________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अथ चित्रत्व
परम्परयाऽवयवगतनीले तररूप- पीतेतररूपादिमत्त्वग्रहो हेतु:, अत एव त्र्यणुक चित्रं चक्षुषा न गृह्यत इत्याचार्याः । न च चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेततत्व सम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततग्रहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव विनिर्युक्तसम्बन्धेन तद्धेतुत्वात्, न च, नीलेतररूपत्वाद्यवच्छिन्नप्रकारताग्रहो न हेतुः, नीलत्व पीतत्वादिनाऽवयवगत नीलपीतादिप्रहेऽप्यवयविचित्रप्रत्यक्षोपादादिति वाच्यम्, विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तदुग्रहस्यापि हेतुत्वात् वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्व - पीतत्वाद्यनुगमान्न क्षतिरिति चेत् ? न व्यणुक चित्ररूपामहे चतुरणुकस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतपीतेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्वादिनिष्टस्वरूपसम्बन्धावच्छिन्न प्रकारताकप्रत्यक्ष कारणमित्यवयवगतनीलेतररूपादिमत्त्वप्रहे सत्येव चित्रप्रत्यक्षं नान्यथेत्यर्थः । उक्तकार्यकारणभावे न्यायधुरन्धरोदयनाचार्य सम्मति मुपदर्शयति- अत एवेति- निरुक्त कार्यकारणभावादेवेत्यर्थः, त्र्यणुके यद्यपि स्वसमवायिसमवेतत्वसम्बन्धेन द्व्यणुकगतनीलेतररूपादिमत्त्वं वर्तते तथापि तस्याऽयोग्यत्वात् प्रत्यक्षं न भवति, ततस्तदात्मक कारणाभावात् त्र्यणुक चित्रं चक्षुषा न गृह्यत इत्युदयनाचार्या वदन्तीत्यर्थः । उक्तदिशा कार्यकारणभावं नैयायिकाभिमतमजानतः प्रकारान्तरेण कार्यकारणभावं नैयायिकाभिमतं कल्पयतः परस्य शङ्कामुत्थाप्य नैयायिकः प्रतिक्षिपति न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । उक्तस्य अवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य, एतत्सङ्गमनं चेत्थम् - चित्रत्वप्रत्यक्षं चित्रत्वनिष्टविषयतासम्बन्धेन चित्रत्वे समुत्पद्यते तत्रावयवगत नीलेतररूपादिमत्त्वग्रहः स्वविशेष्योऽवयवः, तत्समवेतोऽवयवी, तत्समवेतत्वं चित्रत्वे समस्तीति तत्सम्बन्धेन समस्तीति तस्प्रत्यक्षं तत उत्पद्यत इति । अत्र 'घटावयच' इत्यादिना यदापादनं कृतं तदित्थंसङ्गमनम् - चित्रत्वमेकमेव तत्र शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षो वर्तते, घटावयवगतनीलेतररूपादिग्रह उक्तसम्बन्धेन चित्रत्वे समस्तीति घटगतचित्रत्वापत्तिः, वस्तुतोऽत्र चित्ररूपात्मकं चित्रत्वं नैकमिति तदाश्रित्य कार्यकारणभावो न, किन्तु चित्ररूपगतं यचित्रत्वमेकं तदाश्रित्येव कार्यकारणभावः, तत्र परम्परासम्बन्धेन घटावयवगतनीलेतररूपादिमत्त्व हो घटविशेष्यको भवति इत्यं च यदेव चित्रत्वं घटगतचित्ररूपे वर्तते तदेव चित्रत्वं पटगतचित्ररूपेऽपि वर्तते इति चित्रपटमादाय यदा चक्षुषः स्वसंयुक्तसमवेतत्वसमवाय लक्षणसन्निकर्षश्चित्रत्वे वर्तते तदानीं स्वसमवायिसमवेतत्वसम्बन्धेन घटावयवगतनीलेतररूपादिमत्वग्रहे स ग्रहः, स्वविशेष्यो घटः, तत्समवेतं तद्गतचित्ररूपम्, तत्समवेतत्वं चित्रत्वे समस्तीति तेन सम्बन्धेन तत्र वर्तत इति तदात्मक कारणस्य सत्वेन चित्रपटचित्र प्रत्यक्षत्वापत्तिरित्यर्थः । निषेधहेतुमुपदर्शयति- विशेष्यतयेति । विनिर्युक्तसम्बन्धेन' इति स्थाने ' निरुक्तसम्बन्धन ' इति पाठो युक्तः तस्य विशेष्यतासम्बन्धेनेत्यर्थः । तद्धेतुत्वात् परम्पराऽवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य हेतुत्वात् 'न च' इत्यस्य वाच्यम्' इत्यनेनान्वयः । 'प्रकारताग्रह' इत्यस्य स्थाने प्रकारताकग्रहः' इति पाठये युक्तः । न हेतुः न चित्रत्वप्रकारकप्रत्यक्षे कारणम् । तादृशहेतुत्वाभावे व्यतिरेकव्यभिचारं हेतुत्वेनोपदर्शयति- नीलत्व पीतत्वादिनेति । उक्ताशङ्कानिषेधे हेतुमाह - विलक्षणचित्रप्रत्यक्ष इति - यादशचित्रप्रत्यक्ष मवयवगतनीलपीतादिग्रहेणोपजायते तादृशचित्र प्रत्यक्षे नीलत्व-पीतत्वादिरूपेणावयवगतनीलपीतादिग्रहस्य हेतुत्वम्, यादृश चित्र प्रत्यक्ष मवयवगतीनेतररूप-पीतेतररूपादिग्रहेणोपजायते तादृशचित्रप्रत्यक्षे नीलेतररूपत्वाद्यवच्छिन्न प्रकारताकग्रहो हेतुरित्येवमुपगमे व्यतिरेकव्यभिचाराभावादित्यर्थः । तेन तेन रूपेण नीलत्व-पीतत्वादिना । तत्तद्रहस्यापि अवयवगतनील - पीतादिग्रहस्यापि । नीलत्व-पीतत्वादीनां नीलेतररूपत्व-पीतेतररूपत्वादीनां च नीलेतररूपत्वादिव्याप्यत्वेनानुगमय्य चित्रत्वप्रकारकप्रत्यक्षे नीलेतररूपत्वादिव्याप्यधर्मावच्छिन्नप्रकारताकग्रहत्वेन कारणत्वेऽपि न व्यभिचार इत्याह- वस्तुत इति । उक्तनैयायिकाशङ्कां प्रतिक्षिपति नेति । अवयवगतनीलपीतादिप्रहस्यावयवगतनीलेतररूप- पीतेतररूपादिग्रहस्य चित्रप्रत्यक्ष कारणत्वे चित्रत्र्यणुका रब्चचतुरणुकस्य चित्ररूपस्य प्रत्यक्षं न स्यात्, यतः त्र्यणुकचित्रस्यैव प्रथमं प्रत्यक्षं न सम्भवति, तदवयवद्व्यणुकग तनी लादेनले तररूपादेश्च योग्यत्वेन तद्ब्रहणाभावे तद्रूपकारणाभावात् त्र्यणुकचित्राग्रहे च भवन्मते तत्र चित्ररूपवति रूपान्तरस्याभावात् येन त्र्यणुकगतरूपान्तरप्रहतोऽपि चतुरणुकप्रत्यक्षस्योत्पत्तिः संभाव्येत, अत उक्तदिशा कार्यकारणभावो न संभवति, चित्रावयवारब्धावयदिचित्रप्रत्यक्ष साधारण्येन, किन्तु चित्रावयवारब्धचित्रग्रहेऽवयवविशेष्यकनीलेतररूपत्वादिव्याप्यचित्रस्वावच्छिन्न प्रकारक ग्रहस्यैव
७२
6