Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 103
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ७७ भ्यपगमे च जितं स्याद्वादिनैव; एतेन नानारूपवदवयवारब्धे व्याप्यवृत्तीन्येव नीलपीतादीन्युत्पश्चन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकस्य नीलादिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वात् , इत्यपि परेषां मतं निरस्तम् , नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीताधुपलम्भापत्तेरपि तत्र दोषत्वात् , तदाहुः सम्मतिटीकाकृतः-" आश्रयव्यापित्वेऽप्येकाक्यवसहितेऽप्यवय विन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वाद्" इति । न च नीलाध. क्यवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनया न दोषः, पीतकपालिकावच्छिन्ननील-पीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसङ्गात् , न च केवलनीलावयवावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम् , नील-पीतोभय ब्यणुकारब्धत्रसरेणुनीलाप्रत्यक्षापत्तेः, परमाणुसन्निकर्षस्येव परमाण्ववच्छिन्नसन्निकर्षस्यापि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वादिति दिक् ।। तदेवमेकानेकतया रूपस्य चित्रत्वं व्यवस्थापितम् , एवं वस्तुमान एव तदुपपादनीयम् । यथा च ग्राह्ये एकानेकतया चित्रस्वभावत्वमानुभविकं, तथा ग्राहके ज्ञानेऽपि, तत्राखण्डाया एकाकारताया: 'अंशकातयाभ्याम' इत्यस्य स्थाने 'अंशकात्स्याभ्याम्' इति पाठो युक्तः, 'नानैक' इत्यस्य संयोगे रूपे चान्वयः, तथा च नानैकसंयोगाभ्युपगमे नानकरूपाभ्युपगमे चेत्यर्थः । एतेन इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । 'व्याप्यवृत्तीन्येव' इत्येवकारेणाव्याप्यवृत्तिनीलाद्युत्पत्तिव्यवच्छेदः। लाघवादित्थमुपगम इत्याह-नीलादिकं प्रतीति । निरासे हेत्वन्तरमाह-नीलकपालावच्छेदेनेति । तत्र व्याप्य वृत्तिनीलाद्युपगमपक्षे । उक्तार्थे सम्मतिटीकाकृद्वचनसंवादमाह-- तदाहुरिति । तद्वचनमुल्लिखति- आश्रयव्यापित्वेऽपीति- नीलादेराश्रयव्यापित्वाभ्युपगमेऽपीत्यर्थः । अपरावयवोपलब्धाननेकरूपप्रतिपत्तिर्भवत्येवेत्यत उक्तम् अपरावयवानुपलब्धावपीति । उक्ता. पत्तिपरिहारमाशङ्कच प्रतिक्षिपति-न चेति-नीलावयवावच्छिन्नेन्द्रियसन्निकर्षों नीलप्रत्यक्षं प्रति कारणम् , एवं पीतावयवावच्छिन्नेन्द्रिय सन्निकर्षः पीतप्रत्यक्ष प्रति कारणमिति यदवयवस्य नोपलब्धिस्तदवयवावच्छिन्नेन्द्रिय सन्निोऽपि नास्तीति तदव. यवावच्छेदेन विद्यमानस्यावयविनि नीलादेर्न ग्रहणमिति नापरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिरिति शहितुरभिप्रायः । निषधे हेतुमाह-पीतकपालिकेति- यत्र नील-पीतोभयरूपवत् प्रत्येकं कपालद्वयं तदारब्धे घटे नीलरूपं परम्परया नीलकपालिकावच्छेदेन, पीतरूपं परम्परया पीतकपालिकावच्छेदैन, तत्र यदा न नीलकपालिकावच्छिन्ननील-पीतोभयरूपवत्कपालावच्छेदेनेन्द्रियसन्निकर्षस्तदानी घटगतनीलरूपस्य प्रत्यक्षं न भवति, तदपीदानीमुक्तकार्यकारणभावबलात् स्यात्, पीतकपालिकावच्छिन्ननील पीतोभयरूपवत्कपालावच्छेदेनेन्द्रिय सन्निकर्षस्यापि नीलावयवावच्छिन्नसन्निकषत्वेन नीलरूपप्रत्यक्षकारणस्य तत्र सत्त्वादित्यर्थः। ननु केवलनीलावयवावच्छिन्नेन्द्रि सन्निकर्षों नीलप्रत्यक्षं प्रति कारणम् , एवं केवलपीतावयवावच्छिन्नेन्द्रियसन्निकर्षः पीतप्रत्यक्ष प्रति कारणमित्येवदिशा कार्यकारणभावाभ्युपगमे पीतकपालिकावच्छिन्ननीलपीतोभयवत्कपालस्य केवलनीलत्वाभावेन तदवच्छेदेनेन्द्रिय सन्निकर्षस्य निरुक्तकारणतावच्छेदकधर्मानाकान्तत्वान्न ततो घटनीलरूपप्रत्यक्षापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम् ' इत्य नेनान्वयः । निषेधे हेतुमाह- नील-पीतोभयद्वयणुकेतिनील पीतोभयरूपवढ्यणुकेत्यर्थः । ननु छ्यणुकस्य नील पीतोभयवत्तया केवलनी लत्वस्याभावेऽपि परमाणोः केवलनीलत्वं समस्तीति केवल नीलपरमाणुर पि परम्परया त्रसरेणुनीलस्यावच्छेदक इति तदवच्छेदेन चक्षुस्सन्निकर्षात् त्रसरेणुनीलप्रत्यक्ष भविष्यतीत्यत आह- परमाणुसन्निकर्षस्येवेति-परमाणुना सहेन्द्रियसन्निकर्षस्य द्रव्याग्राहकत्वेन यथा न द्रव्यगतरूपग्राहकत्वं तथैव परमाण्ववच्छिन्नेन्द्रियसन्निकर्षस्यापि द्रव्याप्राहकत्वेन द्रव्यगतरूपानाहकतया न नीलपरमाण्ववच्छिन्नेन्द्रियसन्निकर्षतस्त्रसरेणुनीलप्रत्यक्षसम्भव इत्यर्थः । यथा चोक्तदिशा रूपस्यैकानेकरूपत्वेन चित्रत्वं तथा वस्तुमात्र एवैकानेकस्वरूपत्वेन चित्रत्वं स्वीकरणीयमित्युपसंहरति--तदेवमिति । तत् चित्रत्वम् । उक्तदिशा विषयस्यैका-ऽनेकत्वेन चित्रत्वे सिद्धे तद्ग्रा हकस्य ज्ञानस्याप्येका-ऽनेकाकारस्वभावत्वेन चित्रत्वं स्वीकरणीयमित्याह- यथा चेति ग्राहकज्ञाने चित्रस्वभावत्वं भावयति-तत्रेतिज्ञाने इत्यर्थः । अखण्डाया इति- सर्व ज्ञान स्वरूपत एकाकारमेवेति ज्ञाने एकाकारताऽखण्डेत्याशयः, 'एकाकारताया.' इत्यस्य 'अनुभवाद्' इत्यनेनान्वयः, विशेषणे विषयता प्रकारतापदवाच्या, विशेष्ये विषयता विशेष्यतापदवाच्या, विशेषण

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210