________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
___ अव्याप्यवृत्तिरूपपक्षेऽप्यवयवगतोत्कृष्टाऽपकृष्ट नीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशात् अर्थात् अनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गः, अवयविनीलतरत्वाचवच्छिन्न एवावयवनीलतरस्वादिना हेतुत्वे नीलस्वावच्छिन्नस्याकस्मिकत्व प्रसङ्गः, किमाकस्मिकत्वमिति चेत् ? तद्धावच्छिन्नाथितया प्रवृत्तिविरहः, एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च, प्रतीयते च तत्र नीलसामान्यमवच्छिन्नम् , अवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि च स्वल्प-बह्ववयवावच्छेदेनेन्द्रिय. सन्निकषेऽणु-महत्त्वोपेतशुक्लविशेषास्तदनुशक्त शुक्लसामान्य च, इत्येकानेकवणेविशिष्टद्रव्यपरिणामाभ्युप. गर्म विना न कथमपि निस्तारः । एतेन 'अव्याप्यवृत्तिनीलादिकल्पे न ग्राहकान्तरकल्पनम् , अव्याप्य. ___ अथाव्याप्यवृत्तिनानारूपवादिनवीननैयायिकमतखण्डनमधिकरोति- अव्याप्यवृत्तिरूपपक्षऽपीति । तयोः उत्कृष्टाअपकृष्ट नीलयोः । अवच्छिन्नयोः उत्कृष्टनीलावयवावच्छिन्नाऽपकृष्टनीलावयवावच्छिन्नयोः, अस्य 'उत्पत्तिप्रसङ्गः, इत्यनेनान्वयः । अर्थात् अर्थबलसिद्धात् । तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापककार्यतावच्छेदकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री तद्व्याप्ययत्कञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री चापेक्षितेत्ययं नियमो यस्य धर्मस्य व्याप्यीभूतधर्मो व्यापकीभूतधर्मश्च कार्यतावच्छदेकः समस्ति तत्र, यस्य धर्मस्य तु व्यापकीभूतधर्मः कार्यतावच्छेदको नास्ति तत्र तद्धविच्छिन्नोत्पत्तौ तद्धर्मव्याप्यकिञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, यस्य तु न किञ्चिद्व्याप्यधर्मः कार्यतावच्छेदकः समस्ति तद्धर्मावच्छिन्नोत्पत्तौ तव्यापकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, स्वावच्छिन्नोत्पादकसामग्री तु सर्वत्रापेक्षितैवेति, तथा चोत्कृष्टनीलस्वस्याऽपकृष्टनीलत्वस्य च व्यापकीभूतधर्मो नीलत्वं यत्किञ्चित्कारणतावच्छेदकं समस्तीति तत्तदवच्छिन्नोत्पत्तिस्थले नीलत्वावच्छिम्नोत्पादकसामन्या अवश्यम्भावात् ततोऽनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गोऽपि तत्र भवेदित्यर्थः । 'नीलस्योत्पत्तिप्रसङ्गः' इत्यस्य स्थाने 'नीलस्य चोत्पत्तिप्रसङ्गः' इति पाठो युक्तः । यदि च नीलत्वावच्छिन्नं प्रति नीलत्वावच्छिन्न कारणमिति सामान्यकार्यकारणभावो नाभ्युपेयत एव, किन्त्वस्यविनीलतरत्वावच्छिन्न प्रति अवयवनीलतरत्वावच्छिन्नं कारणमित्येवाभ्युपयते तदा नीलत्वस्य किञ्चित्कारणनिरूपित कार्यतावच्छेदकत्वाभावात् तदवच्छिन्नस्याकस्मिकत्वं प्रसज्येतेत्याह- अवयविनीलतरत्वाद्यवच्छिन्न पवेति- एक्कारेण अवयविनीलतरत्वावच्छिन्ने अवयवनीलत्वेन कारणत्वस्य व्यवच्छेदः ! नीलस्वाद्यवच्छिन्नस्याकस्मिकत्वं यदापद्यते तत् किमिति पृच्छति-किमिति । नीलत्वावच्छिन्नस्य यदा किञ्चित्कारणनियम्यत्वं न स्यात् तर्हि तं प्रति कस्यचित् कारणत्वस्याभावात् तं प्रति कारणत्वस्य किञ्चिद्धर्मिणि अग्रहात् तदर्थं तदुद्देश्यकतदुपादान विशेष्यक प्रवृत्तिर्न स्यात् , एवं यदेव किश्चित्कारणजन्यं तत्रैव कृतिसाध्यत्वज्ञानात् तच्चिकीर्षया प्रवृत्तिर्भवति, नीलत्वावच्छिन्नं च न किञ्चित्कारणाजन्यमिति नीलस्वावच्छिन्नविशेष्यककृति साध्यत्वप्रकारकज्ञानाभावात् तच्चिकीर्षाया अभाव तद्गोचरा प्रवृत्तिर्न स्यादिति नीलत्वावच्छिन्नार्थितया प्रवृत्तिविरह एव नीलत्वावच्छिन्नस्याकस्मिकत्वमित्युत्तरयति-तद्धर्मावच्छिन्नार्थितयेति । एवं नीलत्वावच्छिन्नं प्रति यदि कस्यचित् कारणत्वं भवेत् तदा तत्कारणसत्त्वेअवश्यं नीलत्वावच्छिन्नमुत्पद्यत इति निश्चयः स्यात् , नीलस्वावच्छिन्न प्रति कस्यचित् कारणत्वाभावे तूक्तनिश्चयाभावः स्यात् , स एव चाकस्मिकत्वमित्याह-एतत्कारणसत्व इति । ननु नीलत्वावच्छिन्न प्रति कस्यचित् कारणत्वाभांवान्नीलत्वावच्छिन्न तत्रोत्पद्यत एव, किन्तु नीलतरत्वावच्छिन्नमव्याप्यवृत्त्येव तनोत्पद्यत इत्यत आह-प्रतीयते चेति । तत्र नीलतरादिरूपवत्यक्यविनि | 'नीलसामान्यमवच्छिन्नम्' इति स्थाने 'नीलसामान्यमनवच्छिन्नम्। इति पाठो युक्तः । तद्विशेषा: नीलविशेषाः, तथा चानवच्छिन्ननीलसामान्य-नीलतरनीलतमादिलक्षणनीलविशेषप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्न नीलसामान्यावच्छिन्ननीलविशेषाणामेकत्र द्रव्य स्वीकार आवश्यक इत्यर्थः। यत्र च द्रव्ये केवलशुक्लमेव रूपम्, तत्रापि स्वल्पावयवावच्छेदेनेन्द्रियसन्निकर्षेऽणु शुक्लरूपं प्रतीयते बह्ववयवावच्छेदेनेन्द्रियसन्निकर्षे महच्छुक्लरूपं तदुभयानुस्यूतं शुक्लसामान्यं च प्रतीयत इति ताशप्रतीत्यन्यथानुपपत्याऽनवच्छिन्न शुक्लसामान्यावच्छिन्नशुक्लविशेषाणामप्येकत्र द्रव्ये स्वीकार आवश्यकः, एवं केवलपीतादिस्थलेऽपीत्याह- केवलशुक्लेऽपि चेति । 'तदनुशकम' इति स्थाने ' तदनुषक्तम् ' इति पाठो युक्तः, तस्य तदनुस्यूतमित्यर्थः । 'शुक्लसामान्यं च । इत्यनन्तरं 'प्रतीयते' इत्यनुषज्यते । उपसंहरति- इतीति-एतस्मात् कारणादित्यर्थः, एकाऽनेकवर्णविशिष्टद्रव्यपरिणामो यदि स्वसामग्रीप्रभव उपेयते तदेवैकस्यापि द्रव्यस्य तत्तद्वर्णविशिष्टत्वेन प्रत्यक्षं तत्तत् प्रत्यक्षसामग्रीबलादुपपद्यते नान्यथेत्यतस्तथाऽभ्युपगम एवं ज्यायानित्याशयः। एतेन ' इत्यस्य 'निरस्तम्' इत्यनेनान्धयः। एतेन अनेकवर्णविशिष्ट