Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 97
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणि या समलङ्कृतो नयोपदेशः । सम्भवान्नीलत्वादिकमपि च विलीयेतेति, जातेरव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत्, किश्चिदवच्छेदेन तत्र नीलत्व-पीतत्व रक्तत्व-विलक्षणचित्रत्वादिसम्भवाद्" इत्याहुः । तदिदमखिलमशिक्षितप्रलापमात्रम्-चित्रपटादौ चित्ररूपस्यैव प्रतिपत्तेरनुभवविरुद्धत्वात् , शुक्लादि. रूपाणामपि परस्परभिन्नानां साक्षात्सम्बन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यकल्पनागौरवेण प्रतीति. बाधे रूपादेखुटिमात्रगतत्वापत्तिः, तदिदमाहुः सम्मतिटीकाकृत:-" न च चित्रपटादावपास्तशुक्लादिविशेषरूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्यभ्युपगन्तव्यम् , कथम् ? चित्ररूपः पट इति प्रतिभासा. ऽभावप्रसक्के: " [ ] इति, एकाधिकरण्यावच्छिन्न शुक्लादिसमुदाय एव, न कश्चित्समुदा. यातिरिक्तचित्रमिति तत्र शुक्लाद्यपहे चित्राग्रहप्रसक्तिरित्येतत्तात्पर्यम् । किञ्च, एवं शुक्लावयवावच्छेदे. नापि चक्षुःसन्निकर्षेण चित्रोपलम्भः स्यात् । सम्भवादिति दृश्यम् । 'चित्रत्वम्' इत्यस्य — विलीयेत' इत्यनेन सम्बन्धः । नीलादिभेदसमुदायेन तत्तन्नीलादिविशेषसमुदायेन, तत्तत्पीतादिविशेषमुदायेनेत्येवं दिशा तत्तद्विशेषसमुदायेन । ' नीलादि' इत्यादिपदात् पीतादेरुपग्रहः, 'नीलत्वादिकम्' इत्यादिपदात् पीतत्वादेग्रहणम् । जातेयद्यप्यव्याप्य वृत्तित्वमुपेयते तदैकस्मिन्नेव रूपे तत्तद्भागावच्छेदेन नीलव-पीतत्वादिकं भाग यावच्छेदेनावान्तरचित्रात्वादिकं सम्पूर्गावच्छेदेन चित्रत्वसामान्यमित्युपगम्य नील आन्तरचित्रवादि-चित्रत्वसामान्यप्रतीतीनामुपपत्तिसम्भवादस्त्येकमेव तत्र रूपमित्याह-जातेरस्याप्यवृत्तित्व इति । तत् रूपम् । तत्र एकस्मिन् रूपे। एतावता नैयायिकमतमुपदर्थ ग्रन्थकारो जैनसिद्धान्तावलम्बनेन तत्खण्डनमधिकरोति- तदिदमिति- उक्तदिशोपदर्शितं प्राचीननैयायिकाभिमतं नानारूपवदवयवारब्धावयविनि चित्रैकरूपसमर्थनमित्यर्थः। अशिक्षितप्रलापमात्रम् अशिक्षितानां प्राचीनमतानुयायिनो नियुक्तिकवचनमात्रम् । तत्र हेतुमाह-चित्रपटादाविति । 'चित्ररूपस्यैव' इत्येवकारेण शुक्लादेर्व्यवच्छेदः । यथा तत्र चित्ररूपं प्रतीयते तथा शुक्लादिकमपि प्रतीयत इति शुक्लादिकमपि तत्राभ्युपेयमित्याहशुकादिरूपाणामपीति । अवयवगतानामेव शुकादिरूपाणां स्वसमवायिसमवेतत्वसम्बन्धन तत्रावयविनि प्रतीतिर्भवतीति यदि परो बयात् तत्प्रतिषेधार्थमाह-साक्षात्सम्बन्धेनेति । निर्विगानं विवादमन्तरेण । तत्र अवयविनि । ननु अवयविनि शुक्लादिनानारूपकल्पनायां गौरवं स्यादत: साक्षात्सम्बन्धेन तत्र शुक्लादिप्रतीति धितैवेति न तया तत्र शुक्ला दिव्यव. स्थितिरित्यत आह-प्रत्येतव्येति- प्रत्येतव्यं यच्छुक्लादि तत्कल्पनागौरवेण । शुक्लादिप्रतीतिबाधे चतुरणुकादावपि त्र्यणुकगतरूपादेरेव परम्परया प्रतीतेरुपपत्तेः साक्षारसम्बन्धेन तरकल्पनायां चतुरणुकादिगतरूपकल्पनया गौरवं स्यादतश्चतुरणुकादौ रूपादिकं न कल्प्यत इति रूपादेस्त्रुटिमात्रगतत्वापतिः- त्रसरेणुमात्रगतत्वापत्तिः, यद्यपि ततोऽपि परमाणुमात्रगतत्वे लाघवम् , तथापि परमाणुमात्रगतरूपादेरयोग्यत्वात् प्रत्यक्षं न स्यादिति त्रुटिमात्रगतत्वस्यैवापादन मिति । उक्तार्थे सम्मतिटीकाकृतां वचनं संवादकतयोपदर्शयति-तदिदमाहरिति । सम्मतिटीका कृवचनमेवोलिखति-न चेति । 'चित्रपटादी' इत्यत्रादिपदाच्चित्रपक्षणम् , अपास्तो निरस्तः शुक्लादिविशेषो यत्र तदपास्तशुक्लादिविशेषम् , तथाभूतं रूपमात्रं चित्रपटाधुपलम्भान्यथानुपपत्त्या-बहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष उद्भूतरूपं कारणमिति यदि चित्रपटादौ रूपं न स्यात् तत्प्रत्यक्षमेव न स्यादित्येवंरूपया, चित्रपटादावस्तीत्यभ्युपगन्तव्यं न चेत्यर्थः । पृच्छति-कथमिति- कथं नाभ्युपगन्तव्यमित्यर्थः। उत्तरयति-चित्ररूप इति यदि रूपमात्रं तत्र स्यात् तर्हि 'रूपवान् घटः' इति प्रतिभासः स्यान 'चित्ररूपः पटः' इति प्रतिभासो भवेदतो रूपमात्राभ्युपगमो न युक्त इत्यर्थः । उक्तवचनतात्पर्यमुपवर्णयति- एकाधिकरण्येति- एकाधिकरणवृत्ति. त्वविशिष्टो यः शुक्लादिसमुदायः स एवं कथञ्चित्समुदायातिरिक्त चित्ररूपमिति तत्र चित्रपटादौ शुक्रादेः समुदायिनः प्रत्येकस्याग्रहे तत्समुदायरूपस्य चित्रस्याग्रहप्रसक्तिरिति सम्मतिटीका कृचनतात्पर्यार्थ इत्यर्थः । शुकादिभ्यः सर्वथा व्यतिरिक्तस्येव चित्रमात्रस्य चित्रपटादाबुपगमे तस्य चित्ररूपस्य सम्पूर्णपदवृत्तित्वेन प्रत्येक शक्काद्यवयवावच्छेदेनापि सत्तया शुक्लावयवमात्रावच्छेदेन चक्षुस्सन्निकर्षेण तत्र चित्र प्रत्यक्षं स्यादित्याह-किश्चति । एवं शुक्लादिव्यतिरिक्तचित्ररूपाभ्युपगमे । अत्र नैयायिकः परिहारमाशङ्कते- अथेति । चित्रत्वग्रह इति-विशेष्यतासम्बन्धेन समवायसम्बन्धावच्छिन्नचित्ररूपनिष्ठप्रकारताकप्रत्यक्षे विशेष्यतासम्बन्धेन स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नाक्यवगतनीलेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्व

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210