________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वृत्तिद्रव्यसमवेत प्रत्यक्षत्वावच्छिन्नं प्रति चक्षुः संयोग कावच्छेदकावच्छिन्न समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण संयोगादिप्रत्यक्षस्थले क्लृप्तेनैवानतिप्रसङ्गात्, नील-पीतोभयकपालारब्धघटीयनीले च नीलकपालिकैव परम्परयाऽवच्छेदिकेत्यभ्युपगमाद्, इत्यादि निस्तरम्, शाखा-मूलोभयावच्छिन्न दीर्घतन्तुतरु संयोगवत् नील ( नीले ) तरोभयाद्यवयवावच्छिन्न विलक्षणरूपस्यानुभवसिद्धत्वेन तद्ब्राहकोभयादिपर्याप्तावच्छेदकताकाधिकरणतागर्भ सन्निकर्षादिकल्पनाया अध्यावश्यकत्वात् उपदर्शितसंयोगस्थलेऽपि एकैकावच्छिन्नसंयोगद्वयस्वीकारे च तद्वृत्तिकृता सर्वैश्च नीलैरारब्धेऽवयविनि नीलात् नीलं स्वस्वावच्छेदेन समुत्पद्यमानं रूपमविरोधाद् व्यापकमेवोत्पद्यते, सजातीय-विजातीयेषु नानापदार्थेषु जायमानं समूहालम्बन मिवैकं ज्ञानमिति, तत्सर्वं बिलूनशीर्णं स्यात्, यथादर्शनमंश-कार्तयाभ्यां नानैकसंयोगरूपाद्रव्यपरिणामाभ्युपगमस्योक्तदिशाऽवश्यकत्वेन । ननु व्याप्यवृत्तिनीलप्रत्यक्षं प्रत्यनवच्छिन्न एव चक्षुस्संयोगः कारणम्, अन्या - प्यवृत्तिनी प्रत्यक्षं प्रति तत्तदवच्छेदकावच्छिन्नचक्षुस्संयोगः कारणमित्येवं ग्राहकान्तरकल्पनावश्यक मेवेश्यत आहअव्याप्यवृत्तीति- अव्याप्यवृत्तीनां संयोगविभागादीनां यत् प्रतिनियतावच्छेदकावच्छेदेन प्रत्यक्षं तत्र यदि तत्संयोग प्रत्यक्षं प्रति तत्संयोगावच्छेदकावच्छिन्नचक्षुः संयोगस्य कारणत्वम्, एतत्संयोगप्रत्यक्षं प्रत्येतत्संयोगावच्छेदकावच्छिन्नचक्षुस्संयोगस्य कारणत्वम् एवं विभागादिप्रत्यक्षं प्रतीत्येवं कार्यकारणभावाभ्युपगमे व्यक्तिभेदेनाऽनन्तकार्यकारणभावकल्पनं स्यात् तद्भयादव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वं यत् संयोग विभागादिप्रत्यक्षसाधारणं तदवच्छिन्नं प्रति चक्षुस्संयोगस्य तत्तदव्याप्यवृत्तिद्रव्यसमवेतावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण हेतुत्वम् तेन यदवयवावच्छिन्न समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण चक्षुस्संयोगस्तदवयवावच्छेदेनाव्याप्यवृत्तिद्रव्यसमवेतस्य संयोगादेः प्रत्यक्षं भवतीत्येकेनैव कार्यकारण"भावेन यथा संयोगादिप्रत्यक्षाणामुपपत्तिस्तथाऽव्याप्यवृतिनीलादिप्रत्यक्षमप्यव्याप्यवृत्तिद्रव्यसमवेत प्रत्यक्ष भवतीति तस्यापि निरुक्तप्रत्यक्षत्वलक्षणकार्यतावच्छेदकाक्रान्तत्वेन तेनैव निर्वाहो यदवच्छेदेनाव्याप्यवृत्तिनीलादि तदवच्छेदेन चक्षुस्संयोगस्थ 'समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षत एव तत्प्रत्यक्षम् नान्यावयवावच्छिन्नचक्षुस्संयोगत इत्येवमनतिप्रसङ्गादित्यर्थः । 'चक्षुरसंयोगकावच्छेदक ' इति स्थाने 'चक्षुस्संयोगस्यैकाचच्छेदक ' इति पाठो युक्तः, संयोगादिप्रत्यक्षस्थले अव्याप्यवृत्तिद्रव्यसमवेत प्रत्यक्षत्वावच्छिन्नं प्रति चक्षुस्संयोगस्य क्लृप्तेनैवैकावच्छेदकावच्छिन्न समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेणाऽनतिप्रसङ्गादित्यन्वयः । यत्र नील- पीतो भयरूपवदेवैकं कपालमपरमपि कपालं तथा, ताभ्यामारब्धे घंटे यदव्याप्यवृत्तिनीलरूपं तस्य कपालं नावच्छेदकं कपाले नीलरूपवत् पीतरूपस्यापि सत्त्वेन पीतकपालावच्छेदेन चक्षुस्सन्निकर्षेऽपि घटीयाव्याप्यवृत्तिनीलरूपप्रत्यक्षं प्रसज्येतेत्यत आह- नील-पीतोभयकपालारब्धेति - नील- पीतोभयरूपवत्कपालारधेत्यर्थः तेन नीलकपाल-पीतकपालोभयारब्धघटीयनीलरूपप्रत्यक्षस्य नीलकपालावच्छेदेन चक्षुस्सन्निकर्षात् संभवेन नीलकपालिकायास्तत्रावच्छेदकत्वकल्पनेऽपि न क्षतिः । 'नीलकपालिकैव' इत्येवकारेण कपालस्यावच्छेदकत्वव्यवच्छेदः । परम्परयेति - नीलकपालिका कपालनीलस्यावच्छेदिकेति तज्जन्यघटनीलस्याप्यवच्छेदिकेत्यर्थः । " एतेन इत्यतिदिष्टनिरासहेत्वन्तरमुपदर्शयति- शाखेति - शाखामूलोभयावच्छिन्नो यो दीर्घतन्तुना सह तरोः संयोगस्तस्यैव नीलनीलतरोभयाद्यवयवावच्छिन्नं विलक्षणं रूपं तस्यानुभवसिद्धत्वेन तथाभूतविलक्षणरूपग्राहकस्य नील नीलतरावयवद्वयादिपर्याप्ता यावच्छेदकता तन्निरूपिताधिकरणतागर्भसन्निकर्षादिः कल्पनाया अप्यावश्यकत्वादित्यर्थः । यदि च शाखा-मूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगस्थले शाखावच्छिन्नतन्तुतरुसंयोगोऽन्यस्तदन्यश्च मूलावच्छिन्नतन्तुतरुसंयोगश्चान्य इत्येवं संयोगद्वयम्, तर्हि नीलैरारब्धे ऽवयविन्यपि तत्तदवयवावच्छिन्नानि नानैव नीलानीति तत्र समूहालम्बनैकज्ञानदृष्टान्तेन तत्तदवयवनीलैः स्वस्वाश्रयावयवावच्छेदेन जायमाननीलं व्यापक मेकमेवेत्यभ्युपगमनमपि परस्य विलीनं स्यादित्याह - उपदर्शित संयोगस्थलेऽपीति । 'तद्वृत्तिकता' इति स्थाने 'तद्वन्नानानीलस्वीकृतौ यत्' इति पाठ: ' समुत्पद्यमानं रूपमविरोधाद्' इति स्थाने ' समुत्पद्यमानमविरोधाद्' इति पाठश्च युक्तः, समूहालम्बनज्ञानमप्येकं न भवेत् तत्रापि विषयभेदेन भिन्नमेव भवेदिति दृष्टान्तस्याप्यसङ्गतत्वं स्यादित्याशयः । यदि चोपदर्शितसंयोगस्थले शाखावच्छिन्नसंयोगो मूलावच्छिन्नसंयोगः शाखा-मूलोभयावच्छिन्नसंयोग इत्येवं संयोगत्रयम्, तर्हि तद्वदेव प्रत्येकावयवावच्छेदेन विभिन्नं नीलम्, सम्पूर्ण चैकं नीलमित्यपि स्याद् एवं च स्याद्वादिनामेव जय इत्याह- यथादर्शनमिति - प्रतीत्यनुसारेणेत्यर्थः ।
७६