________________
नयामृततरङ्गिणी-तरङ्गिणीतरणि या समलङ्कृतो नयोपदेशः । सम्भवान्नीलत्वादिकमपि च विलीयेतेति, जातेरव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत्, किश्चिदवच्छेदेन तत्र नीलत्व-पीतत्व रक्तत्व-विलक्षणचित्रत्वादिसम्भवाद्" इत्याहुः ।
तदिदमखिलमशिक्षितप्रलापमात्रम्-चित्रपटादौ चित्ररूपस्यैव प्रतिपत्तेरनुभवविरुद्धत्वात् , शुक्लादि. रूपाणामपि परस्परभिन्नानां साक्षात्सम्बन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यकल्पनागौरवेण प्रतीति. बाधे रूपादेखुटिमात्रगतत्वापत्तिः, तदिदमाहुः सम्मतिटीकाकृत:-" न च चित्रपटादावपास्तशुक्लादिविशेषरूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्यभ्युपगन्तव्यम् , कथम् ? चित्ररूपः पट इति प्रतिभासा. ऽभावप्रसक्के: " [
] इति, एकाधिकरण्यावच्छिन्न शुक्लादिसमुदाय एव, न कश्चित्समुदा. यातिरिक्तचित्रमिति तत्र शुक्लाद्यपहे चित्राग्रहप्रसक्तिरित्येतत्तात्पर्यम् । किञ्च, एवं शुक्लावयवावच्छेदे. नापि चक्षुःसन्निकर्षेण चित्रोपलम्भः स्यात् । सम्भवादिति दृश्यम् । 'चित्रत्वम्' इत्यस्य — विलीयेत' इत्यनेन सम्बन्धः । नीलादिभेदसमुदायेन तत्तन्नीलादिविशेषसमुदायेन, तत्तत्पीतादिविशेषमुदायेनेत्येवं दिशा तत्तद्विशेषसमुदायेन । ' नीलादि' इत्यादिपदात् पीतादेरुपग्रहः, 'नीलत्वादिकम्' इत्यादिपदात् पीतत्वादेग्रहणम् । जातेयद्यप्यव्याप्य वृत्तित्वमुपेयते तदैकस्मिन्नेव रूपे तत्तद्भागावच्छेदेन नीलव-पीतत्वादिकं भाग यावच्छेदेनावान्तरचित्रात्वादिकं सम्पूर्गावच्छेदेन चित्रत्वसामान्यमित्युपगम्य नील
आन्तरचित्रवादि-चित्रत्वसामान्यप्रतीतीनामुपपत्तिसम्भवादस्त्येकमेव तत्र रूपमित्याह-जातेरस्याप्यवृत्तित्व इति । तत् रूपम् । तत्र एकस्मिन् रूपे।
एतावता नैयायिकमतमुपदर्थ ग्रन्थकारो जैनसिद्धान्तावलम्बनेन तत्खण्डनमधिकरोति- तदिदमिति- उक्तदिशोपदर्शितं प्राचीननैयायिकाभिमतं नानारूपवदवयवारब्धावयविनि चित्रैकरूपसमर्थनमित्यर्थः। अशिक्षितप्रलापमात्रम् अशिक्षितानां प्राचीनमतानुयायिनो नियुक्तिकवचनमात्रम् । तत्र हेतुमाह-चित्रपटादाविति । 'चित्ररूपस्यैव' इत्येवकारेण शुक्लादेर्व्यवच्छेदः । यथा तत्र चित्ररूपं प्रतीयते तथा शुक्लादिकमपि प्रतीयत इति शुक्लादिकमपि तत्राभ्युपेयमित्याहशुकादिरूपाणामपीति । अवयवगतानामेव शुकादिरूपाणां स्वसमवायिसमवेतत्वसम्बन्धन तत्रावयविनि प्रतीतिर्भवतीति यदि परो बयात् तत्प्रतिषेधार्थमाह-साक्षात्सम्बन्धेनेति । निर्विगानं विवादमन्तरेण । तत्र अवयविनि । ननु अवयविनि शुक्लादिनानारूपकल्पनायां गौरवं स्यादत: साक्षात्सम्बन्धेन तत्र शुक्लादिप्रतीति धितैवेति न तया तत्र शुक्ला दिव्यव. स्थितिरित्यत आह-प्रत्येतव्येति- प्रत्येतव्यं यच्छुक्लादि तत्कल्पनागौरवेण । शुक्लादिप्रतीतिबाधे चतुरणुकादावपि त्र्यणुकगतरूपादेरेव परम्परया प्रतीतेरुपपत्तेः साक्षारसम्बन्धेन तरकल्पनायां चतुरणुकादिगतरूपकल्पनया गौरवं स्यादतश्चतुरणुकादौ रूपादिकं न कल्प्यत इति रूपादेस्त्रुटिमात्रगतत्वापतिः- त्रसरेणुमात्रगतत्वापत्तिः, यद्यपि ततोऽपि परमाणुमात्रगतत्वे लाघवम् , तथापि परमाणुमात्रगतरूपादेरयोग्यत्वात् प्रत्यक्षं न स्यादिति त्रुटिमात्रगतत्वस्यैवापादन मिति । उक्तार्थे सम्मतिटीकाकृतां वचनं संवादकतयोपदर्शयति-तदिदमाहरिति । सम्मतिटीका कृवचनमेवोलिखति-न चेति । 'चित्रपटादी' इत्यत्रादिपदाच्चित्रपक्षणम् , अपास्तो निरस्तः शुक्लादिविशेषो यत्र तदपास्तशुक्लादिविशेषम् , तथाभूतं रूपमात्रं चित्रपटाधुपलम्भान्यथानुपपत्त्या-बहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष उद्भूतरूपं कारणमिति यदि चित्रपटादौ रूपं न स्यात् तत्प्रत्यक्षमेव न स्यादित्येवंरूपया, चित्रपटादावस्तीत्यभ्युपगन्तव्यं न चेत्यर्थः । पृच्छति-कथमिति- कथं नाभ्युपगन्तव्यमित्यर्थः। उत्तरयति-चित्ररूप इति यदि रूपमात्रं तत्र स्यात् तर्हि 'रूपवान् घटः' इति प्रतिभासः स्यान 'चित्ररूपः पटः' इति प्रतिभासो भवेदतो रूपमात्राभ्युपगमो न युक्त इत्यर्थः । उक्तवचनतात्पर्यमुपवर्णयति- एकाधिकरण्येति- एकाधिकरणवृत्ति. त्वविशिष्टो यः शुक्लादिसमुदायः स एवं कथञ्चित्समुदायातिरिक्त चित्ररूपमिति तत्र चित्रपटादौ शुक्रादेः समुदायिनः प्रत्येकस्याग्रहे तत्समुदायरूपस्य चित्रस्याग्रहप्रसक्तिरिति सम्मतिटीका कृचनतात्पर्यार्थ इत्यर्थः । शुकादिभ्यः सर्वथा व्यतिरिक्तस्येव चित्रमात्रस्य चित्रपटादाबुपगमे तस्य चित्ररूपस्य सम्पूर्णपदवृत्तित्वेन प्रत्येक शक्काद्यवयवावच्छेदेनापि सत्तया शुक्लावयवमात्रावच्छेदेन चक्षुस्सन्निकर्षेण तत्र चित्र प्रत्यक्षं स्यादित्याह-किश्चति । एवं शुक्लादिव्यतिरिक्तचित्ररूपाभ्युपगमे ।
अत्र नैयायिकः परिहारमाशङ्कते- अथेति । चित्रत्वग्रह इति-विशेष्यतासम्बन्धेन समवायसम्बन्धावच्छिन्नचित्ररूपनिष्ठप्रकारताकप्रत्यक्षे विशेष्यतासम्बन्धेन स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नाक्यवगतनीलेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्व