________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
७७
भ्यपगमे च जितं स्याद्वादिनैव; एतेन नानारूपवदवयवारब्धे व्याप्यवृत्तीन्येव नीलपीतादीन्युत्पश्चन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकस्य नीलादिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वात् , इत्यपि परेषां मतं निरस्तम् , नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीताधुपलम्भापत्तेरपि तत्र दोषत्वात् , तदाहुः सम्मतिटीकाकृतः-" आश्रयव्यापित्वेऽप्येकाक्यवसहितेऽप्यवय विन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वाद्" इति । न च नीलाध. क्यवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनया न दोषः, पीतकपालिकावच्छिन्ननील-पीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसङ्गात् , न च केवलनीलावयवावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम् , नील-पीतोभय ब्यणुकारब्धत्रसरेणुनीलाप्रत्यक्षापत्तेः, परमाणुसन्निकर्षस्येव परमाण्ववच्छिन्नसन्निकर्षस्यापि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वादिति दिक् ।।
तदेवमेकानेकतया रूपस्य चित्रत्वं व्यवस्थापितम् , एवं वस्तुमान एव तदुपपादनीयम् । यथा च ग्राह्ये एकानेकतया चित्रस्वभावत्वमानुभविकं, तथा ग्राहके ज्ञानेऽपि, तत्राखण्डाया एकाकारताया: 'अंशकातयाभ्याम' इत्यस्य स्थाने 'अंशकात्स्याभ्याम्' इति पाठो युक्तः, 'नानैक' इत्यस्य संयोगे रूपे चान्वयः, तथा च नानैकसंयोगाभ्युपगमे नानकरूपाभ्युपगमे चेत्यर्थः । एतेन इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । 'व्याप्यवृत्तीन्येव' इत्येवकारेणाव्याप्यवृत्तिनीलाद्युत्पत्तिव्यवच्छेदः। लाघवादित्थमुपगम इत्याह-नीलादिकं प्रतीति । निरासे हेत्वन्तरमाह-नीलकपालावच्छेदेनेति । तत्र व्याप्य वृत्तिनीलाद्युपगमपक्षे ।
उक्तार्थे सम्मतिटीकाकृद्वचनसंवादमाह-- तदाहुरिति । तद्वचनमुल्लिखति- आश्रयव्यापित्वेऽपीति- नीलादेराश्रयव्यापित्वाभ्युपगमेऽपीत्यर्थः । अपरावयवोपलब्धाननेकरूपप्रतिपत्तिर्भवत्येवेत्यत उक्तम् अपरावयवानुपलब्धावपीति । उक्ता. पत्तिपरिहारमाशङ्कच प्रतिक्षिपति-न चेति-नीलावयवावच्छिन्नेन्द्रियसन्निकर्षों नीलप्रत्यक्षं प्रति कारणम् , एवं पीतावयवावच्छिन्नेन्द्रिय सन्निकर्षः पीतप्रत्यक्ष प्रति कारणमिति यदवयवस्य नोपलब्धिस्तदवयवावच्छिन्नेन्द्रिय सन्निोऽपि नास्तीति तदव. यवावच्छेदेन विद्यमानस्यावयविनि नीलादेर्न ग्रहणमिति नापरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिरिति शहितुरभिप्रायः । निषधे हेतुमाह-पीतकपालिकेति- यत्र नील-पीतोभयरूपवत् प्रत्येकं कपालद्वयं तदारब्धे घटे नीलरूपं परम्परया नीलकपालिकावच्छेदेन, पीतरूपं परम्परया पीतकपालिकावच्छेदैन, तत्र यदा न नीलकपालिकावच्छिन्ननील-पीतोभयरूपवत्कपालावच्छेदेनेन्द्रियसन्निकर्षस्तदानी घटगतनीलरूपस्य प्रत्यक्षं न भवति, तदपीदानीमुक्तकार्यकारणभावबलात् स्यात्, पीतकपालिकावच्छिन्ननील पीतोभयरूपवत्कपालावच्छेदेनेन्द्रिय सन्निकर्षस्यापि नीलावयवावच्छिन्नसन्निकषत्वेन नीलरूपप्रत्यक्षकारणस्य तत्र सत्त्वादित्यर्थः। ननु केवलनीलावयवावच्छिन्नेन्द्रि सन्निकर्षों नीलप्रत्यक्षं प्रति कारणम् , एवं केवलपीतावयवावच्छिन्नेन्द्रियसन्निकर्षः पीतप्रत्यक्ष प्रति कारणमित्येवदिशा कार्यकारणभावाभ्युपगमे पीतकपालिकावच्छिन्ननीलपीतोभयवत्कपालस्य केवलनीलत्वाभावेन तदवच्छेदेनेन्द्रिय सन्निकर्षस्य निरुक्तकारणतावच्छेदकधर्मानाकान्तत्वान्न ततो घटनीलरूपप्रत्यक्षापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम् ' इत्य नेनान्वयः । निषेधे हेतुमाह- नील-पीतोभयद्वयणुकेतिनील पीतोभयरूपवढ्यणुकेत्यर्थः । ननु छ्यणुकस्य नील पीतोभयवत्तया केवलनी लत्वस्याभावेऽपि परमाणोः केवलनीलत्वं समस्तीति केवल नीलपरमाणुर पि परम्परया त्रसरेणुनीलस्यावच्छेदक इति तदवच्छेदेन चक्षुस्सन्निकर्षात् त्रसरेणुनीलप्रत्यक्ष भविष्यतीत्यत आह- परमाणुसन्निकर्षस्येवेति-परमाणुना सहेन्द्रियसन्निकर्षस्य द्रव्याग्राहकत्वेन यथा न द्रव्यगतरूपग्राहकत्वं तथैव परमाण्ववच्छिन्नेन्द्रियसन्निकर्षस्यापि द्रव्याप्राहकत्वेन द्रव्यगतरूपानाहकतया न नीलपरमाण्ववच्छिन्नेन्द्रियसन्निकर्षतस्त्रसरेणुनीलप्रत्यक्षसम्भव इत्यर्थः । यथा चोक्तदिशा रूपस्यैकानेकरूपत्वेन चित्रत्वं तथा वस्तुमात्र एवैकानेकस्वरूपत्वेन चित्रत्वं स्वीकरणीयमित्युपसंहरति--तदेवमिति । तत् चित्रत्वम् । उक्तदिशा विषयस्यैका-ऽनेकत्वेन चित्रत्वे सिद्धे तद्ग्रा हकस्य ज्ञानस्याप्येका-ऽनेकाकारस्वभावत्वेन चित्रत्वं स्वीकरणीयमित्याह- यथा चेति ग्राहकज्ञाने चित्रस्वभावत्वं भावयति-तत्रेतिज्ञाने इत्यर्थः । अखण्डाया इति- सर्व ज्ञान स्वरूपत एकाकारमेवेति ज्ञाने एकाकारताऽखण्डेत्याशयः, 'एकाकारताया.' इत्यस्य 'अनुभवाद्' इत्यनेनान्वयः, विशेषणे विषयता प्रकारतापदवाच्या, विशेष्ये विषयता विशेष्यतापदवाच्या, विशेषण