________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
,
वच्छेदकप्रकारक निश्चयत्वाभ्यां हेतुता, इतरद्वये तु विशेषणज्ञानाऽसंसर्गमयोर्विशेष्ये विशेषणमितिरीत्या बुद्धित्वं रक्तत्वाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वम् तेन ' दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बने नातिप्रसङ्गः, तत्र दण्डत्वावच्छिन्न प्रकारताया रक्कत्वावच्छिन्न प्रकारतानिरूपितत्वात् न च विशिष्टवैशिष्ट्यविषयतास्वीकारे 'रक्तदण्डवान्' इत्यत्र ' विशेष्ये विशेषणम्' इति विषयतायां ' दण्डो रक्तो दण्डवान् पुरुषः' इतिसमूहालम्बनव्यावृत्तायां मानाभावः, रक्तरूप दण्डत्वोबुद्धित्वम् । 'विशेषणज्ञानासंसर्गग्रहयोः ' इत्यस्य स्थाने ' विशेषण ज्ञाना. ऽसंसर्गाग्रहयो : ' इति पाठो युक्तः । विशेष्ये विशेषणमिति रीत्या बुद्धित्वं विशेषतः परिष्कृत्य दर्शयति- रक्तत्वाद्यवच्छिन्नेति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या जायमानायां ' रक्तदण्डवान् पुरुषः' इति बुद्धौ पुरुषत्वावच्छिन्न विशेष्यता दण्डत्वावच्छिन्न प्रकारतानिरूपिता, दण्डत्वावच्छिन्नप्रकारता च रतत्वावच्छिन्न प्रकारतानिरूपितेति रक्तत्वावच्छिन्न प्रकारता निरूपित्तदण्डत्वावच्छिन्नप्रकारता बुद्धित्वं तत्र वर्तते इति यद्यपि प्रकारतात्वेन विशेष्यतात्देनैव च निरूपयनिरूपकभावो न तु प्रकारतात्वेन निरूप्यनिरूपकभाव इति रक्तत्वावच्छिन्नप्रकारतानिरूपिता दण्डत्वावच्छिन्न विशेष्यतैव स्यात्, न तु दण्डत्वावच्छिन्न प्रकारतेति नोक्तवुद्धित्वं कुत्रापि सङ्गतिमङ्गति, तथापि अनन्तराभासमानसमानाधिकरण कज्ञानीयविषयत्वयोर्मदाधरमतेऽवच्छेद्यावच्छेदकभावो जगदीशमते च तयोरभेद इति तत्र जगदीशमते पुरुषत्वावच्छिन्न विशेष्यतानिरूपिता या दण्डत्वावच्छिन्नप्रकारता, या च रक्तत्वावच्छिन्न प्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यता तयोरैक्याद् दण्डत्वावच्छिन्न विशेष्यताया रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वे तदभिन्नाया दण्डत्वावच्छिन्नप्रकारताया अपि रक्तरवावच्छिन्नप्रकारतानिरूपितत्वमिति भवत्युक्तबुद्धित्वस्य तत्र सङ्गतिः, यदि च रतत्वावच्छिन्न प्रकारता निरूपितत्वस्य दण्डत्वावच्छिन्नप्रकारतायामन्चयेऽन्वयितावच्छेदकस्य दण्डत्वावच्छिन्न प्रकारतात्वस्यैष तन्निरूप्यताया अवच्छेदकत्वं प्रतीयेत न च प्रकारतात्वं प्रकारतानिरूप्यतावच्छेदकं प्रकारत्व- विशेष्यत्वयोरभेदेऽपि विशेष्यतात्वेनैव प्रकारत्वस्य प्रकारतानिरूपितत्वेन विशेध्य तात्वस्यैव प्रकारतानिरूप्यतावच्छेदकत्वादिति विभाव्यते तदा रक्तत्वावच्छिन्न प्रकारतानिरूपित विशेष्यत्वाऽभिन्नदण्डत्वावच्छिन्नप्रकार ताक बुद्धित्वमेव विशेष्ये विशेषणमिति रीत्या बुद्धित्वमिति बोध्यम् । तेन उक्तप्रकारेण विशेष्ये विशेषणमिति रीत्या बुद्धित्वस्य निर्वचनेन, अस्य ' नातिप्रसङ्गः ' इत्यनेनान्वयः यथाश्रुते ' दण्डो रक्तो दण्डवान् पुरुषः ' इति समूहालम्बनज्ञानेऽपि विशेष्य पुरुषे दण्डो भासते, दण्डे च रत्तत्वं भासत इति तस्यापि । 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं प्रसज्यत इत्यर्थः । तत्र दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने । दण्डत्वावच्छिन्नप्रकारताया इति- 'रक्तदण्डवान् पुरुषः ' इति ज्ञाने यथादण्ड: पुरुषे प्रकारो दण्डे न रक्तरूपवत्त्वं प्रकार इति दण्डगत प्रकारत्वविशेष्यत्वयोरमेदाद् विशेष्यतात्वेन रूपेण दण्ड निष्टप्रकारताया रक्तरूपवत्त्वनिप्रकारतानिरूपितत्वमिति रक्तरूपवत्त्वाद्यवच्छिन्न प्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वलक्षणं 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं समस्ति न तथा 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने, तदीयदण्डनिष्टप्रकारत्व विशेष्यत्वयोरनन्तराभासमानत्वाभावेनाभेदाभावाद् दण्डनिष्ट विशेष्यत्वस्यैव रक्तत्वनिष्ठप्रकारतानिरूपितत्वं न तु पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्ठ प्रकारतायास्तत्त्वमिति नोक्तलक्षणस्य विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वस्य तत्र प्रसङ्ग इत्यर्थः । ननु रक्तत्व - विशिष्टदण्डस्य पुरुषे यद् वैशिष्ट्यं तद्विषयकत्वेनैव 'रक्तदण्डवान् पुरुषः' इति ज्ञानमनुभूयते, तत्र यदि विशिष्टस्य यद् वैशिष्ट्यं तद्विषयकत्वं नाभ्युपेयते तदा 'विशेष्ये विशेषणम्' इति रीत्या विषयतायां मानाभावात् तज्ज्ञानस्य समूहालम्बनज्ञानव्यावृत्तविषयताकत्वाभावात् ततोऽवैलक्षण्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति न चेति । 'विषयतास्वीकारे' इत्यत्र 'विषयताsस्वीकारे' इत्याकारप्रश्लेषः । रक्तरूपविशिष्टदण्डस्य वैशिष्ट्या वगाहिनि 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तरूपदण्डत्वोभयावच्छिन्नदण्डनिप्रकार तानिरूपित पुरुषनिष्टविशेष्यताकत्वमनुभूयते, पुरुषे दण्डो दण्डे च रक्तत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति रीत्या जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने तु रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यता कत्वमनुभूयत, न च तादृशविशेष्यताकत्वं समूहालम्बने इत्येवमनुभववैलक्षण्यस्यैवात्र प्रमाणस्य सद्भावादिति निषेधहेतुमुपदर्शयति- रक्तरूपेति । तथा च रक्तत्वविशिष्टदण्डस्य पुरुषे वैशिष्ट्यमाने पुरुषनिष्टविशेष्यतानिरूपिता या दण्डनिष्टप्रकारता सा रक्तत्वावच्छिन्न प्रकारता निरूपितदण्डत्वावच्छिन्न विशेष्यस्वाभिन्ना दण्डत्वनिष्ठ प्रकारता निरूपित निश्वच्छिन्नदण्डनिष्टविशेष्यत्वाभिन्ना रक्तत्व- दण्डत्वोभयनिष्ठावच्छेदकतानिरूपिता च भवति, ' विशेष्ये विशेषणम्' इति रीत्या जायमाने तु यद्यपि दण्डनिष्ठप्रकारता निरुक्तविशेष्यताद्वयाभिन्ना तथापि सा
७९