________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
}
चित्रप्रत्यश्नानुपपत्तेश्चित्रावयवारब्धचित्रप्रहेऽवयवविषयक नीलेतर रूपत्वादिव्याप्यचित्रत्वावच्छिन्न प्रकारकग्रहस्यैव हेतुत्वात् यदि च नीलेतररूप- पीतेतर रूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिप्रहप्रतिबन्धक दोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम्, अतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदा अनन्तहेतु हेतुमद्भावकल्पना गौरवाचित्रत्वं व्यासज्जवृत्त्येव तत्र च समानाधिकरणनानारूपप्रहव्यङ्ग्यत्वमित्येव कल्प्यमानं शोभते, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूप महत्वेनैव हेतुत्वात् उक्तहेत्वभावे चित्रत्व विनिर्मुक्तचित्र प्रत्यक्षस्य चोभयोस्तुल्यत्वात्, यदि च नानावयवावच्छिन्न पर्यायवृत्तिरेकं चित्रमध्यनुभूयते, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, तदैकानेक चित्रद्रव्यस्वभावाभ्युपगमं विना न काप्युपपत्तिः, देश-स्कन्धनियतधर्मात हामी ग्राह्यत्वेनैवोक्तोपपत्तेर्देश- स्कन्धपरिमाण विशेष ग्रहेऽपीयमेव गतिरिति दिक् ।
किञ्च, नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिः, अवयवगतोत्कृष्टा ऽपकृष्टनीलाभ्यामपि चित्रसम्भवात्, ते चोत्कर्षा विचार्यमाणा अनन्ता एव, तदाहुः श्रीसिद्धसेना:हेतुत्वमित्याह त्र्यणुकचित्ररूपाग्रह इति । 'अवयवविषयक' इति स्थाने अवयवविशेष्यक' इति पाठो युक्तः, अत्र च समानविशेष्यतया कार्यकारणभावो न सम्भवति, कार्य कारणयोर्विभिन्नविशेष्यकत्वात् किन्तु समवायलक्षणसामानाधिकरणप्रत्यासत्त्यैव कार्यकारणभाव इति बोध्यम् । ननु नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्य चित्रप्रत्यक्षे हेतुत्वम्, तत्रावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धक दोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम्, अतत्रसरेणुश्चित्रस्यापि प्रत्यक्षं सम्भवति, यतो नीलेतररूप-पीतेतररूपादिमद् यद् द्व्यणुकं तद्रूपत्रसरेण्ववयवावच्छेदेने न्द्रियसन्निकर्षोऽपि विद्यते, द्वयणुकलक्षणावयवनीलस्याऽयोग्यत्वादेव प्रत्यक्षाभावे तद्वतनीलत्वस्यापि तते एव ग्रहणं न भवतीति न तत्प्रतिबन्धक दोषकल्पनेति तादृशदोषाभावोऽपि विद्यत इति तद्रूपकारणसद्भावादित्यत आह- यदि चेति । एवं सत्यनन्तहेतुहेतुमद्भावकल्पनागौरवं स्यादित्याह - तदेति । तर्हि किमम्युपेयमित्यपेक्षायामाह - चित्रत्वमिति । 'व्यासज्जवृस्येव ' इति स्थाने 'व्यासज्यवृत्त्येव' इति पाठो युक्तः, तस्य चात्रयविगतनील-पीतादिचित्रपर्याप्तवृत्त्येवेत्यर्थः । तत्र च निरुक्तचित्रत्वे च । समानाधिकरणनानारूपग्रहव्यङ्ग्यत्वम् एकाधिकरणवृत्तिनानारूपग्रहजन्यप्रत्यक्षविषयत्वम् । इत्थं कल्पने गौरवं स्यादित्याशङ्क्य प्रतिक्षिपति - नह्येवं गौरवमिति । उक्तहेत्वभावे सामानाधिकरण्यसम्बन्धेन रूरविशिष्टरूपप्ररूपकारणाभावे । चित्रत्वेन चित्ररूपग्रह एव तस्य कारणत्वमुपेयते, न तु चित्रप्रत्यक्षमात्र इति निरुक्तकारणाभावे चित्रत्वेन चित्रप्रत्यक्षं माना जायताम्, चित्रप्रत्यक्षं तु स्यादेवेत्याह- चित्रत्वविनिर्मुक्तेति- चित्रत्वाविषयकेत्यर्थः । उभयोः तव मम च । ननु चित्रावयविनि प्रत्येकावयवावच्छेदेन नीलादिकमपि विद्यते, नानावयवावच्छेदेनैकं चित्रमपि विद्यत इत्यभ्युपगमस्तत्राह - यदि चेति । नानावयचावच्छिन्नपर्यायवृत्तिः नानावयवावच्छिन्नावयव्यात्मकपर्यायवृत्तिः । अत एव नानावयवावच्छिन्नपर्यायवृत्त्येकचित्राभ्युपगमादेव । तथा सत्यनायासेन स्याद्वाद आपतितः, तमन्तरेणेत्थमभ्युपगमाऽसम्भवादित्याह - तदेति - एकस्वभावत्वेन चित्ररूपमपि तत्र विद्यते, नानास्वभावत्वेन नानारूपाण्यपि तत्र विद्यन्त इति स्याद्वादः सिद्ध इत्याशयः । एकैकावयवावच्छेदन चक्षुस्सन्निकर्ष एकैकावयवावच्छिन्नवृत्तिक शुक्लादिप्राहकः, नानावयवावच्छेदेन चक्षुस्सन्निकर्षो नानावयवावच्छिन्नवृत्ति कचित्ररूपप्राहक इत्येवं विभिन्नसामग्री ग्राह्यत्वेनोत्तोपपत्तिः सम्भवतीत्याह- देशेतिशुक्लादिर्देशनियतो धर्मः, चित्रं तु स्कन्धनियतो धर्म इति बोध्यम् । तग्राहकेति - देशस्कन्धप्राह केत्यर्थः । यथा च चित्रपटाद नानारूपैकरूपग्रहयोरुक्तदिशोपपत्तिस्तथैका ऽनैकपरिमाणविशे षग्रहाणामप्युक्तदिशैवोपपत्तिरित्याह- देश-स्कन्धपरिमाणविशेषग्रहेऽपीति । यथा च नील-पीताभ्यां नील- रक्ताभ्यामित्येवं रूपद्रयवद्भयां तथा विजातीयरूपत्र - विजातीयरूपचतुष्टयादिभिरवयवैरारब्धेष्ववयविषु चित्ररूपोत्पत्तिः, तथैकजातीयरूपवद्भयां नील-नीलतरावयवाभ्यामेवं पीत-पीततरावयवाभ्यां नील-नीलतर- नीलतमावयवैः पीत- पीततर- पीततमावयवैरारब्धेष्ववयविषु विलक्षण विलक्षणचित्रोत्पत्तिरनुभूयत इति तेषामपि चित्रं प्रति कारणत्वमभ्युपगन्तव्यमेवेत्याह- किञ्चेति । ते चोत्कर्षाः अवयवनीलादिगता उत्कर्षाः ।
१०
७३