Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 89
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वादिति वक्तुं शक्यत्वात् , न च, नीलत्वेन प्रतिबन्धकत्वम् , न तु नीलेतरत्वेन गौरवादित्येव किं न स्यादिति वाच्यम् , प्रतिबन्धकतावच्छेद कगौरवस्यादोषत्वात् । अस्तु वाऽवच्छेदकतया नीलादौ समवायेन नीलादीनामेव हेतुत्वम् , न च नानारूपवत्कपालारब्धघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, केवल. नीलत्वा दिनैव तद्धेतुत्वात् ; न च केवलत्वं नीलाभावासमानाधिकरणत्वमिति गौरवम् , अनवच्छिन्नस्य समवायेन नीलादिहेतुत्वस्यैव तदर्थत्वात् , समवायेन नीलादौ च स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम्, व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन नीलेतररूपादीनां हेतुत्वम्, इत्यव्याप्यवृत्तित्वपक्षेऽष्टादश कार्यकारणभावाः, दृष्टिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । 'नीलेतरत्वेन' इति स्थाने 'नीलेतररूपत्वेन' इति पाठो युक्तः । निषेधे हेतुमाह-प्रतिबन्धकतावच्छेदकगौरवस्येति-नीलत्वावच्छिन्नं प्रति नीलत्वेन कारणत्वमवयवगतनीलरूपस्यावयविगतनीलं प्रति कारणत्वानुरोधेन सुव्यवस्थितम्, तदेव नीलत्वं प्रतिबध्यतावच्छेदकतयापि यद्युपे यते तदा प्रतिबन्धकामावस्यापि कार्यतावच्छेदकं तदिति लाघवात् तस्यैव कार्यतावच्छेदकत्वं युक्तम्, नीलेतररूपत्वादिकं त्वर्थसमाजप्रस्तत्वान्न कस्यचित् कार्यतावच्छेदकतया व्यवस्थितमिति तस्य प्रतिबन्धकाभावकार्यतावच्छेदकतयाऽभ्युपगमोऽपूर्वत्वान्नादरणीय इत्यनाहार्याऽप्रामाण्यज्ञानानास्कन्दिततदभावनिश्चयत्वादिकं गुरुभूतमपि यथा प्रतिबन्धकावच्छेदकं तथा नीलेतररूरत्वादिक गुरुभूतमपि प्रतिबन्धकतावच्छेदकमित्येवं प्रतिबन्धकतावच्छेदकगौरवस्यादोषत्वादित्यर्थः । ननु गुरुधर्मस्थ प्रतिबन्धकताव. च्छेदकत्वे तदवच्छिन्नप्रतियोगिताकाभावत्वं गुरुभूतमेव कारणतावच्छेदकतया वाच्यमिति कारणतावच्छेदकगौरवस्य दोषत्वं स्यादेवेति चेद् ? न- यद्धर्मावच्छिन्नं प्रति लघुधर्मस्य यन्निष्कारणतावच्छेदकत्वं सम्भवति तद्धर्मावच्छिन्नं प्रत्येव तन्निष्टकारणतावच्छेदकत्वं गुरुभूतस्य न सम्भवति, न तु सामान्यत एवेति, इतोऽप्यस्वरसादाह- अस्तु वेति । 'नीलादौ इत्यादिषदात् पीतादरुपग्रहः, एवं 'नीलादीनाम्' इत्यत्र । ननु यत्रैक कपालं नील-पीताद्यनेकरूपवत् तत्र तदारब्धघटो नील-पीतायेनकरूपवान् भवति, तस्य घटस्य यद् नीलं रूपं तन्मात्रस्य नानारूपवत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, तस्मिन्नपि कपाले समवायेन नीलरूपस्य सत्त्वादित्याशङ्कय प्रतिक्षिपति-नचेति । निषेधे हेतुमाह-केवलनीलत्वादिनैवेति । तद्धतत्वात नीलहेतुत्वात् । ननु यत्र नानारूपं तत्र नीलं पीताद्यवच्छेदेन तत्रैव वर्तमानस्य नीलाभावस्य समानाधिकरणमिति नीलाभावासामानाधिकरण्यलक्षणकैवल्याभावान्न भवतीत्येताक्ता तत्कपालावच्छेदेन तस्मिन् घटे नीलमात्रोत्पत्तिप्रसङ्गस्य वारणेऽपि नीलाभावासामानाधिकरण्यविशिष्टनीलत्वस्थ कारणतावच्छेदकत्वे गौरवं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेनानवच्छिन्ननीलत्वेन नीलस्य हेतुत्वेन नानारूपवत्कपाले नीलस्य किश्चिदवच्छेदेनैव वर्तमानस्यानवच्छिन्नत्वाभावेन नीलमात्र प्रति कारणत्वासम्भवादिति निषेधहेतुमुपदर्शयति- अनवच्छिन्नस्येति - नीलादेरिति दृश्यम् । तदर्थत्वात् केवलनोलत्वादिना नीलादिहेतुत्वमिति शब्दार्थत्वात् । अवच्छेदकत्वसम्बन्धेन नीलादौ समवायसम्बन्धन नीलादीनां हेतुत्वमित्यत्र षट कार्यकारणभावाः प्राप्नुवन्ति, अन्याँश्च षट् कार्य-कारणभावानुपदर्शयति-समवायेनेति । 'नीलादी' इत्यत्रादिपदात् पीतादेरुपग्रहः, एवं नीलादीनाम्' इत्यत्रापि, यत्र कपालद्वयमपि नीलरूपवदेव तत्र तदुभयारब्धघटे व्याप्यवृत्त्येव नीलमुत्पद्यते, एवं पीतकपालद्वयारब्धघटादावपि व्याप्यवृत्त्येव पीतादिकमुत्पद्यते, तत्राप्यवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलादिकं कारणांमति कार्यकारणभावबलादव्याप्यवृत्तिनीलायु. त्पत्ति प्रसन्मस्य वारणायान्येऽपि षद कार्यकारणभावा: कल्पनीया इत्याह- व्याप्यवृत्तिनीलस्थल इति । 'नीलादी' इत्यत्रादिपदात् पीतादेर्ग्रहणम् , 'लीलेतररूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादीनां ग्रहणम् , तथा च अवच्छेदकतासम्बन्धेन नीलं प्रति स्वसमवायिसमवेतव्यसमवायित्वसम्बन्धेन नीलं कारणम् , एवमवच्छेदकतासम्बन्धेन पीतं प्रति स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन पीतं कारणमित्येवंदिशा षट् कार्यकारणभावाः, तथा च यत्र कपालद्वये नीलमेव रूपं तत्र तदारब्धघटे व्याप्यवृत्त्येव नीलरूपं नाव्याप्यवृत्ति, यतस्तद्घटस्थ नीलरूपमव्याप्यवृत्ति तदा भवेद् यदि तदवच्छेदकतया तद्घटावयवे नीलकपाले उत्पोत, न च तत्रावच्छेदकतया तदुत्पत्तिः सम्मवति, तत्कारणस्य नीलेतररूपस्य स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन तत्राभावात् , यत्र चैकं कपालं नीलमपरं च पीतं रक्तादि वा तत्र तदुभयारब्धस्य घटस्य यद् नीलरूपं तदवच्छेदकातया नीलकपाले उत्पत्तुमर्हति, यत: पीतकपालगतस्य नीलेतररूपस्य पीतस्य स्वसमवापि यत् पीतकपालं तत्र समवेतं द्रव्यं स एव घटस्तत्समवायित्वं नीलकपाले वर्तत इति तेन सम्बन्धेन

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210