________________
७४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
" पच्चुप्पणम्मि वि पज्जयम्मि भयणागई पडइ दव्वं, जं एगगुणाईआ अणंतकप्पा गुण विसेसा ॥"
-[ सम्मतितर्ककाण्ड० ३, गाथा ६ ] व्याख्या-प्रत्युत्पन्ने(ऽपि)- वर्तमानेऽपि पर्याये, भजनागति-भेदाऽभेदप्रकारम् , पतति-आसादयति द्रव्यम् , यत्-यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाः, कल्पशब्दः प्रकारवाची, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति ॥
कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमूनं वा भवेत् प्रकारान्तराभावात् , आद्ये सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः सङ्ख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यम्भाविनी, तथा च प्रतिनियतहानि-वृद्धियुक्तकृष्णा दिपर्यायेण सत्त्वं नान्येने ति, इत्थं च नीलत्वाधवान्तरजातीनामनन्तत्वात् तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात् , तत् तदवान्तरजातीयनील पीतादीनामनन्तानां चित्रहेतु. त्वकल्पने गौरवमिति षट्रस्थानपतितवर्णपर्यायेण चित्रद्रव्यमेव स्वसामग्नीप्रभवमभ्युपगन्तव्यम्, अर्थसमाजसिद्धधर्मस्यापि तथाभवत्वकार्यतावच्छेदकत्वस्वीकारात्, एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुःसंयोगनिष्ठं वैजात्यं स्वीकर्तव्यमित्यपि निरस्तम् , सूक्ष्मेक्षिकयाऽनन्तावान्तरचित्रानुभवादनन्तवैजात्य. कल्पनापत्तरत्यन्ताप्रामाणिकत्वादिति द्रष्टव्यम् ।
तेषामुत्कर्षाणामानन्त्ये श्रीसिद्धसेन दिवाकराणां वादिप्रवराणां सम्मतिमुपदर्शयति- तदाहुरिति । ‘पचुपणम्मि.' इति-"प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादिका अनन्तकल्पा गुणविशेषाः ॥ इति संस्कृतम् । विवृणोति-प्रत्यपन्नेऽवीति । तत्र वर्तमानपर्याय । तेषां च अनन्तप्रकाराणां गुणविशेषाणाम् । तद द्रव्यम् । एतावता. ऽक्षरार्थो भावितः । अभिप्रेतार्थमुपदर्शयति-कृष्णं हीति । प्रकारान्तराभावात् तुल्याधिकोनप्रकार त्रयातिरिक्तप्रकाराभावात् । आधे कृष्णं द्रव्यं द्रव्यान्तरेण तुल्यमिति पक्षे। 'सर्वतुल्यत्वे ' इति स्थाने 'सर्वथा तुल्यत्वे' इति पाठो युक्तः । सर्वथा तुल्यत्वं तयोस्तदैव स्याद् यद्यसाधारणमप्येकस्य रूपस्यापरस्य स्यादिति तदेकत्वापत्तिः तयोर्द्रव्ययोरैक्यं स्यादि. त्यर्थः । उत्तरयोः कृष्णं द्रव्यं द्रव्यान्तरेणाधिककृष्ण मिति द्रव्यान्तरेणोनकृष्णमिति द्वितीय-तृतीयपक्षयोः। 'सवययादि' इति- आदिपदादसङ्खयेया-ऽनन्तयोः परिग्रहः । षट्रस्थानकप्रतिपत्तिरिति-सङ्खयेयभाग-गुणवृद्धिः १ असवयेयभागगुणवृद्धिः २ अनन्तभागगुणवृद्धिः ३ सययभागगुणहानिः ४ असङ्खयेयभागगुणहानिः ५ अनन्तभागगुणहानिः ६ इत्येवं षट्स्थानकप्रतिपत्तिरित्यर्थः । तथा च षट्स्थानक प्रतिपत्तेरवश्यम्भावित्व च । इत्थं च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेण सत्वं नान्येनेति व्यवस्थितौ च । नीलवाद्यवान्तरजातीनां नीलस्वादिव्याप्यैकगुणकृष्णस्वादिजातीनाम् । यदि तासां सर्वासां जातीनां केनचिद्रपेणानुगमः स्यात् तदा तदपेण चित्र प्रति हेतुत्वकल्पने गौरवं न भवेत् , न चैवमित्याह-तरतमशब्दमात्रेणेति- अर्थस्यैकस्याभावे शब्दानुगमोऽकिञ्चित्कर इत्याशयः। तदनुगमस्य नीलत्वाधवान्तरजातीनामनुगमस्य । अनुगमनाभावे गौरवं स्यादवेत्याह-तत्तदवान्तरेति । तहिं किमभ्युपेयमित्य क्षायामाह-षट्रस्थाने तिघटस्थानपतिता ये एकगुणकृष्णत्वादिविशिष्टा दस्तिदन्यतम पर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपेयम् , स्वसामग्रीत उत्पद्यमानं द्रव्यं तथाभूतमेवोत्पद्यते, गुणानां सहभाविपर्यायत्वेन गुणसहितमेव द्रव्यमुत्पद्यत, न तु पूर्व द्रव्यं ततोऽवयव. गुणविशेषतस्तत्र गुणविशेषोत्पत्तिरिति । यद्यपि वर्णविशेषोत्पादकसामग्रीतो वर्णविशेषः, द्रव्यविशेषोत्पादकसामग्रीतो द्रव्यविशेष इति तदुभयसम्मिलनेन तथाभूतद्रव्यविशेषसम्भव इत्यने कसामग्री समाजप्रयोज्यत्वलक्षणार्थसमाजसिद्धत्ववदेव तथाभूतद्रव्यत्वं तथापि तस्यापि तथाभवत्वस्वाभाव्यस्य कार्यतावच्छेदकत्वमुपगम्यत इति तथाभूतस्वभावबलादेव तथाभूतद्रव्योत्पत्तिरित्याह-तथाभवत्वेति । पते नेति-अस्य · निरस्तम्' इत्यनेनान्वयः, एतेन- षटस्थान पतितवर्णपर्यायण चित्रद्रव्यस्य स्वसामग्रीप्रभवत्वस्वीकारेण चित्रप्रत्यक्षमपि नकविधचित्रत्वप्रकारकमेव, किन्तु विलक्षणविलक्षणचित्रत्वप्रकारकमिति तदनुरोधेन तत्कारणीभूतेषु चक्षुस्सयोगेष्वपि बहूनि वैजात्यानि तत्तच्चिनत्वप्रकारकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपित्तकारणतावच्छेदकतयाऽभ्युपेयानि, निरुक्तदिशैवोपपत्तौ च न तथाभूतानन्तवैजात्यकल्पना प्रामाणिकी येन प्रामाणिकत्वात् तद्गौरवं दोषानावहं स्यादिति निरासहेतुमुपदर्शयति- सूक्ष्मेक्षिकयेति- सूक्ष्मविचारेणेत्यर्थः । एतायता चित्ररूपवादिप्राचीननैयायिकमतमपाकृतम् ।