________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वादिति वक्तुं शक्यत्वात् , न च, नीलत्वेन प्रतिबन्धकत्वम् , न तु नीलेतरत्वेन गौरवादित्येव किं न स्यादिति वाच्यम् , प्रतिबन्धकतावच्छेद कगौरवस्यादोषत्वात् । अस्तु वाऽवच्छेदकतया नीलादौ समवायेन नीलादीनामेव हेतुत्वम् , न च नानारूपवत्कपालारब्धघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, केवल. नीलत्वा दिनैव तद्धेतुत्वात् ; न च केवलत्वं नीलाभावासमानाधिकरणत्वमिति गौरवम् , अनवच्छिन्नस्य समवायेन नीलादिहेतुत्वस्यैव तदर्थत्वात् , समवायेन नीलादौ च स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम्, व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन नीलेतररूपादीनां हेतुत्वम्, इत्यव्याप्यवृत्तित्वपक्षेऽष्टादश कार्यकारणभावाः, दृष्टिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । 'नीलेतरत्वेन' इति स्थाने 'नीलेतररूपत्वेन' इति पाठो युक्तः । निषेधे हेतुमाह-प्रतिबन्धकतावच्छेदकगौरवस्येति-नीलत्वावच्छिन्नं प्रति नीलत्वेन कारणत्वमवयवगतनीलरूपस्यावयविगतनीलं प्रति कारणत्वानुरोधेन सुव्यवस्थितम्, तदेव नीलत्वं प्रतिबध्यतावच्छेदकतयापि यद्युपे यते तदा प्रतिबन्धकामावस्यापि कार्यतावच्छेदकं तदिति लाघवात् तस्यैव कार्यतावच्छेदकत्वं युक्तम्, नीलेतररूपत्वादिकं त्वर्थसमाजप्रस्तत्वान्न कस्यचित् कार्यतावच्छेदकतया व्यवस्थितमिति तस्य प्रतिबन्धकाभावकार्यतावच्छेदकतयाऽभ्युपगमोऽपूर्वत्वान्नादरणीय इत्यनाहार्याऽप्रामाण्यज्ञानानास्कन्दिततदभावनिश्चयत्वादिकं गुरुभूतमपि यथा प्रतिबन्धकावच्छेदकं तथा नीलेतररूरत्वादिक गुरुभूतमपि प्रतिबन्धकतावच्छेदकमित्येवं प्रतिबन्धकतावच्छेदकगौरवस्यादोषत्वादित्यर्थः । ननु गुरुधर्मस्थ प्रतिबन्धकताव. च्छेदकत्वे तदवच्छिन्नप्रतियोगिताकाभावत्वं गुरुभूतमेव कारणतावच्छेदकतया वाच्यमिति कारणतावच्छेदकगौरवस्य दोषत्वं स्यादेवेति चेद् ? न- यद्धर्मावच्छिन्नं प्रति लघुधर्मस्य यन्निष्कारणतावच्छेदकत्वं सम्भवति तद्धर्मावच्छिन्नं प्रत्येव तन्निष्टकारणतावच्छेदकत्वं गुरुभूतस्य न सम्भवति, न तु सामान्यत एवेति, इतोऽप्यस्वरसादाह- अस्तु वेति । 'नीलादौ इत्यादिषदात् पीतादरुपग्रहः, एवं 'नीलादीनाम्' इत्यत्र । ननु यत्रैक कपालं नील-पीताद्यनेकरूपवत् तत्र तदारब्धघटो नील-पीतायेनकरूपवान् भवति, तस्य घटस्य यद् नीलं रूपं तन्मात्रस्य नानारूपवत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, तस्मिन्नपि कपाले समवायेन नीलरूपस्य सत्त्वादित्याशङ्कय प्रतिक्षिपति-नचेति । निषेधे हेतुमाह-केवलनीलत्वादिनैवेति । तद्धतत्वात नीलहेतुत्वात् । ननु यत्र नानारूपं तत्र नीलं पीताद्यवच्छेदेन तत्रैव वर्तमानस्य नीलाभावस्य समानाधिकरणमिति नीलाभावासामानाधिकरण्यलक्षणकैवल्याभावान्न भवतीत्येताक्ता तत्कपालावच्छेदेन तस्मिन् घटे नीलमात्रोत्पत्तिप्रसङ्गस्य वारणेऽपि नीलाभावासामानाधिकरण्यविशिष्टनीलत्वस्थ कारणतावच्छेदकत्वे गौरवं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेनानवच्छिन्ननीलत्वेन नीलस्य हेतुत्वेन नानारूपवत्कपाले नीलस्य किश्चिदवच्छेदेनैव वर्तमानस्यानवच्छिन्नत्वाभावेन नीलमात्र प्रति कारणत्वासम्भवादिति निषेधहेतुमुपदर्शयति- अनवच्छिन्नस्येति - नीलादेरिति दृश्यम् । तदर्थत्वात् केवलनोलत्वादिना नीलादिहेतुत्वमिति शब्दार्थत्वात् । अवच्छेदकत्वसम्बन्धेन नीलादौ समवायसम्बन्धन नीलादीनां हेतुत्वमित्यत्र षट कार्यकारणभावाः प्राप्नुवन्ति, अन्याँश्च षट् कार्य-कारणभावानुपदर्शयति-समवायेनेति । 'नीलादी' इत्यत्रादिपदात् पीतादेरुपग्रहः, एवं नीलादीनाम्' इत्यत्रापि, यत्र कपालद्वयमपि नीलरूपवदेव तत्र तदुभयारब्धघटे व्याप्यवृत्त्येव नीलमुत्पद्यते, एवं पीतकपालद्वयारब्धघटादावपि व्याप्यवृत्त्येव पीतादिकमुत्पद्यते, तत्राप्यवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलादिकं कारणांमति कार्यकारणभावबलादव्याप्यवृत्तिनीलायु. त्पत्ति प्रसन्मस्य वारणायान्येऽपि षद कार्यकारणभावा: कल्पनीया इत्याह- व्याप्यवृत्तिनीलस्थल इति । 'नीलादी' इत्यत्रादिपदात् पीतादेर्ग्रहणम् , 'लीलेतररूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादीनां ग्रहणम् , तथा च अवच्छेदकतासम्बन्धेन नीलं प्रति स्वसमवायिसमवेतव्यसमवायित्वसम्बन्धेन नीलं कारणम् , एवमवच्छेदकतासम्बन्धेन पीतं प्रति स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन पीतं कारणमित्येवंदिशा षट् कार्यकारणभावाः, तथा च यत्र कपालद्वये नीलमेव रूपं तत्र तदारब्धघटे व्याप्यवृत्त्येव नीलरूपं नाव्याप्यवृत्ति, यतस्तद्घटस्थ नीलरूपमव्याप्यवृत्ति तदा भवेद् यदि तदवच्छेदकतया तद्घटावयवे नीलकपाले उत्पोत, न च तत्रावच्छेदकतया तदुत्पत्तिः सम्मवति, तत्कारणस्य नीलेतररूपस्य स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन तत्राभावात् , यत्र चैकं कपालं नीलमपरं च पीतं रक्तादि वा तत्र तदुभयारब्धस्य घटस्य यद् नीलरूपं तदवच्छेदकातया नीलकपाले उत्पत्तुमर्हति, यत: पीतकपालगतस्य नीलेतररूपस्य पीतस्य स्वसमवापि यत् पीतकपालं तत्र समवेतं द्रव्यं स एव घटस्तत्समवायित्वं नीलकपाले वर्तत इति तेन सम्बन्धेन