________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
वैज्ञानिकसम्बन्धेन समाधातुमशक्यत्वाच, तत्तत्सम्बन्धेन विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्तत्स. म्बन्धनिरूपितवैज्ञानिकसम्बन्धेनैव विशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति हेतुत्वकल्पने त्वतिगौरवम्, संशयदशायामपि शुद्धसम्बन्धेन कार्यापत्तिश्च, न चेष्टापत्तिः, अनुभवविरोधात्, अन्यथा विशिष्टवैशिष्ट्यं न कार्यतावच्छेदकमर्थसमाजसिद्धत्वात् , विशेषणज्ञानद्वयादेव तादृशबोधोपपत्तिरिति मिश्रमत साम्राज्यापत्तेः, ' दण्डो रक्तो नवा ?' इति संशयानन्तरमजायमानस्य दण्डो रक्त इति निश्चयानन्तरं च जायमानस्य बोधस्यानुभवसिद्धत्वादेव हि तत्रोक्तकार्यकारणभावेन तन्मतं निराक्रियते, नियतसम्बन्धगर्भत्वेऽपीयमेव युक्तिरिति । इदं तु स्याद् ' रक्तदण्डवान् ' इत्यत्र दण्डाश्रितैव प्रकारता, तदवच्छेदकता च शक्यमित्यत आह-तत्तत्सम्बन्धेनेति-तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धस्य गुरूभूतस्य निरूपकीभूततत्तत्सम्बन्ध. भेदभिन्नस्य कार्यतावच्छेदकसम्बन्धतयाऽभिमतत्वेऽतिगौरवं स्पादित्यर्थः। तथा गौरवस्य सह्यतायां दोषान्तरमाह-संशयदशायामपीति- 'दण्डो रक्तो नवा ?' इति विशेषणतावच्छेदकप्रकारकसंशयदशायामपीत्यर्थः । तदानीं विशेषणतादच्छेदकप्रकारकनिश्चयाभावे विशेषणतावच्छेदकप्रकारकनिश्चयकार्य तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धन विशिष्टवैशिष्टयज्ञानं मा भूत् , शुद्धसम्बन्धेन वैज्ञानिकादिलक्षणेन विशिष्टवैशिष्टयज्ञानं च न तत्कामिति तत् स्यादित्यर्थः । 'रक्तो दण्डो नवा ?' इति संशयदशायां 'रक्तदण्डवान्' इति विशिष्ट वैशिष्टयावमाहिनिश्चयस्याननुभूयमानत्वेनेष्टापत्त्या तदापादनस्यादोषत्व. मुररीकर्तुमशक्यमित्याह-न चेष्टापत्तिरिति । अन्यथा अननुभूयमानस्यापि विशेषणतावच्छेदकप्रकारकसंशयदशायां विशिष्टवैशिष्टयबोधस्याभ्युपगमे। अर्थसमाजसिद्धत्वात रकत्वरूपविशेषणज्ञानाद् रक्तत्वविशिष्टदण्डस्य भानं दण्डरूपविशेषणज्ञानाद् दण्डवैशिष्टयस्य भानमित्येवं तद्धटकप्रत्यकधर्मावच्छिन्नभानसमाजसिद्धत्वात् । एतदेव स्पष्टयति-विशेषणशानद्वयादेवेति-रक्तत्वज्ञान-दण्डज्ञानद्यादेवेत्यर्थः । तादृशबोधोपपत्ति: रक्तत्वविशिष्टदण्डवैशिष्टयबोधोपपत्तिः। इति मिश्रमतसाम्राज्यापत्तेः इत्येवस्वरूपं यत् पक्षधरमिश्रस्य मतं तत्साम्राज्यापत्तेः । विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयबोध इति पक्षधरमिश्रमतस्य निराकरणं तेन सम्बन्धेन तद्धर्मविशिष्टवैशिष्टबुद्धि प्रति तेन सम्बन्धेन तद्धर्मलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावबलादेव क्रियते, तदुक्तवैज्ञानिकसम्बन्धेन कार्यकारणभावपक्षे संशयदशायामपि विशिष्टवैशिष्टयबोधस्याभ्युपगती न सम्भवतीत्यावेदनायाह- 'दण्डो रक्तो नवा?' इति संशयानन्तरमिति । 'अजायमानस्य' इत्यस्य 'बोधस्य' इत्यनेनान्वयः, 'बोधस्य' इत्यस्य विशिष्टवैशिष्टयबोधस्येत्यर्थः । तत्र विशिष्टवैशिष्टयबोधे । उक्तकार्यकारणभावेन तेन सम्बन्धेन तद्विशिष्टवैशिष्ट्यबोधं प्रति तेन सम्बन्धन तद्धर्मप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावेन । तन्मतं विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयज्ञानमिति पक्षधरमिश्रमतम् , यदि च संशयानन्तरमजायमानत्वमुक्तबोधस्य न स्यात् किन्तुसंशयानन्तरमप्युक्तबोधो जायेत तदा व्यभिचारेण विशेषणतावच्छेदक. प्रकारकनिश्चयस्य तं प्रति कारणत्वमेव न स्याद्, यदि वा विशेषणतावच्छेदकप्रकारकनिश्चयानन्तरमप्युक्तबोधो न जायेत तदाऽप्यन्वयव्यभिचारेण विशेषणतावच्छदकप्रकारकनिश्चयस्य तं प्रति कारणत्वं न भवेत्, न चैवं किन्तु विशेषणतावच्छेदकप्रकारकनिश्चयेन सहोक्तबोधस्य कार्यकारणभावग्राहकावन्वयाव्यतिरेको विद्यते इत्यावेदनाय 'संशयानन्तरमजायमानस्थ' इति निश्चयानन्तरं जायमानस्य, इति च 'बोधस्य' इत्यस्य विशेषणमिति बोध्यम् । विशेषणज्ञानस्य सम्बन्धविशेषविषयकस्वापुरस्कारेणैव विशिष्टबुद्धि प्रति कारणस्वस्याभ्युपगततया विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयावगाहिज्ञानस्याभ्युपगमे तत्र नियतसम्बन्धमान न स्यात् , तेन सम्बन्धेन विशेषणतावच्छेदकीभूततद्धर्म प्रकारकनिश्चयस्य तेन सम्बन्धन तद्धर्मविशिष्टवैशिष्ट्यबुद्धिं प्रति कारणत्वे तु नियतसम्बन्धविशेषभानमपि तत्रोपपद्यते इत्येतदर्थमेव निरुक्तकार्यकारणभावस्य नियतसम्बन्धगर्भवमित्याहनियतसम्बन्धगर्भत्वेऽपीति । 'रक्तदण्डवान्' इति विशिष्टवैशिष्टयावगाहिबोधे प्रकारत्वं दण्डमात्रस्य तदवच्छेदकत्वं रक्तत्व-दण्डत्वयोः पर्याप्तम्, विशिष्टवैशिष्टथयोधीयप्रकारत्वस्यावच्छेदकत्वं, तदवच्छेदकत्वं वा यथा समानाधिकरणधर्मे तथा व्यधिकरणधर्मेऽपि, तेन लोहितवह्निमान्' इति ज्ञानं लोहितत्वात्मकव्यधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवहि. त्वात्मकसमानाधिकरणधर्मनिष्टावच्छेदकतानिरूपितवाहिनिष्टप्रकारतानिरूपकं ज्ञानम्, 'रक्तदण्डवान्' इति च ज्ञानं रक्क. त्व-दण्डत्योभयपर्याप्तावच्छेदकतानिरूपितदण्डनिष्ठप्रकारतानिरूपकम् . लोहितवाहिमवान्' इति च ज्ञानं लोहितत्वात्मकन्यधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवाहिनिष्ठावच्छेदकतानिरूपितवह्निमन्निष्टप्रकारतानिरूपकमित्येवं दिशा तत्तनिष्ठावच्छेदकतानिरूपितप्रकारताकबुद्धित्वं विशिष्टवैशिष्टथबुद्धित्वमवसे यमिति प्रन्थकारः स्वाभिप्राय प्रकटयति-दंत स्यादिति । 'दण्डा