर्वचनेऽपि विशिष्टपर्याप्तप्रकारताकबुद्धिवस्य विशिष्टा - प्रसिद्धा तत्र सङ्घटनं न स्यादेवेत्याशयः । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । एतेन खण्डशो निरुक्तेरानर्थक्या. पातेन, इन्धन समानाधिकरणाभावप्रतियोगिनि वहाँ तादृशप्रतियोगित्वाभावस्य स्वरूपसम्बन्धेन वैशिष्टयासम्भवेऽपि वैज्ञानिकसम्बन्धेन तद्वैशिष्टयस्य तत्र सम्भवेन विशिष्टव्यातेर सिद्धत्वाभावेन निरूप्यनिरूपकभावापन्नविषयताकज्ञानत्वेन व्याप्तिज्ञाननिर्वचनस्थानर्थक्यादित्याशयः । तेन वैशिष्टयस्य वैज्ञानिकस्याभ्युपगमेन । लोहितेति वहस्तेजस्स्वरूपस्य भास्वरशुक्लरूपवत्त्वेन लोहितत्वस्य रक्तरूपलक्षणस्य समवायरूपवैशिष्टस्याभावेऽपि स्वप्रकारक ज्ञानविषयत्वलक्षणस्य लोहितत्वप्रतियोगिकवैज्ञानिक सम्बन्धस्य तत्र सत्त्वेन तेन सम्बन्धेन लोहितत्वविशिष्टव वैशिष्टयविषयता 'लोहितवह्निमान्' इत्यादौ सम्भवेन तादृशविषयताको 'लोहितवह्निमान् इत्याकारको विशिष्टवैशिष्ट्यबोध उपपद्यत इति मथुरानाथोत्त्यर्थः । मथुरानाथो क्तापासने हेत्वन्तरमप्युपदर्शयति - विशिष्टेति 'लोहितवह्निमान्' इत्यादौ स्वरसतो लोहितत्वस्य रक्तरूपस्य वहौ समवायेन वैशिष्टयस्यैव भासमानत्वेन तस्यासम्भवादेव लोहितत्वविशिष्टव हे वैशिष्ट्यविषयता न संभवतीति तथाविधबोधस्य न विशिष्टवैशिष्ट्यबोधत्वमित्याक्षेपस्य वैज्ञानिकसम्बन्धेन लोहितत्ववैशिष्ट्यस्य वहावुपदर्शनमात्रेण प्रतिविधानस्य कर्तुमशक्यत्वादित्यभिसन्धिः । तदसम्भवस्य विशिष्ट वैशिष्टय विषयताऽसम्भवस्य । येन येन सम्बन्धेन विशेषणे यस्य यस्य विशेषणत्वेन विशेषणताव च्छेदकत्वमभिमतं तत्तत्सम्बन्धनिरूपितो यो वैज्ञानिकसम्बन्धस्तत्तत्सम्बन्धावच्छिन्नप्रकारतानिरूपित विशेष्यतावत्त्वलक्षणस्तेन सम्बन्धेन विशिष्टविशिष्टबुद्धित्वावच्छिन्नं प्रति तत्तत्सम्बन्धेन विशेष्यतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमिति धर्मिणि मतुवर्थे विशेषण वहौ समवायेन विशेषणतया विशेषणतावच्छेदकं यलोहितत्वं समवायन तत्प्रकारकनिश्चयेन निरुक्त वैज्ञानिकसम्बन्धेन लोहितत्वविशिष्टवह्निवैशिष्ट्यबोधस्य 'लोहितवह्निमान्' इत्याकारकस्योपपत्तिरित्येवं समाधानं कर्तुं
-
८५